________________
१६४
[११९
न्यायविनिश्चयविवरणे
१९ अहेतोरपि वित्तिश्चेत्त द्वित्त्वादेः, तदा कथम् । 'कारणस्यैव वेद्यत्वम्' इत्ययं नियमो भवेत् ? ॥५११॥ अहेतोर्वेद्यतां वक्ति नियमं वक्ति चेदृशम् । केन धान्धा (ध्यन्धा)यितो हन्त जगद्विजयधीरयम् ॥५१२॥
अपि च, यद्यसतोऽपि स्वलक्षणेषु स्थूलाकारस्य दर्शनम् ; शब्दस्य किन्न स्यात् ? स्थूलप्रतिभासो दृश्यते न शब्दप्रतिभास इति चेत् ; न; 'घटोऽयं पटोऽयम्' इत्यत्र शब्दप्रतिभासस्यापि दर्शनात् । विकल्पप्रतिभास एवायं न प्रत्यक्षप्रतिभास इति चेत् ; न; अस्यैव मानसप्रत्यक्षत्वेन प्रज्ञाकरेण कथनात् । शब्दप्रतिभासवत्त्वे कथमस्य प्रत्यक्षत्वं निर्विकल्पकत्वाभावादिति चेत् ? नैन्वयं तत्रैव दोषस्तत्किमत्र प्रश्नेन ? स्वकौपीनविवरणस्याप्रतिबुद्धव्यवहारत्वात् ।
नायं दोषः, शब्दप्रतिभासवत्त्वेऽपि पूर्वापरपरामर्शित्वाभावेनाविकल्पकत्वादिति चेत् ; उच्यते-यदि तत्परामर्शित्वादेव विकल्पकत्वं तर्हि प्रत्यक्षे सर्वत्र तदेव निराकर्तव्यम् विकल्पप्रसङ्गभयस्य तत्प्रयुक्तत्वात् न शब्दप्रतिभासवत्त्वम्, सत्यपि तस्मिंस्तत्प्रसङ्गभयाभावात् । तदिदं व्याधभयपरिहाराय साधुव्यापादनं ताथागतस्य । तत्परामर्शस्यापि शब्दप्रतिभासमूलत्वात्स
एव तत्र प्रतिषिध्यत इति चेत्, न; मानसप्रत्यक्षेऽपि तत्प्रतिषेधप्रसङ्गात् । अस्त्येव वस्तुतस्त१५ त्रापि तनिषेधः केवलं तत्प्रतिभासिना विकल्पेन एकत्वाध्यासात् आभिमानिकं तदपि तत्प्रतिभा
समुच्यत इति चेत् ; कस्तर्हि वस्तुत इन्द्रियज्ञानात्तस्य भेदः ? न कधिदिति चेन ; नास्त्येव तर्हि "तदिति न "प्रत्यक्षचतुष्टयवादः साधीयान् ।
यत्पुनरेतत्-आगमप्रसिद्धं तदभिप्रेत्य 'नीलमिदम्' इत्यादिविकल्पप्रादुर्भावान्यथानुपपत्त्या चानुमितं तदङ्गीकृत्य तञ्चतुष्टयवाद इति ; तदास्तां तावत् प्रस्तावान्ते निरूपणात् । २० ततस्तस्येन्द्रियज्ञानाद् भेदं ब्रुवता तात्त्विक एव "तत्र शब्दप्रतिभासो वक्तव्यः ततः कथन्न
तत्परामर्शित्वं यतो विकल्पकत्वं न भवेत् ? सत्यपि "तत्प्रतिभासे ''तत्र तत्परामर्शाभावे चक्षुरादिज्ञानेऽपि न भवेदिति "तत्र "तत्प्रतिभासनिषेधनं प्रयासमात्रमेव कीत्तेः । अतस्तन्निराकरणादवगम्यते सति "तस्मिन्नवश्यंभावी "तत्परामर्श इति कथन्न विकल्पकं मानस
प्रत्यक्षम् ? तथा सति प्रत्यक्षान्तरस्यापि तत्त्वमनिवार्यम् । तथा हि-इन्द्रियादिप्रत्यक्ष २५ विकल्पकं प्रत्यक्षत्वात् मानसप्रत्यक्षवत् । शब्दप्रतिभासाभावान्नेति चेत् ; न ; तस्याप्यनु
१ सौगतः। २"इदमित्यादि यज्ज्ञानमभ्यासात्पुरतः स्थितेः । साक्षात्करणतस्तत्तु प्रत्यक्ष मानसं मतम् ।"प्र. वार्तिकाल. १२४३ । ३ नन्वयं न चैव दो-आ०,ब०,५०,स०। ४ पूर्वापरपरामर्शिस्वमेव । ५ तथागतस्य आ०,ब०प०स०। ६ शब्दप्रतिभास एव । ७ चेन्न स प्रत्यक्षे-आ०,०प०स०। ८ शब्दप्रतिभासनिषेधः। ९ शब्दप्रतिभासिना । १० मानसप्रत्यक्षस्य । ११ मानसप्रत्यक्षम् । १२ इन्द्रियमनोयोगिस्वसंवेदनप्रत्यक्षचतुष्टय । १३ "एतच सिद्धान्तप्रसिद्धं मानसं प्रत्यक्षम् ।"-ज्यायबि०-पृ०१४। तर्कभा० पृ०९। १४ मानसप्रत्यक्षे । १५ कथं तत्प-मा०, ब०, ५०, स०। १६ शब्दप्रतिभासे । १७ मानसप्रत्यक्षे। १८ पूर्वापरपरामर्शाभावे । १९ चतुरादिज्ञाने । २० शब्दप्रतिभास । २१ शब्दप्रतिभासे । २२ पूर्वापरपरामर्शः ।