________________
प्रथमः प्रत्यक्षप्रस्ताव:
१२९]
१६७ नवभासनादिति चेत् ; कोऽसौ 'तदनवभासः ? तुच्छोऽवभासप्रतिषेध इति चेत् ; न; तुच्छश्च स्थूलश्चेति व्याघातात् । अभेदप्रतिभासस्तदनवभास इति चेत् ; न; अभेदस्याभावात् । असन्ने. वासौ प्रतिभासत इति चेत् ; न; तत्प्रतिभासस्य विभ्रमप्रसङ्गात् । को दोष इति चेत् ; कथं ततो नीलादिसिद्धिः? तत्राविभ्रमादिति चेत् ; कथं विभ्रमाविभ्रमरूपत्वमेकस्य ज्ञानस्य ? विरोधात्। अविरोधे वा स्थूलसूक्ष्मरूपत्वमप्येकस्य वस्तुनस्तात्त्विकमेवेति नैकान्तेन स्थूलाकारस्यापर- ५ मार्थसत्त्वम् ।
यत्पुनरस्मिन्नवसरे-'कथं भवद्भी रथ्यासु विप्रकीर्णः केशकलापः पलालपिण्डोऽन्यो वा स्थूलः शक्यते व्यवस्थापयितुम् ? न हि इमेऽवयविनो भवद्भिरभ्यनुज्ञायन्ते, अन्त्यावयवित्वेन पलालादिव्यक्तीनां द्रव्यान्तरानारम्भात' इति सौगतस्य चोये त्रिलोचनस्य वचनम्"नैष दोषः, पृथक्त्वाग्रहणनिबन्धनस्य वनप्रत्ययवदस्यापि स्थूलप्रत्ययस्य भ्रान्तत्वात्" १०
] इति; तदप्येतेन चिन्तितम् ; तथा हिपिण्डे पलालबोधस्य विभ्रमो बाधनाद्यदि । पलाले तर्हि तस्यास्तु निर्बाधत्वादविभ्रमः ॥५२०॥ तयोरन्योन्यतो भेदे विभ्रमेतररूपयोः । भिन्नतद्रूपतादात्म्याद् बोधस्यापि भिदा भवेत् ॥५२१॥ बोधेद्वितयभावे च तज्जन्म युगपत्कथम् ? ज्ञानानां युगपज्जन्म यन्न योगैरभीप्सितम् ॥५२२।। क्रमतश्चेत्तदुत्पत्तिः दृश्यते युगपत्कथम् ? ।
आशुभावनिमित्तश्चेद्विभ्रमस्तादृशो मतः ॥५२३॥ विभ्रमत्वं कुतो योगपद्ये १ बाधनतो यदि । बोधयोस्तर्हि तस्यास्तु निर्बाधत्वादविभ्रमः ॥५२४॥ अत्रापि पूर्वन्यायेन बोधद्वन्द्वस्य कल्पने । तस्यापि युगपजन्म कथं न्यायविदो भवेत् ? ॥५२५।। तज्जन्मक्रमभावे व प्रसङ्गः पूर्ववभवन् । सचक्रकानवस्थानदुस्सहक्लेशमावहेत् ॥५२६॥ एकत्वं चेत्कथञ्चित्स्याद्विभ्रमेतरयोर्मिथः । भागानां भागिनश्चैवं तादात्म्यं किन्न मन्यते ? ॥५२७॥
भेदानवभासः । २ अभेदः। ३ पलालबोधस्य । १ 'पलालपिण्डोऽयम्' इति बोधगतयोः विभ्रमेतररूपयोः। ५ बोधद्वितीय-मा., ब०, ५०, स०। ६ युगपद्भानरूपः । ७ पूर्ववन्न्या-मा०, ब०, ५० स०।८-द्ववेत् आ०,०,५०,स।