________________
१६३
१९]
प्रथमः प्रत्यक्षप्रस्ताव ननु च जात्यादितद्वद्भावेन भेदे सति तादात्म्यमेव योजनम् , तञ्च सर्वत्र प्रत्यक्षे विद्यत इति कथन्न सर्वस्य तस्य विशेषणादिविषयत्वमिति चेत् ? न ; गुणप्रधानभावोपाधिकस्यैव तस्य योजनत्वात् , तद्भावस्य च सर्वत्राभावात् । भवतु विवक्षानियमेन तद्भावनियमः तस्य विवक्षानिबन्धनत्वात् , “विवक्षया मुख्यगुणव्यवस्था" [बृहत्स्व० श्लो० २५ ] इति वचनात् । प्रत्यक्षस्य तु कथं तद्विषयत्वं तस्य विवक्षारूपत्वाभावादिति चेत् ; तथापि विवक्षया ५ जनितसंस्कारप्रबोधगर्भस्य तस्य न विरुध्यत एव विशेषणादिविषयत्वम् , कथमन्यथा 'बहवः' इति 'एक' इति 'बहुविधम्' इति 'एकविधम्' इति च विशेषणादिरूपेण ग्रहणं यतो बह्वादिवेद्यभेदेन अवग्रहादिभेदकथनमाम्नायप्रसिद्धमुपपनीपद्येत ? ततः स्थितम्-संयोजनमेव प्रत्यक्षं सविकल्पकं नापरमिति । 'सर्व संयोजनमेव सविकल्पकमेव' इत्यनुज्ञाने तु यद्वक्ष्यति-"सकलाकारं वस्तु निर्विकल्पकम् ] इति तद्विरुध्येत । निरंशप्रतिभासरूपनिर्विकल्पकत्वप्रत्य- १० नीकभावापेक्षया तु सकलमपि प्रत्यक्षं सविकल्पकमेव, तस्य जात्यन्तरगोचरत्वेन सांशवस्तुविषयत्वोपपत्तेरिति सर्व निरवद्यम् ।
ननु तदिदं भवतां जात्यन्तरं यत्पुरोवर्तितया प्रतिभाति नीलादिस्थूलरूपम् , तस्य च दूरविरलकेशादाविव अविद्यमानस्यैव प्रतिभासनात्कथं तद्रूपो बहिरर्थः पारमार्थिको यतस्तद्विषयत्वं प्रत्यक्षस्येति चेत् ? अत्राह
अर्थज्ञानेऽसतोऽयुक्तः प्रतिभासोऽभिलापवत् । इति ।
'अर्थस्य' इत्यनुवर्तते । तदयमर्थः-अर्थस्य विषयस्य प्राहकत्वेन सम्बन्धिनि सति । कस्मिन् ? अर्थज्ञाने, अर्य्यत इत्यर्थो विषयस्तस्माज्ज्ञानम् , पञ्चमीति योगविभागात्समासः, तस्मिन् ? किम् ? असतोऽविद्यमानस्य स्थूलाकारस्य प्रतिभासो वेदनविषयत्वम् अयुक्तः सङ्गतो न भवति । तथा हि
२० अर्थकार्य यदि ज्ञानमर्थस्य ग्राहकं मतम् । असतः स्थूलरूपस्य प्रतिभासस्तदा कथम् ? ॥५०८॥ असतो न हि विज्ञानमन्यवहोपनायते । जायते चेदसत्तन्न सतः कार्य हि लक्षणम् ॥५०९॥ चन्द्रद्वित्वादिकस्यैवमहेतुत्वादवेदने । व्यावद्भावतो न स्यादभ्रान्तपदमर्थवत्" ॥५१०॥
१ तादात्म्यस्य । २ गुणप्रधानभावस्य । ३ गुणप्रधानभावनियमः । ४ विशेषणादिविषयत्वम् । ५ "बहुबहुविधक्षिप्रानिःसृतानुक्तध्रवाणां सेतराणाम् । अर्थस्य"-तस्वार्थसू. ११६,१७।६-द्धमुपपद्येत प० । सर्वसंयो -मा०, ब०, ५०, स० । ८ जात्यन्तरत्वेन आ०,ब०प०,स०। ९ "यथैव केशा दवीयसि देशे असंसक्ता अपि घनसनिवेशावभासिनः परमाणवोऽपि तथेति न विरोधः।"-प्र. वार्तिकाल. २१२२३।१०-मानस्थूला-भा०, ब०, ५०, स०।११ कल्पनापोढमभ्रान्तमिति प्रत्यक्षलक्षणगतमभ्रान्तपदम् ।