________________
१९]
प्रथमः प्रत्यक्षप्रस्तावः चोक्तम्-'सिद्ध इत्यादि । असमर्थ चेत् ; न ; भेदवत् सञ्चेतनादावपि तदभावप्रसङ्गात् । न चैवमेकत्वाध्यवसायेन किश्चित् । अथ सन्निहितत्वात्तध्यवसाय एव लोकं व्यवहारयति न भेदप्रतिवेदनं "तस्यासन्निहितत्वात, अयमेव च तदध्यवसायेन भेदव्यवहारस्य प्रतिरोध इति चेत् ; न; 'तत्प्रतिवेदनमपि यदा सन्निहितम् ; तदा तव्यवहारस्यापि प्रसङ्गात् । तन्नैकत्वाध्यवसायेन भेदव्यवहारप्रतिरोधात् सतोऽपि भेदप्रतिवेदनस्यानुपलक्षणं किन्त्वभावादेव इति न ५ स्थूलप्रतिभासस्याभिमानिकमिन्द्रियभावाभावानुविधायित्वम् , वस्तुत एव तदुपपत्तेः।
अपि च, यदि तत्प्रतिभासो मानस एव प्रतिसङ्ख्यानतो निवर्तेत "शक्यन्ते हि कल्पनाः प्रतिसङ्ख्यानबलेन निवर्तयितुम्" [ ] इति खयमभिधानात् । न चैवम्, निरंशं विकल्पयतोऽपि स्थूलप्रतिभासानिवृत्तेः, तस्मान्न स्तम्भादिस्थूलप्रतिभासो मानसः प्रतिसङ्ख्यानेनानिवर्त्तनात् गोरूपस्थूलप्रतिभासवन् । ननु च न गोरूपोऽपि स्थूलाकारः परमार्थ- १० सम्नस्ति परमार्थतो रूपादिपरमाणूनामेव भावात् , घटाद्यवयविव्यवहारस्यापि तदधिष्ठानत्वात् । "यदि तर्हि नावयवी अपि तु रूपादय एव तदा न 'घटस्य रूपादयः' इति भवेत् । न हि भवति 'रूपादीनां रूपं "रूपादयः घटस्य घटः' इति पर्यालोचनं परस्याशक्य धर्मकीर्तिराह
"रूपादिशक्तिभेदानामनाक्षेपेण वर्त्तते । तत्समानफलाहेतुव्यवच्छेदे घटश्रुतिः ॥ अतो न रूपं घट इत्येकाधिकरणा श्रुतिः । भेदश्चायमतो जातिसमुदायाभिधानयोः । रूपादयो घटस्येति तत्सामान्योपसर्जनाः । तच्छक्तिभेदाः ख्याप्यन्ते वाच्योऽन्योऽप्यनया दिशा ॥"
[प्र० वा० १।१०२-१०५ ] इति । २० अत्र प्रज्ञाकरस्य व्याख्यानम्-"रूपादीनां "प्रतिनियतशक्तिभेदमनाक्षिप्य तेषु समानोदकधारणशक्त्याक्षेपेण घटश्रुतिः प्रवर्तते ततो 'न रूपादयो घटः' इति समानाधिकरणता । अत एव समुदायशक्तिविवक्षायाम् अयं समुदायशब्दः, जातिशब्दस्तु प्रत्येकमेकफलत्वे यथा वनं यथा वृक्ष इति । कथं तर्हि 'रूपादयो घटस्य' इति व्यपदेशः १ "उदकाहरणसाधारणरूपादिप्रत्ययजननसमर्थाः प्रत्येकमित्यर्थः । अथ यथा २५
१ सिद्ध इत्यन्यासम-आ०, ब०, ५०, स०। 'सिद्धो नः सिद्धान्तः' इत्यादि । २ यथा भेदप्रतिवेदन भेदव्यवहारे असमर्थ तथ।। ३ व्यवहाराभावप्रसङ्गात् । ४ भेदनप्रति-मा०, ब०, प., स.। ५ तस्यानीतत्वा-मा०, २०, ५०। तस्यानीलस्वा-स० । ६ भेदप्रतिवेदनम् । . स्थूलप्रतिभासः। 6. "अशुभाद्यालम्बना रागाविप्रतिपक्षभूतो प्रज्ञा प्रतिसङ्ख्यानम्"-तत्त्वस. पं० पृ. ५४७ । ९ तुलना-"चैत म्यवसायात्म प्रत्यक्षं मानसं मतम् । प्रतिसङ्ख्यानिरोध्यत्वादर्थसन्निध्यपेक्षणात् ।"-सिद्धिवि. प्रत्यक्षपरि० । १. “यदि तर्हि नावयवी रसादय एव तदा न घटस्य रूपादयः इति भवेत् । न हि भवति रूपादीनां रूपम् , नापि घटस्य वा घट इति पर्यालोचनं परस्याशक्याह"-प्र. वार्तिकाल. १००।"'रूपादयः' इति पदमधिकं भाति । १२ प्रतिनियतशक्तिरे वघटमना-आ०, ०,१०, स०।१३ उदकापूरण-स.।
२२