________________
न्यायविनिश्चयविवरणे
[१२९ स्थूलाकारस्यासद्रूपत्वे तदधिष्ठानविरलभावस्याप्यसद्रूपत्वेन तज्ज्ञानस्य मिथ्याज्ञानत्वात् । न हि मिथ्याज्ञानमेव धनाकारप्रत्ययस्य बाधकम् , अन्यत्रैवमदर्शनात् । व्यवहारतः सन्नेव विरलकेशस्थूलाकार इति चेत् ; न ; स्तम्भादिस्थूलाकारस्यापि व्यवहारतः सत्त्वाविशेषात् । व्यावहारिकमप्रतिषिद्धमेव तत्सत्त्वं पारमार्थतत्सत्त्वस्यैव निषेधादिति चेत् ; कुतस्तन्निषेधः ? विरल५ केशघनाकारनिदर्शनादिति चेत् ; तदाकारस्यापि परमार्थसत्त्वाभावात् निदर्शनत्वम्, व्यव
हारसत्त्वाभावाद्वा ? परमार्थसत्त्वाभावादिति चेत् ; कुतस्तस्य तदभावः ? तत्प्रत्ययस्य स्खलनादिति चेत् ; तदपि कुतः ? बाधनाद्विरलकेशप्रत्ययेनेति चेत् ; स्यौदेतदेवं यदि तस्य परमार्थविषयत्वम् , तादृशेनैव तत्प्रत्यनीकविषयस्य बाधोपपत्तेः । न चैवम् , तस्य संवृतिसिद्धस्थूल
विरलकेशविषयत्वेन अनन्तरं प्रतिपादनात् । न च तादृशेन कचित् परमार्थसत्त्वस्य बाधन१० मुपपन्नम् ; संवृतिसिद्धसिंहज्ञानेन माणवके मनुष्यज्ञानस्य बाधप्रसङ्गात् । तन्न परमार्थ
सत्त्वाभावात्तदाकारस्य निदर्शनत्वम् । व्यवहारसत्त्वाभावात्तु निदर्शनत्वे ततो व्यवहार. सत्त्वाभाव एव स्तम्भादिस्थूलाकारस्य शक्यापादनो न परमार्थसत्त्वाभावः ।
___ भवतु तर्हि परमार्थविषय एव स्थूलविरलकेशप्रत्ययोऽपीति चेत्; कुत एतत् ? बाधकप्रत्य. योपनिपातपरिपीडारहितत्वादिति चेत् ; खान्नो रत्नवृष्टिः पतिता, स्तम्भादिस्थूलाकारप्रत्ययस्यापि १५ तत्पीडारहितत्वेन परमार्थसद्विषयत्वोपपत्तेः । तन्न स्थूलात्मानस्तत्केशाः । परमाण्वात्मान इति चेत; न; परमाणूनामप्रतिभासनात् , सर्वदा स्थूलाकारस्यैव बहिरवलोकनान ।
स्यान्मतम्-विततत्वमेव स्थूलत्वम् , तच्च परमाणुपरस्परप्रत्यासत्तिरूपमेव नाखण्डावयविरूपं तस्य कचिदप्यनवलोकनात् । अतः स्थूलप्रतिभास एव परमाणुप्रतिभासः, तत्कथं तद
प्रतिभास इति ? तन्न ; एवं बोध्याभावप्रसङ्गात् । केशधनाकारप्रत्ययो "बाध्य इति चेत् ; न ; २० एवं तस्यापि केशपरस्परप्रत्यासत्तिरूपचनाकारगोचरत्वेन यथार्थत्वात् , तादृशस्य च बाध्यत्वानु.
पपत्तेः । अवयविविषय एव धनाकारप्रत्ययः तेन बाध्यत्वमिति चेत् ; न; केशप्रत्ययस्यापि तद्विषयत्वतः तत्प्रतिभासत्वापत्त्या परमाणुप्रतिभासनाभावस्यापरिहारात् । अपि च, परमाणूनां प्रत्यासत्त्या यदि तद्भेदस्याप्रतिरोधः कथं तदात्मक वैतत्यम् , विभिन्नेषु स्तम्भादिषु "तददर्शनात?
भेदप्रतिभासस्य"तया प्रतिरोध इति चेत् ; न; भेदाव्यतिरेकात् परमाणूनां 'तत्प्रतिभासस्यापि तैया २५ 'तत्प्रसङ्गात् । तथा च 'तत्प्रत्यासत्तिर्वैतत्यम् इति रिक्ता वाचोयुक्तिः अनधिगतविषयत्वात् ।
नीलादितयावभासन्त एव परमाणव इति चेत्; तथापि कथं वितताः ? प्रत्यासत्तिकृताद् भेदा
1-त्रैव दर्श-आ०, ब०, ५०, स०। २ स्तम्भादिस्थूलाकारसत्त्वम् । ३ -स्यात्तदेवं भा०, २०, ५०, स०।४ परमार्थविषयेणैव । ५-स्याबाधो-आ०, ब०, ५०, स.। ६ -स्याबाध-भा, ब०, ५०, सः ।
ले तयव-आ.. ब०, ५०, सः। ८ निर्बाधत्वेन । ९ बाध्यभाव-मा०, ब०, ५०, स.। १० बाध्यत इति आ०, ब०, ५०, स०।११-यत इति चेन्न तत्प्रति-आ०, ब०, ५०, स.। " तदर्शना-आ०, ब०, ५०, स.। १३ प्रत्यासत्या। १४ परमाणुप्रतिभासस्यापि । १५ प्रत्यासरया १६ प्रतिरोधप्रसङ्गात्