________________
[ १८
न्यायविनिश्चयविवरणे योजनम् १ तथा चेत् ; न ; दण्डदेवदत्तयोरप्यमिश्रप्रतिभासत्वेन तदभावे दण्डीति विकल्पानुत्पत्तिप्रसङ्गात् । मा भूत्तदुत्पत्तिरिति चेत् ; न ; संयोज्यग्रहणं प्रति तन्निदर्शनप्रदर्शनविरोधात् । परप्रसिद्ध्या तत्प्रदर्शनमिति चेत् ; कथं परोऽप्यमिश्र प्रतिपद्यमान एव मिश्रं प्रतिपद्येत ? प्रतिपद्यमानो दृश्यत इति चेत् ; तत्प्रतिपत्तिरेव तहिं विरोधोद्भावनेन निवारयितव्या ।
अॅपि [च,] त्वलोकव्यवहारस्यैवेविंधत्वात्कुतः स्वयं तदभ्युपगमः क्रियते ? प्रयोजनवशादिति चेत् ; किं प्रयोजनम् ? विकल्पस्य संयोज्यग्रहणत्वसाधनम् ;. तथा हि-यद्विकल्पक तत्संयोज्यग्रहणं यथा दण्डीति विकल्पकम् , विकल्पकञ्च विवादास्पदमिति चेत् ; न ; निदर्शनस्य वस्तुतः साध्यविकलत्वात् । परोपगमात्तदविकलत्वमिति चेत् ; न ; उप
गममात्रसिद्धस्याऽवस्तुरूपत्वात् । न चावस्तुरूपनिदर्शनबलोपनीतस्य साध्यस्यापि वस्तु१० रूपत्वम् । अवस्तुरूपमेव तदपि सर्वस्यापि संयोज्यग्रहणस्य सांवृतत्वादिति चेत् ; तर्हि किं
तत्साधनप्रयासेन प्रयोजनाभावात् ? प्रयोजनवत्त्वे वस्तुरूपत्वापत्तेः । मा भूत्साध्यस्य प्रयोजनवत्त्वं तत्साधनं तु सप्रयोजनमेव, प्रत्यक्षे तद्रपकल्पनानिषेधनस्य तत्प्रयोजनत्वात. अनिरूपिताकारस्य निषेध्यस्य क्वचिनिषेधायोगात् । स चायं तन्निषेधप्रयोगः-यन्न भेदप्रतिभासं
तन्न संयोज्यग्रहणं यथा क्षीरवारिज्ञानमतद्वेदिनः, न भेदावभासच जातिजातिमदादिरूपेण १५ प्रत्यक्षम् , यच्च न संयोज्यग्रहणं न तद्विकल्पकं यथा तदेव क्षीरवारिवेदनमतद्वेदिनः, न
संयोज्यग्रहणञ्च प्रत्यक्षम्, ततो निर्विकल्पकमिति चेत् ; न; तत्रावस्तुरूपकल्पनाविरहस्य परं प्रत्यर्पि प्रसिद्धत्वेन तत्साधने सिद्धसाधनदोषापत्तेः । अवस्तुभूतायामपि कल्पनायां परस्य वस्तुभावाभिनिवेशात् प्रत्यक्षे "तत्सद्भाव एव प्रसिद्धो न तद्विरहस्तत्कथं सिद्धसाधनत्वमिति चेत् ?
स्वोपगमतस्तर्हि तत्रावस्तुभूताया एव कल्पनाया निषेधात् ,"वस्तुभूतया कल्पनया सविकल्पकमेव २० प्रत्यक्षं प्राप्तम् । वस्तुभूता कल्पनैव नास्तीति चेत् ; न; तद्भावे कल्पितकल्पनाया अप्यभावा.
पत्तेः । उभयकल्पनाविलोपस्य च कल्पनामन्तरेण दुरवबोधत्वादित्यावेदितत्वात् । कल्पनयैव कल्पनाविलोपप्रतिपत्तौ च विशेषणविशेष्यतद्योजनप्रतिभासवती वस्तुत एवासौ" वक्तव्या, तद्व. त्प्रत्यक्षस्यापि तत्प्रतिभासवत्त्वोपपत्तौ कथन्न वास्तवी तत्र कल्पना ? ततो यद्यवस्तुकल्पनाविरहस्तत्र साध्यते वस्तुकल्पनया विकल्पमेव तदापन्नम् । ततः प्रयासमात्रमेवैतत् धर्मकीर्तेः
"विशेषणं विशेष्यश्च सम्बन्धं लौकिकी स्थितिम् । गृहीत्वा सङ्कलय्यैतत्तथा प्रत्येति नान्यथा ॥ यथा दण्डिनि जात्यादेविवेकेनानिरूपणात् । तद्वता योजना नास्ति कल्पनाऽप्यत्र नास्त्यतः ॥"[प्र०वा०२।१४५]इति ।
१ योजनाऽभावे । २ -दर्शनवि-आ०,ब०,१०,स०। “प्रत्येकञ्च विशेषणादीनां ग्रहणमन्तरेण न संयोजन यथा दण्डीति प्रतीतौ।"-प्र. वार्तिकाल०२।१४६ । ३ चेन्न तत्प्र-आ०,ब०,५०,स०। ४ अपि तु लोक-स०। अपि त्वलोक-आ०,०प० । ५-स्यैवं सिद्धत्वात् आ०,व०प०स०। ६-जनविक-मा०,ब०,१०,स०। ७ -कल्पञ्च-आ०,ब०,१०,स०1८-पि सि-आ०,ब०,५०,स०९-पि विक-आ०,ब०प०,स०। १०कल्पनासद्भावः। ११ वस्तुभूतायाः कल्पनायाः स-आ०, ब०, प०, स०।१२ कल्पना । १३ विशेषणविशेष्यतद्योजनप्रतिभास ।