________________
१८)
प्रथमः प्रत्यक्षप्रस्तावः वस्तुकल्पनाविरहस्य विप्रतिपत्तिस्थानस्यानेनासाधनात् । तत्कल्पनाविरह एवानेन साध्यत इति चेत् ; न ; तल्लक्षणापरिज्ञानात् । इदमेव विशेषणविशेष्यप्रत्येकदर्शनपूर्वकं संयोज्यग्रहणं तल्लक्षणमिति चेत् ; क पुनरिदं तल्लक्षणत्वेन प्रतिपन्नम् ? दण्डीति विकल्प इति चेत् ; न; तत्र योजनस्य-मिश्रणस्य वस्तुतोऽसत्त्वात् अवस्तुविकल्पलक्षणत्वायोगात् । भवतु वा किमपि योजनम् , तथापि दण्डदेवदत्तयोः प्रत्येकदर्शनं विकल्पकम् , अविकल्पकं वा ? विकल्पकञ्चेत्, ५ तर्हि तत्रापि दण्डस्य विशेष्यस्य तदवयवानाञ्च विशेषणानां प्रत्येकं दर्शनं योजनञ्चापेक्षणीयम् । तंदवयवानाञ्च दर्शनस्य विकल्पकत्वे तत्रापि तेषां तद्भागानाञ्च प्रत्येकं दर्शनं योजनं चापेक्षितव्यं तावदेवं यावदन्ते परमाणवः, तेषाञ्च न दर्शनम्, तस्मिंश्च न तद्विशिष्टस्य तदवयविनो दर्शनम् , तत्र च न तद्विशेषणस्योत्तरावयविनो दर्शनम्, तावदेवं यावन्न दण्डदर्शनम् । देव. दत्तदर्शननिषेधेऽप्ययमेव न्याय इति प्रत्येकदर्शनाभावान्न संयोज्यग्रहणं दण्डस्य .देवदत्तेनेति १० कथं तद्दण्डीति ग्रहणम् , यत्रेदं विकल्पलक्षणमवगम्येत ? तन्न तयोर्दर्शनं विकल्पकम् । अवि. कल्पकमेव तदिति चेत्; तत्र कस्य प्रतिभासः ? अवयविन इति चेत् ; न; तस्यै "निरवयवस्य तदनुपलम्भात् "परस्यानभ्युपगमाञ्च । सावयवस्येति चेत् ; न; तदर्शनस्य विशिष्टविषयत्वेनाविकल्पकत्वाभावप्रसङ्गात् । निरंशक्षणिकस्य स्वलक्षणस्य तत्र प्रतिभासनमिति चेत् ; भवत्येव निर्विकल्पकत्वं तद्दर्शनस्य यदि तत्क्वचिदुपलब्धुं शक्येत । नापि तद्विषयस्य क्वचिद्योजनमिति १५ सुव्यवस्थितो दण्डीति विकल्पः ।
स्यान्मतम् -संवेदनाकारयोरेव दण्डदेवदत्तयोः प्रत्येकदर्शनं योजनञ्च न बहिरा. कारयोः, विकल्पस्य वस्तुवृत्त्या निर्विषयत्वात् , तन्नायं प्रसङ्ग इति; तदपि न समीचीनम्; तत्संवेदनस्यानवगमात् । दण्डिज्ञानात् पूर्व 'दण्डप्रतिभासं देवदत्तप्रतिभासञ्च् विकल्पद्वयं तदिति चेत् ; सम्भवत्यत्र प्रत्येकं दर्शनं न पुनर्योजनं क्षणिकत्वेन पश्चात्तदभावात् द्वयस्यैकीकरणायो-२० गाच । नन्विदमेव पुनर्योजनं यत्तद्वयेन उभयप्रतिभासमेकं दण्डिज्ञानमुपजन्यत इति चेत् ; न; तद्वयस्य युगपदसम्भवात् , अनभ्युपगमात् । क्रमभावे च सन्निहितस्यैव कारणत्वं "नेतरस्येति कथं तवयजन्यत्वं दण्डिविकल्पस्य ? सन्निहित्तस्यापि व्यवहितविकल्पसंस्कारप्रवोधगर्भस्यैव कारणत्वादेवमिति चेत् ; अस्ति तर्हि कथञ्चित्प्राच्यविकल्पस्याप्युभयप्रतिभासवत्त्वम् । भवतु को दोष इति चेत् ? कुतस्तस्याप्युत्पत्तिः ? तादृशादेव प्राच्यविकल्पादिति चेत् ; क्व तर्हि प्रत्येक- ।।
२५ दर्शनमुपयोगवत्" ? यतस्तद्वचनमपर्यालोचितं न भवेत् । तन्न प्रत्येकदर्शनपुरस्सरं योजनं वस्तुतो विकल्पलक्षणम्, उभयावभासित्वे सत्येकज्ञानत्वस्यैव तल्लक्षणत्वेनावस्थानात् । तथा
-स्य प्रति-आ०,ब०,५०,स० । २ वस्तुकल्पनाविरह । ३ मिश्रणस्य' इति पदं योजनस्य' इति पदस्य टिप्पणभुतं मूले प्रक्षिप्तमिति भाति । ४ -सत्त्वाद्वस्तुवि-ता०।५ प्रत्येकदर्श-आ०,ब०,५०,स०। ६ दण्डाक्यवानाम् । ७ परमाणुदर्शनाभावे । ८-नं तावद्देव-आ०,ब०प०,स०।९ दण्डदेवदत्तयोः। १० अवयविनः।" निरंशस्य । १२ बौद्धस्य । १३ -लब्धं शक्ये-आ०,ब०,१०,स०। १४ विकल्पकस्य स० १५ दण्डिप्रति-आ०, ब०,५०,स० । १६ -भावस्यैकीकरणा-आ०, ब०, ५०, स० । १७ दण्डप्रतिभासेन देवदत्तप्रतिभासेन च । १० नोत्तरस्य आ०,०प०स०। १९-वदतःआ०,ब०,१०,स०।-नानावस्थानात्-सा-नादस्थानात्-आ०,०प०।