________________
१६८
न्यायविनिश्चयविवरणे
[१९
प्रतीतिरपि तादात्म्यविषयैवात्र लौकिकी । तन्तवो यत्पटीभूता इति लोकोऽवगच्छति ॥५२८॥ जात्यन्तरमपाकृत्य प्रतीतं भागभागिनोः । अन्यथा कल्पयंल्लोकमतिकामति केवलम् ॥५२९॥ भेदाभेदात्मकत्वं तद्वक्तव्यं भागतद्वताम् । . एतदेव स्वयं देवैरुक्तं सिद्धिविनिश्चये ॥५३०॥ प्रत्यासत्या ययैक्यं स्याद्धान्तिप्रत्यक्षयोस्तथा । भागतद्वदभेदोऽपि ततस्तत्त्वं द्वयात्मकम् ॥"
- [सिद्धिवि० परि० ६ ] इति । तन्न परमाणू नां विवेकानवभासने नीलादितयाप्यवभासनमुपपन्नम् उक्तदोषात् । अविद्यमानश्च परमाणुरूपकेशविरलाकारप्रतिभासः कथं घनाकारप्रतिभासस्य बाधक इत्यनिश्चितमेव तस्यातदर्थविषयत्वम् , एतदेवाह-युक्तः' इति । युक्तिः बाधोपपत्तिः, युक्तस्यायुक्तः प्रतिभासः, 'अव्यक्तः' इति पूर्ववदुपहासः । कस्य ? असतः असत्त्वस्य घनाकारसम्बन्धिन
इति । निदर्शनमाह-अभिलापवत् । अभिलापादिवं अभिलापवदिति । यथा 'नास्ति १५ घनाकारः' इति वचनमात्रान्न तस्यावभासः तथा बाधोपपत्तेरपि तस्या एवाभावादिति भावः। तन्न केशघनाकारप्रतिभासनिदर्शनेन स्तम्भादिस्थूलाकारप्रतिभासस्यासदर्थत्वनिश्चयः साधीयान् ।
___ यत्पुनरेतत्-अंसदर्थविषयः स्थूलप्रतिभासो मानसत्वात् मरीचिकातोयप्रतिभासवदिति; तन्न; तस्येन्द्रियभावाभावानुविधायिनो मानसत्वायोगात् । अन्यस्यैव स्वलक्षणदर्शनस्य तदनु
विधायित्वं स्थूलप्रतिभासे तु तत्सान्निध्यात् तँदाभिमानिकमेव न वास्तवमिति चेत् ; न; तदन्य२० .स्याप्रतिवेदनात् नयनोन्मीलनानन्तरं झटिति स्थूलप्रतिभासस्यैव प्रत्यवलोकनात् । अप्रतिविदि.
तस्यापि भावे ततोऽप्यन्यस्यैव तदनुविधायित्वं पुनरपि ततोऽप्यन्यस्यैवेति न क्वचिदवस्थितिभवेत् । एकत्वाध्यवसायात्तदप्रतिवेदनं नाभावादिति चेत्, ; किं पुनस्तदध्यवसायस्तस्य स्थूल. प्रतिभासात्पृथग्भावं प्रतिरुणद्धि, स्वसंवेदनं वा"? तथा चेत् ; सिद्धो नः सिद्धान्तः 'स्थूलप्रतिभा
सान्नापरमस्ति' इति । अथ न प्रतिरुणद्धि; कुतो न भेदप्रतिवेदनम्? विद्यत एव तत् , केवलं २५ व्यवहार एव तदनुरूपो न भवतीति चेत् ; तत्प्रतिवेदनं चेत्तत्रं समर्थ सोऽपि कस्मान्न भवति ?
एकत्वाध्यवसायेन प्रतिरोधादिति चेत् ; न ; सति समर्थे कारणे तदयोगात् । 'तत्सामर्थ्यमेव तेर्ने प्रतिरुध्यत इति चेत् ; न ; प्रत्यक्षस्यैव तत्प्रसङ्गात् । ततस्तस्याव्यतिरेकात् । अत्र
-त्मकं तद्वक्त-आ०, ब०, ५०, स.। २ -प्रत्यययोस्तया ता० । ३ "त्रयात्मकम्"-सिद्धिविः । ४-प्र-आ०, ब०, प०, स०।५-पा इव आ०, ब०, ५०, स०। ६ असमर्थविषयस्थू-भा०, ब०, ५०, स०।७ तदनुविधायित्वम् । तथाभि-आ०, ब०। ८ स्वलक्षणदर्शनस्य । ९-नं नानाभा-आ०,ब०,५०,स० । १० स्वलक्षणदर्शनस्य ।" 'वा'शब्दः समुच्चयार्थकः । १२ व्यवहारे । १३ भेदप्रतिवेदनगत व्यवहारसामर्थ्यम् । १४ एकत्वाध्यवसायेन । १५ प्रतिरोधप्रसङ्गात् । १६ सामर्थ्यात् ।