________________
न्यायविनिश्चयविवरणे
[१२९ 'वृक्षाणां वनं वृक्षा वनम्' इति तथा 'घटो रूपादीनां रूपादयो घटः' इति कमान्न भवति ? भवत्येव यदि शास्त्रान्तरसंस्कारो न भवति । लोकस्तु प्रायशस्तत्संस्कारानुसारी, ततो न भवति । यस्तु सम्यगवबोधयुक्तः तस्य भवत्येव सं प्रत्ययः 'रूपादय एव
केचित् घटः कार्यविशेषसमर्थाः, उदकाद्याहरणं च कार्यविशेषः, सन्निवेशविशेषेण वा ५ व्यवस्थिताः, यतः सनिवेशविशेषादुदकधारणविशेषः । 'रूपं घटः' इति तु न भवति
सामानाधिकरण्यम् अवयवावयविभेदेन परस्परव्याप्त्यभावात् ।” [प्र०वार्तिकाल०] इति । ततः कल्पितत्वात् गोरूपस्य मानस एव तत्प्रतिभास इति कथन्न साध्यवैकल्यमुदाहरणस्येति चेत् ? कथमेवमिन्द्रियज्ञानस्य प्रतिसङ्ख्यानबलादनिवर्त्यत्वम् ( र्त्यत्वे ) भवेता तत्र गोदर्शनं निदर्शनमुक्तम् ? सामग्रीसाकल्ये अनिवा गोबुद्धिः अश्वं विकल्पयतोऽपि गोदर्शनादिति १. 'तस्यापि मानसत्वे प्रतिसङ्ख्याननिवर्त्यत्वात् तदनिवर्त्यत्वं प्रति साध्यविकलत्वेनोदाहरण
त्वायोगात् । तदयमिन्द्रियज्ञानविषयत्वं गोरूपस्य प्रतिपद्यमान एवं तस्य विकल्पितत्वमप्याचष्ट इति कथमनुन्मत्तो धर्मकीर्तिः ? भारवहनाचेकप्रयोजनसाधनसाधारणरूपादिशक्तिरूपत्वात् अकल्पित एव गवार्थः । यदाह-"तेषु समानोदकधारणशक्त्याक्षेपेण घटश्रुतिः" [प्र. वार्तिकाल.]
इति चेत् ; न ; शतरप्रत्यक्षत्वेन दर्शनविषयत्वानुपपत्तेः । प्रत्यक्षत्वेऽपि यद्यका चाव्यतिरिक्ता १५ च रूपादिभ्यस्तच्छक्तिरभ्यनुज्ञायते; सिद्धस्तर्हि "परमार्थत एव तद्रूपो गौरवयवीति "कथमुक्तम्
"अवयवा एव नावयवी विद्यते" [प्र. वार्तिकाल० ११९९ ] इति ? व्यतिरिक्ताऽवयव्यभिप्रायेण तद्वचनमिति चेत् ; न; अव्यतिरेकेऽपि अवयवित्वायोगात्। कथश्चिव्यतिरेके 'तंद्योग इति चेत; न; स्याद्वादिमतानुप्रवेशप्रसङ्गात् । तन्नैका शक्तिः ।
प्रतिरूपादिव्यक्ति भिन्नैवेति चेत् ; कथमेवम् एकगवप्रत्ययविषयत्वमेकस्यैव ?"अतत्फल२० हेतुव्यवच्छेदस्य 'तासु भावादिति चेत् ; तव्यवच्छेदस्तर्हि गोऽवयवी ? सत्यम् ; यदाह
"तत्समानफलाहेतुव्यवच्छेदे" घटश्रुतिः" इति। इति चेत् ; न तहिं तस्य दर्शनविषयत्वं नीरूपत्वेनाप्रतिबन्धात्", तत्कथमश्वं विकल्पयतो गोदर्शनादिति निदर्शनोपन्यासः ? तब्यवच्छेदस्य च गोऽवयवित्वे 'तद्व्यवच्छेदो"गौः' इति प्रत्ययेन भवितव्यं न 'रूपादयो गौः'
इति । ततो यदुक्तम्-'यस्तु सम्यगवबोधयुक्तस्तस्य' इत्यादि 'घटः' इति पर्यन्तम् । २५ तदसम्यगवबोधविजृम्भितमेव प्रज्ञाकरस्योत्पश्यामः।"तब्यवच्छेदस्य शक्तिरूपेभ्यो रूपादिभ्योऽव्य
१ वृक्षवन-भा०,ब०,१०,स० । २ सम्प्रत्ययः-भा०,०,५०,स० । प्र०वार्तिकाल । ३ यतस्तनिवेमा०, ब०, स०। यतस्तत्सन्निवे-प० । ४ भवतात्र आ०, ब०, १०, स.। ५-वत्यैगोबुद्धिमत्वं विकल्पयतो गोदर्शनादिति तस्यापि समानत्वे प्रतिसंख्याननिवर्त्यत्वं तदनि-आ०, ब०, स०। ६ गोदर्शनस्यापि । ७ प्रतिसंख्याननिवर्त्यत्त्वं प्रति प०। ८ एतस्य आ०, ब०, ५०, स०।९ यथाह आ०, ब०, ५०, स० । १० परमार्थ एव मा०, ब०,५०, स०। ११ कथं युक्तं भा०, ब०,५०,०। १२ तद्योग्य इ-आ०, ब०, १०, स०। अवयवित्वयोगः । १३ अतत्कार्यकारणव्यावृत्तेः। १४ भिन्नशक्तिषु । १५-दे घट इति चेन मा०, ब०, ५०, स. १६ तुच्छस्वभावत्वेन सम्बन्धाभावात् । १७-च्छेदा गौ-आ०, ब०, ५०।१८ प्रज्ञाकारस्यो-ता० । १९ अतहेतुफलव्यवच्छेदस्य।