________________
१७२
न्यायविनिश्चयविवरणे
[१९
तात्त्विक एव गवादिरवयवी वक्तव्यः । तात्त्विकत्वे तस्य कुतो नावयवविवेकेनोपलम्भ इति चेत् ? न; कथञ्चिदविवेकस्यापि भावात् । कथं पुनः सूक्ष्माविवेकित्वं स्थूलस्य विरोधादिति चेत् ? कथं शक्तिसामान्यविवेकित्वं शक्तिविशेषस्य विरोधाविशेषात् ? शक्तिविशेष एव रूपादीनां न तत्सामान्यमिति चेत्; न; 'तेषु समान' इत्यादिवचनविरोधात् । कल्पितं तेषु ५ तत्सामान्यमिति चेत् ; न; अतो गौरिति वा घट इति वा प्रत्ययस्यायोगात्, कल्पितस्यानर्थ करत्वात्, अन्यथा नित्यादिप्रद्वेषस्य निर्निबन्धनत्वापत्तेः । कल्पितादपि तस्मात्कथं द्विशेषस्याविवेको विरोधपरिहाराभावात् ? विवेक एवास्त्विति चेत्; न; 'गवादे रूपादयः' इति व्यपदेशाभावप्रसङ्गात् सम्बन्धाभावात् । सम्बन्धादपि कल्पितादेव तथा व्यपदेश इति चेत् ; 'रूपादयो घटस्य' इत्यादेर्विरोधात् । कल्पितस्तद्विशेष इति चेत्; न; ततोऽपि 'रूपमिति रस १० इति' च प्रत्ययायोगात् कल्पितस्यानर्थ करत्वात् ।
अन्यथा नित्यविद्वेषो निर्निबन्धनतां व्रजेत् । तस्यापि शक्तिसङ्कल्पादर्थकारित्वसम्भवात् । ५३६॥ कल्पितोऽप्यविविक्तोऽसौ शक्तिसामान्यतो यदि । कल्पिताकल्पितात्मत्वं विरोधाद्युज्यते कथम् ? ॥ ५३७ ॥ विविक्त एव तस्माच्चेत्तस्येति कथमुच्यताम् ? । सम्बन्धेन विना सोऽपि कल्पितो यदि कथ्यते ॥ ५३८ ॥ तस्मादभिन्नं तच्छक्तिभेदतद्वद्द्द्वयं यदि । कल्पिताकल्पितात्मत्वं विरुद्धं पुनरापतेत् ||५३९॥ ततोऽपि तद्विवेकश्चेत्सम्बन्धाभावतः कथम् । स तस्येति वचवृत्तिः सौगतस्योपपद्यते ? || ५४० ॥ पुनः सम्बन्ध तु प्राक्प्रसङ्गानुवर्त्तनात् । अनवस्थालता व्योमविस्तारव्यापिनी भवेत् ॥ ५४१ ॥ ततस्तच्छक्तिसामान्यं तद्विशेष इति द्वयम् । न्यायवर्त्मनि निष्णातैरवगन्तव्यमाञ्जसम् ॥ ५४२॥
१५
२०
२५
भवतु तात्त्विकमेव शक्तिद्वयम्, तत्तु परस्परं भिन्नमेवेति चेत्; न; दत्तोत्तरत्वात् । सम्बन्धाभावेन 'गवादे रूपादयः' इति व्यपदेशायोगात्, कल्पिते च सम्बन्धेऽनवस्थानदोषात् । हेतुफलभात्रे च तस्मिन् तयोरेकसमयत्वाभावप्रसङ्गादिति । परस्परभेदेऽप्येकेन रूपादिना तादात्म्यात्तव्यपदेश इति चेत्; एवमपि न काचित् क्षतिः, स्थूलेतराकारयोरप्येवमन्योन्यभेदे सत्यपि द्रव्येणैकेन तादात्म्योपपत्तेरवयविनो जैनाभिमतस्य सुव्यवस्थानात् । ततस्तात्त्विकत्वाद्
१ - वेकोपल - आ०, ब०, प०, स० । २ - मान्यविवे-आ०, ब०, प०, स० । ३ प्रज्ञाकरगुप्तवचन | ४ शक्तिसामान्यात् । ५ शक्तिविशेषः । ६ परमार्थसत् । ७ परस्परमभि - आ०, ब०, प०, स० ।