________________
प्रथमः प्रत्यक्षप्रस्ताव:
१९]
१७१ तिरेकात् त एव गौरित्यपि प्रत्ययो न दुष्यतीति चेत् ; न ; तस्य प्रतिशक्त्यभिन्नस्य तदन्यतिरेके तात्त्विकस्यैवावयविनः सिद्धिप्रसङ्गात् । तुच्छस्य तयवच्छेदस्य तत्साधारणस्य कल्पने 'तब्यवच्छेदस्तर्हि' इत्यादेः 'तत्कथम्' इत्यादिपर्यन्तस्य प्रसङ्गस्य पुनः पुनरनुबन्धादामिचक्रमापद्यत ।
स्यान्मतम्-न तद्वयवच्छेदस्यैकत्वादेकगवप्रत्ययविषयत्वम् , अपि तु सन्निवेशविशे- ५ पात् । यदाह-"सन्निवेशविशेषेण वा व्यवस्थिताः"[प्र० वार्तिकाल० १।१००-१०२] इति; सन; अत्रापि समानत्वात्तत्प्रसङ्गस्य । तथा हि
रूपादिभ्यो विभिन्नश्चेत्सन्निवेशः स एव गौः । न तु रूपादयस्तस्मात्ते' गौरिति मतिः कथम् ? ॥५३१॥ . अविविक्तः स चेत्तेभ्यो यद्यखण्डश्च कल्प्यते । वास्तवोऽवयवी सिद्ध्येत् स्याद्वादिभिरभिष्टुतः ॥५३२॥ तेभ्यश्चेदविविक्तः सः प्रतिरूपादि भेदवान् । तद्वत्तस्यापि नानात्वान्मतिरेकगवे कथम् ॥५३३॥ सन्निवेशविशेषस्य पुनरन्यस्य कल्पने । पूर्व एव प्रसङ्गः स्यादव्यवस्थाभयप्रदः ॥५३४॥ तन्न शक्तिव्यवच्छेदः सन्निवेशेषु कश्चन ।
गवार्थस्तात्त्विको यस्य दर्शनं निर्विकल्प॑कम् ।।५३५॥
स्यान्मतम्-अतत्फलहेतुव्यवच्छेदः सन्निवेशविशेषो वा न कश्चिदेकरूपो गौरस्ति, शक्तीनामेव बहीनां तत्त्वात्, एकत्वव्यवहारस्तु तत्रैकार्थक्रियानिबन्धन इति; तन्न; 'तत्समान' इत्यादिकस्य॑ 'सन्निवेशविशेषेण' इत्यादिकस्यै चावचनप्रसङ्गात् । एकार्थक्रियानिबन्धनश्च एकत्व- २० व्यवहारो न तावद्दर्शनसमकालः ; ततः पूर्व तक्रियाया अभावात् तद्व्यवहारस्यासम्भवात् । दर्शनमेव तक्रियेति चेत् ; न; तत्कार्यतद्व्यवहारस्य "तत्समकालत्वायोगात् । दर्शनोत्तरकालस्तव्यवहार इति चेत् ; दर्शने तर्हि गोव्यपदेशभाजः परमाणवो विरलात्मान एव प्रत्यवभासेरन् । एवमिति चेत् ; कुत एतत्प्रतिपत्तव्यं न चेत्कोशपानं न चेद्वा बलवन्नरपालशासनम् । अनुभवबलं तु न तादृशमुत्पश्यामो यतस्तान्प्रतिपद्येमहि । ततः कस्यचिदप्यवयवित्वेनानवस्था- २५ नात् कथं तदुपसर्जनरूपादिशक्तिभेदाः प्रतिपाद्येरन् ‘गवादे रूपादयः' इति । तन्न केवलम् 'अश्वं विकल्पयतः' इत्यादिकमेव, अपि तु 'रूपादयो घटस्य' इत्यादिकमपि दुर्भाषितमेव । ततो गोदर्शनं निर्विकल्पकमवयम्युपसर्जनञ्च रूपादिशक्तिविशेषव्यपदेशं विधातुमिच्छता
व्यवच्छेदस्य । २ रूपादयः । ३ चित्तेभ्यः आ०, ब०, ५०, स०। ४ रूपादिभ्यः । ५ सनिवेशः। -रूपनम् मा०,०,५०,०। ७ गोत्वात् । ८ धर्मकीर्युक्तस्य । ९ प्रज्ञाकरोक्तस्य । १०दर्शनसमकालत्वायोगात् । "-मरशास-आ०, ब., १०,स०। १२-न् गोचर उपायः आ०, ब०,१०,स.।