________________
११९] प्रथमः प्रत्यक्षप्रस्ताव:
१७३ गोऽवयविनो न तत्प्रतिभासस्य मानसत्वम् , अतो न साध्यवैकल्यमुदाहरणस्य । नापि साधनवैकल्यम् ; तत्प्रतिभासे प्रतिसङ्ख्यानोनिवर्त्यत्वं प्रति परस्याविवादात् । तन्न दृष्टान्तस्य कश्चिदोषः ।
नापि हेतोः । असिद्धत्वादोष एवेति चेत् ; न ; प्रतिसङ्ख्यानेनानिवर्त्यत्वस्य घटादिस्थूलप्रतिभासे धर्मिणि समर्थितत्वात् । अनैकान्तिकत्वादिति चेत् ; न ; विपक्षे सर्पादिविषयमानसप्रतिभासे तदभावात् , तत्र प्रतिसङ्ख्यानानिवृत्तरेव दर्शनात् । विरुद्धत्वादिति चेत् ; न ; ५ निश्चितविपक्षव्यावृत्तिकस्य विरुद्धत्वायोगात् । तस्मादसिद्धादिसकलावद्यविकलत्वादनवद्यमिदं साधनम्-घटादिस्थूलप्रतिभासो न मानसः प्रतिसङ्ख्यानेनानिवर्त्यत्वात् गोरूपस्थूलप्रतिभासवदिति । एतदेवाह-'अर्थ' इत्यादि । सन् घटादिरवयवी तस्य स्वावयवेषु विद्यमानत्वात् तस्य प्रतिभासो धर्मिनिर्देशोऽयम् । अर्थम् अर्थक्रियासमर्थ स्वविषयं जानातीति अर्थज्ञाः 'विच्येवं रूपत्वात् साध्यनिर्देशोऽयम् । 'न' इति 'इ' इति च प्रतिषेधाभ्यामस्यैवार्थस्याभिधानात् । अनेन १० कल्पितविषयत्वप्रतिषेधाद् अमानसत्वं तत्प्रतिभासस्याभिहितम् । हेतुमाह-योजनं प्रतिसङ्: ख्यानकृतं समाधानं युक्तं तदभावाद् 'अयुक्तः' इति प्रस (प्रतिस)ङ्ख्यानेनासमाधेयत्वादिति । दृष्टान्तमाह-अभिलापवत् । अभिलप्यते परेणाभ्युपगम्य कथ्यत इति अभिलापो गोप्रतिभासः स इव तद्वदिति ।
___अपि च, यो मानसप्रतिभासो नासौ सन्निहितार्थो यथा अतीतादिप्रतिभासः, सन्निहि- १५ तार्थश्चायं घटादिस्थूलप्रतिभासः, तन्न मानसः। न हि 'अयं घटः' इत्यसन्निहितेऽर्थे भवति । इदं च नः प्रत्यक्षम्,सन्निहितार्थनिश्चयलक्षणत्वात् । ननु कः पुनरसौ स्थूलो नाम यस्य विषयत्वेन सभिधानम् ? वर्ण एवेति चेत् ; न तर्हि स्पृशतस्तत्प्रतीतिः स्यात्, भवति च परिपिहितलोचनस्य स्पृशतोऽपि तदवलोकनात् । स्पर्श एवेति चेत् ; न ; अस्पृशतोऽप्युन्मीलितलोचनस्य तदुपलब्धेः। "रूपाद्यधिकरणमन्य द्रव्यमेव सं इति चेत् ; न; 'अयं घटः' इत्यत्र वर्णादेर- २० न्यस्याप्रतिवेदनात् । अत एवोक्तम्
__ "नायं घट इति ज्ञाने वर्णप्रत्यवभासनात्' [ ] इति ।
ततो न घटादिप्रतिभासश्चाक्षुषो नापि स्पार्शनः, अपि तु तदुभयजन्मा मानस एव, तस्मादसन्निहितार्थ एवायमिति चेत् ; न; रूपादेरन्योन्याविवेकलक्षणस्यार्थस्य सन्निधान एव तत्प्र"तिभासभावात्। कथमन्योन्याविवेको विरोधादिति चेत् ? न ; परस्परपरिहारस्यैव विरोधत्वात् । २५ तस्य चैकान्तिकस्याभावात् , अविवेकस्यापि प्रतिभासात् । न च प्रतिभासादन्यद्विरोधेऽपि निबन्धनमस्ति । कुतस्तत्प्रतिभास इति चेत् ? दर्शनादेवेति. ब्रूमः । 'तद्यदि चाक्षुषम् ; स्पर्शादेस्ते. नामहणात् कथं स्वविषयस्य तदविवेकं प्रत्येति तदविवेकग्रहणस्य तद्ब्रहणनान्तरीयकत्वात् ?
गोरूपस्थूलप्रतिभासे । २-नानिवर्तकत्वं आ०, ब०, ५०, स.। ३-वर्त्यस्य आ०,०,५०, स.। १-से सति तद-आ०, २०, ५०, स.। ५ सद् घटा-आ०, ब०, ५०, स०। ६ विच्प्रत्यये सति 'अर्थज्ञाः' इति सिद्ध्यति । विज्ये चैवं रू-आ०,ब०,१०,स.। ७ नेति च प्रति-आ, ब०, ५०, स०। ८ स्पर्श कुर्वतः । ९ स्थूलप्रतीतिः । १० स्थूलोपलब्धः । ११रूपाधिक-आ०,ब०,१०,स०। १२ स्थूलः । १३-तिभासाभावा-सा "दर्शनम् । १५-स्य सद्रह-आ०, ब०,५०।