________________
१२९) प्रथमः प्रत्यक्षप्रस्ताव:
१७५ ___ स्यान्मतम्-येनातिशयेन दधिव्यपदेशनिबन्धनेन करभादधिरूपं व्यतिरिच्यते तस्य व्यतिरेकविधिस्वभावत्वे करभादिव स्पर्शादेरपि दधिगतात्तद्रूपस्य व्यतिरेक एव स्यात् । अतत्स्व. भावत्वे करभादप्यव्यतिरेकापत्तिः, अतो न वर्णस्पर्शाद्यात्मकत्वेनोभयात्मकत्वं दंधिद्रव्यस्येति; तदपि स्ववधायैव परशुधारानिशातनं परस्य; तथा हि-स्पर्शादेरपि येनातिशयेन व्यतिरिच्यते तद्रूपं तद्व्यपदेशनिबन्धनेन तस्यापि व्यतिरेकविधिस्वभावत्वाविशेषात दधिरूपस्य स्पर्शादेरिव ५ स्वरूपादपि व्यतिरेक एव प्राप्तः, तस्यातत्स्वभावत्वे स्पर्शादेरप्यव्यतिरकापत्तेः, अतो न वर्णाद्यात्मकत्वमपि दधिस्वलक्षणस्य, अपि तु नीरूपत्वमेव । तदुक्तमुम्बेकेन (?)
"न भेदो वस्तुनो रूपं तदभावप्रसङ्गतः ॥"[ ] इति।
तस्य तद्विवेकविधिस्वभावत्वं स्पर्शादिविषयमेव न स्वरूपविषयमिति चेत् ; कुत एतत् ? एवमनुभवादिति चेत् ? किं भवान् अनुभवव्यापारमपि जानाति ? तथा चेत् ; सुस्थितं तर्हि १० दधिरूपस्य तद्गतस्पर्शादेरव्यतिरेकित्वम्, व्यतिरेकित्वश्च करभात् ,अनुभवव्यापारस्यैवमेव प्रतीतेः । एकसामग्र्यधीनतया कल्पित एव तस्य स्पर्शाद्यव्यतिरेकः, तत्कथं तस्यानुभवविषयत्वं कल्पितस्य तदयोगादिति चेत् ? न ; नीलादिरूपस्यापि अविद्याविलासिनीविलासोपनीतशरीरत्वेन दर्शनविषयत्वाभावापत्तेः । तथा च वेदमस्तकवचनम्-"नेह नानास्ति किञ्चन" [बृहदा० ४।४।१९] इति "इन्द्रो मायाभिः पुरुरूप ईयते”[ऋक्०४।७।३३,बृहदा०२।५।१५] इति च । नीलादेरपरं १५ दर्शनवेद्यं न प्रतीयत इति चेत् ; न ; "तव्यतिरेकशून्यस्यापि तद्वद्यस्याप्रतीतेः । नीलादिमात्रं प्रतीयत एवेति चेत् ; न ; अन्येनापि 'सन्मानं प्रतीयते एव'इति कत्तु (वक्तु) शक्यत्वात् ।
ननु सन्मात्रे वस्तुसति तव्यतिरिक्तं दर्शनमेव नास्ति द्वैतवादापत्तेः, तत्कथं "तस्य तद्वेद्यत्वमिति चेत् ; न; नीलादिमात्रेऽपि परमार्थसति तदभावात् । नीलादिसुखादिशरीरव्यतिरे". किणः तद्राहकस्य "अलङ्कारकारेणानङ्गीकारात् । नीलादिसुखादिशरीरयोश्च ग्राह्यत्वेन ग्राहकत्वान- २० भ्युपगमात् । नीलादिरूपमेव तदर्शनमिति चेत् ; सन्मात्ररूपमेव तदर्शनमपि किन्न स्यात् ? सन्मात्रस्य सविवादत्वात्तदनन्तरत्वे दर्शनस्यापि सविवादत्वमिति न तस्य तत्र प्रामाण्यम् , निर्विवादस्यैव प्रामाण्यादिति चेत् ; न; नीलादिदर्शनस्यापि तदभावप्रसङ्गात् । अत्यन्तासाधारणस्य नीलादेरपि विवादाधिष्ठानत्वेन तदनन्तरत्वे तदर्शनस्यापि तदधिष्ठानत्वाविशेषात् । तद्दर्शनविवादस्य कुतश्चिदुपपत्तिबलान्निराकरणमिति चेत् ; न; सन्मात्रदर्शनविवादस्यापि तत एव निरा. २५ करणप्रसङ्गात् । तदुपपत्तिबलस्य सन्मात्रादनान्तरत्वे 'तद्वद्विवादविषयत्वात् कुतस्ततस्तदर्शन. विवादनिवृत्तिः विवादास्पदादेव तदयोगात् ? अन्यथा दर्शनादेव तादृशात् तद्विवादनिवृत्तेः “तद्व
१ अतिशयस्य । २ दधिरूपस्य । ३ व्यतिरेकविधानस्वभावाभावे । ४ अतिशयस्यापि । ५ प्राप्तं स्यात्तस्वभा-आ०, ब०, ५०, स०। ६ इदं मण्डनमिश्रकृतब्रह्मसिद्धौ (२१५) उपलभ्यते। ७-व तत्स्वरू-आ०, ब०,१०,स०। ८ दधिरूपस्य । ९ उपनिषद्वचनम् । १० स्पर्शाद्यभेदशन्यस्य । ११ सन्मात्रस्य । १२ परमार्थेसति मा०,०,५०,०। १३ दर्शनाभावात् । १४-रव्यतिरेकेण त-आ०, ब०, ५०, स.। १५ प्रज्ञाकरगुप्तेन । १६-स्य विवा-आ०, ब०, ५०, स०।१७ तदर्थान्त-भा०,०, ५०, स०।१८ सन्मात्रवत् । १९ विवादा. स्पदात् । २० उपपत्तिबलोपकल्पन ।