________________
न्यायविनिश्चयविवरणे
१६२
[ १२१८
चान देवस्य वचनम् -'"' विविधानुविधानस्य विकल्पनान्तरीयकत्वात् । " [ प्रमाणसं ० स्व० *लो० ४ ] इति । तर्हि तल्लक्षणे एव विकल्पः प्रत्यक्ष प्रतिषिध्यते इति चेत्; केन तत्प्रतिषेधः ? “जात्यादेर्विवेकेन" इत्यादिना न्यायेनेति चेत्; न; तेन प्रत्येकदर्शनपुरस्सरयोजनात्मकस्यैव तस्य निषेधात्, “विशेषणम्" इत्याद्युक्त्वा तदभिधानात् तलक्षणस्य ५ विकल्पस्योक्तप्रकारेणासम्भवात् । न चाऽसम्भवतो निषेधः स्वतः सिद्धेः रागवर्तिकशुकानाम् । अन्यतस्तन्निषेध इति चेत्; किं तदन्यत् ? प्रत्यक्षमेव तस्यैकानेकप्रतिभासविकल्प विकलस्यानुभवात "प्रत्यक्षं कल्पनापोढं प्रत्यक्षेणैव सिद्ध्यति” [ प्र० वा० २।१२३ ] इत्यभिधानाद चेत्; न; तर्यं तद्विकल्पात्मन एव 'आत्मनाऽनेकरूपेण' इति निवेदितत्वात् । संशयादिदोषापादनेन जात्यन्तरनिराकरणात्तत्रं तन्निषेध इति चेत् ; न ; तथा दण्ड्यादिविकल्पेऽपि तन्नि१० षेधापत्तेः । कल्पित एव सोऽपि न वास्तव इति चेत्; न; वस्तुभूतविकल्पाभावे तत्कल्पनानुपपत्तेर्निवेदितत्वात् । ततो यदि “ तद्विकल्पे जात्यन्तरस्य न संशयादिना पीडनं प्रत्यक्षेऽपि न स्यादविशेषात् ।
किञ्च किमिदं संशयाद्यापादनं प्रमाणम् ? अप्रमाणापादितस्य दोषस्यादोषत्वात् । प्रत्यक्षमिति चेत्; न; तस्याविचारकत्वात् । अनुमानमिति चेत्; न; तस्य निर्विकल्पकस्या१५ भावात्, अनभ्युपगमात् । विकल्पकत्वेऽपि स्वयमनवगतस्य अदोषापादनत्वात् । अवगत स्वसंवेदनाध्यक्षेण”तदिति चेत् कथमेवं विकल्पाविकल्पात्मना " उभयात्मानमनुपद्रवं प्रतिपद्यमानमेव ” तत् प्रत्यक्षस्य जात्यन्तरे संशयादिकमापादयेत् "स्वरूपानभिज्ञत्वप्रसङ्गात् ? तन्न तात्त्विकस्य विकल्पस्य प्रत्यक्ष कुतश्चिदपि निषेध इति सिद्धं सविकल्पकं प्रत्यक्षम् ।
ननु च विशेषणविशेष्यभाक्त्वेन तस्य सविकल्पकत्वमुक्तं न जात्यन्तरप्रतिभासत्वेन २० तत्कथमिदं तत्प्रयोजकमुच्यते ? जात्यन्तरप्रतिभासादन्यस्य तद्भाक्त्वस्याभावादिति चेत् ; न तर्हि 'विशेषणविशेष्यभाकू' इति पृथगभिधातव्यम्, जात्यन्तरप्रतिभासस्यै" 'आत्मना ' इत्यादिना प्रतिपादनादिति चेत्; न; उभयथा विकल्पावेदनार्थत्वादेवं वचनस्य । तथा हि-यदि निरंशविषयत्वं निर्विकल्पकत्वम् ; न तर्हि प्रत्यक्षं निर्विकल्पम्", तस्यानेकरूपस्वपरावभासित्वेन विकल्पकत्वोपपत्तेः इत्या वेदनार्थमिदमभिहितम् -'अनेकरूपेण तादृशो ग्रहणम्' इति । तथा यदि अकृतयोजनं ग्रहणमविकल्पकत्वम्; तर्हि प्रत्यक्षमपि यदेव तथाविधं तदेवाविकल्पकम् कृतयोजनं तु विकल्पकमेवेति प्रतिपादयितुं 'विशेषणविशेष्यभाकू' इत्युक्तम् ।
२५
"
१ विवादानुविवादनस्य विकल्पान्त - आ०, ब०, प०, स० । २ उभयावभासित्वे सत्येकज्ञानत्वलक्षणः । ३ प्रतिपद्यते इति आ०, ब०, प०, स० । ४ -धः सि-स । -धः खतः सिद्धः आ०, ब०, प० । ५ स्वतः सिद्धत्वादित्यर्थः । ६ प्रत्यक्षस्य । ७-ल्पात्मनानेक भा०, ब०, प०, स० । ८ प्रत्यक्षे । ९ विकल्पत्वनिषेधः । १० दण्डधादिविकल्पे । तद्विकल्पजा- आ०, ब०, प०, स० । ११ अनुमानम् । १२ स्वरूपांशे निर्विकल्पकम् अर्थांशे च विकल्पकमिति । १३ अनुमानम् । १४ अनुमानस्य जात्यन्तरत्वापत्तिभयात् विकल्पत्वमात्र स्वीकारे स्वरूपानभिज्ञत्वं स्यादिति भावः । १५ - सनस्य भा०, ब०, प०, स० । १६ -ल्पकं तआ०, ब०, प०, स० । १७ अकृतयोजनम् ।
"