________________
१७४ न्यायविनिश्चयविवरणे
[२९ एतेन स्पार्शनं तंदित्यपि प्रत्युक्तम् ; तेनापि रूपादिकमजानता स्वग्राह्ये तदविवेकस्य दुनित्वात्, न च रूपादिसर्वस्वविषयं दर्शनान्तरमस्ति यत्तदविवेकमुपदर्शयेदिति चेत् ; न ; अविवेकवत् विवेकस्याप्यग्रहणप्रसङ्गात् । तथा हि-न चाक्षुषमेव ज्ञानं स्पर्शादिकमप्रतियत् स्वविषयस्य
तद्विवेकं प्रत्येतुमर्हति, तद्विवेकप्रतिपत्तेरपि तत्प्रतीतिपुरस्सरत्वात् । एतेन स्पार्शनं तदित्यपि प्रत्यु५ क्तम् ; तेनापि रूपादिकमप्रतियता स्वविषये तद्विवेकस्य दुरवबोधत्वात् , सकलरूपादिविषयस्य च दर्शनान्तरस्याभावात् न ततोऽपि तदवगम इति कथं दर्शनबलात् परस्परं विविक्तं रूपादिस्खलक्षणं शक्यमवस्थापयितुम् ?
स्यान्मतम्-रूपादिदर्शनस्य स्पर्शाद्यविषयत्वेऽपि तद्विवेकस्य स्वविषयादनन्तरत्वात् स्वविषयं प्रतियत्तमपि नियमेन प्रत्येति अन्यथा अनर्थान्तरत्वायोगादिति ; तदयमस्माक१० मानन्दहेतुरमृतस्यन्दः ; तद्विवेकवत् तदविवेकस्याप्येवमवगमोपपत्तेः, कथञ्चित्स्पर्शाद्यविवेकस्य
रूपादेर्दर्शनविषयादनान्तरत्वाविशेषात् अप्रतिपन्नादपि तद्विषयस्याविवेके दधिरूपस्योष्ट्रस्पर्शादेरप्यविवेकः स्यात् अप्रतिपन्नत्वाविशेषात् , ततश्च दधिकरभयोरेकावयवित्वात् दधनि प्रवृत्तिचोदनायामुष्ट्रेऽपि प्रवृत्तिः स्यादिति चेत् ; न; तद्विवेकस्याप्येवमव्यवस्थितिप्रसङ्गात् , रूपस्वल
क्षणस्य हि सर्वस्माद्विवेके स्वतोऽपि विवेक इति नीरूपमेव तदिति तच्चोदनायामुष्ट्रवद् दधन्यपि १५ न प्रवृत्तिः स्यात् नीरूपस्य व्योमवदशक्यँखादनत्वात् । तथा च कस्यचिद्वचनम् ;-"आकाशमास्वादयतः कुतस्तु कवलग्रहः ?" [ ] इति ।
सर्वस्माध्यतिरेकित्वे' तद्विशेषनिराकृतेः। स्वतोऽपि "व्यतिरेकित्वान्निःस्वभावं भवेद्दधि ॥५४३॥ तथा च दधि खादेति चोदितोऽपीह मानवः ।
दधन्यपि च नीरूपे वर्त्ततां कथमुष्ट्रवत् ? ॥५४४॥
स्वरूपस्य प्रतिपन्नत्वात् कथं तत एव तस्य व्यतिरेक इति चेत् ? न: प्रतिपन्नत्वादव्यतिरेके परतोऽपि न स्यात् तस्यापि कुतश्चित्प्रतिपत्तिसम्भवात् , अन्यथा सत्त्वानुपपत्तेः "उपलम्भः "सत्येव" [प्र. वार्तिकाल० २।५४ ] इति 'वेचनात् । अव्यतिरेके प्रतिपचि.
रव्यतिरेकसाधनी, सा च स्वरूप एव न परत्र, तत्र व्यतिरेकप्रतिपत्तेरेव भावादिति चेत् ; २५ न तर्हि दधिरूपस्यापि करभादव्यतिरेको व्यतिरेकप्रतिपत्तेरेव तत्र भावात् । सत्यपि सा न
व्यतिरेकसाधनीति चेत् ; न ; अव्यतिरेकस्यापि 'तत्प्रतिपत्तेरसिद्धिप्रसङ्गात् । निर्बाधत्वात् ततस्तत्सिद्धिरिति चेत् ; न; व्यतिरेकेऽपि तुल्यत्वात् , तत्प्रतिपत्तेरपि निर्बाधत्वाविशेषात् । न हि लौकिकः परीक्षको वा करभविविक्तदधिरूपनिरूपणोपनिबद्धां बुद्धिं बाधोपरुद्धामवबुध्यते।
दर्शनम् । २ स्पर्शादिविवेकम् । ३ तद्विवेकविषयस्य आ०, ब०, ५०, स.। स्पर्शादिविवेकस्य । ४ रूपादेः । ५ स्पर्शादिविवेकमपि । ६-वेका दधि-आ०, ब०,५०।-वेकोदधि-१०।७-स्य सर्व-आ०,१०, १०, स०। ८-क्यबाधन-आ०, ब०, स०। ९-रेकत्वे आ०, ब०, ५०, स०। १० व्यतिरेकत्वा-आ०, ब०, प०, स.। ११ सत्येति व-आ०, ब०, ५०, स.। १२ “सत्तोपलम्भ एवेति भावानां पारमार्थिकी" -प्र. वार्तिकाल. २०५४।१३ व्यतिरेकप्रतिपत्तिः । १४ अव्यतिरेकप्रतिपत्रोः ।