________________
१।१] प्रथमः प्रत्यक्षप्रस्तावः
१६५ मानात्-इन्द्रियादिप्रत्यक्षं शब्दप्रतिभासवत्, तत्त्वात्' मानसाध्यक्षवदिति । स्वलक्षणेष्वसतः कथं शब्दस्य तत्र प्रतिभासनमिति चेत् ? स्थूलाकारवदिति ब्रूमः । तदाह-अभिलापवत् । अभिलापः शब्दो विद्यतेऽस्मिन्नित्यभिलापवत् 'अर्थज्ञानम्' इति विभक्तिपरिणामेन सम्बन्धः । तदपि इन्द्रियजं 'विकल्पकम् इति भावः । ततो यथा नासतः स्वलक्षणे शब्दस्यावभासनं तथा स्थूलाकारस्यापि न स्यात् , तदस्ति च । तस्मात्सन्नेवायमिति कथन तदात्मनो बहिरर्थस्य ५ परमार्थत्वम् ?
___अपि च, विरलकेशाधिष्ठानस्यापि घनाकारस्यासत्त्वं कुतोऽवसितम् १ तत्प्रतिभासात् इन्द्रियज्ञानादेवेति चेत् ; न ; तत्प्रतिभासस्य तदभावप्रतिभासत्वविरोधात् । अन्यथा
नीलादेर्वस्तुजातस्य यदेव प्रतिभासनम् । तदेव तदसत्त्वस्याप्यवभासनमापतेत् ॥५१३॥ तद्धनाकारवत्प्राप्तं नीलाद्यखिलमप्यसत् । बहिरर्थप्रवादाय दीयतां सलिलाञ्जलिः ॥५१४॥ असत्त्वोपाधिकत्वेन घन एवावभासते । न नीलादि ततो नास्ति दोषोऽयमिति चेन्न तत् ॥५१५॥ घनज्ञानस्य मिथ्यात्वं कथमेवं प्रकल्प्यताम् ? न ह्यसन्तमसत्त्वेन बुध्यमानं मृषोचितम् ॥५१६॥ तस्यापि धनबोधस्य सम्यग्ज्ञानत्वमेव चेत् । निवर्तनीयमभ्रान्तपदस्यैवं हि किं भवेत् ? ॥५१७॥ चन्द्रद्वित्वावभासं चेज्ज्ञानं तदपि दुर्घटम् । असखोपाधिकस्यैव तद्वित्वस्यापि भासनात् ॥५१८॥ न तथा प्रतिपत्तिश्चेद्धनाकारेऽपि तत्समम् । तन्न तत्प्रतिभासेन तदसत्त्वावबोधनम् ॥५१९॥
तदाह-'अर्थ' इत्यादि । अर्थस्य घनाकारस्य अर्यत इति व्युत्पत्तेः, ज्ञानं तस्मिन् असतः असत्त्वस्य तदाकारसम्बन्धिन एव प्रत्यासत्तेः प्रतिभासोऽव्यक्तः, 'व्यक्तम् इत्यनुवर्तमानेन लिङ्गपरिणामेन उपहसनपरेण च सम्बन्धात् 'अव्यक्तः' इति लभ्यते । निदर्शन- २५ माहे-'अभिलापवत्' इति । अभिलापशब्देन तजनितं ज्ञानं गृह्यते, अभिलाप इवाभिलापवदिति-अयमर्थो यथामिलापजं विज्ञानं न स्वयमेव स्वविषयस्याभावं गमयति तथा घनाकारज्ञानमपीति । भवतु तर्हि बाधकप्रत्ययात्तदभावावसाय इति चेत् ; कस्तत्प्रत्ययः १. विरलकेशविषय इति चेत् कीदृशास्ते केशा यदधिष्ठानं विरलत्वम् । स्थूलरूपा इति चेत् ;न;
प्रत्यक्षत्वात् । २ विकल्पमिति स.। ३ कुतोऽवस्थितस्तत्प्रतिभासो द्वीन्द्रिय-आ०,०,५०, स०। ४-अर्थस्येत्या-भा०,०, १०, स०। ५-माह अभिलापशब्देन भा०, ०, प., स.। ६-टानत्वं विर-आ०, ब०,५०, स.।