________________
१२८]
प्रथमः प्रत्यक्षप्रस्तावः योजनायाः । तन्न पारमार्थिकी योजना।"[प्र०वार्तिकाल०२।१४६] इति चेत् ;कथं तर्हि तेनैवोक्तम्-"संयोज्यग्रहणं हि कल्पना" [प्र०वार्तिकाल०२।१४६ इति ? योजनाभावे तत्पूर्वकस्य ग्रहणस्यासम्भवात् । तदयं योजनमनिच्छन्नेव तत्पूर्वकं ग्रहणमिच्छतीति कथं स्वस्थः ? संवृत्या तदिष्टेरदोष इति चेत् ; न ; 'संवृत्यर्थापरिज्ञानात् । असत्यपि योजने तदाभासं ज्ञानं तदर्थ इति चेत् ; नन्विदमपि ज्ञानं नेन्द्रियजम् , तत्र योजनप्रतिभासस्यानभ्युपगमात् । कल्पनैवेति चेत् ; ५ न; योजनाभावे तदसम्भवात् । तत्सम्भवेन योजनमिति चेत् ; न; अन्योन्याश्रयस्य सुव्यक्त. त्वात् । न योजनं पुरोधाय कल्पना येनैवं प्रसङ्गः किन्तु तैदात्मिकैव सोपजायत इति चेत् ; न; 'संयोज्य ग्रहणं हि कल्पना' इत्यत्र योजनस्य ग्रहणपूर्वकालत्वाभिधानविरोधात् । न विरोध एककालत्वेऽपि 'व्यादाय स्वपिति' इत्यादिवत् औपसंख्यानिकस्य क्त्वाप्रत्ययस्य भावादिति चेत् ; न; भेदप्रतिभासयोजनयोरप्येवमेककालत्वप्रसङ्गात् । तथा च तदुक्तं परेण- १०
"योजनात्पूर्व प्रत्येकदर्शनपूर्विका कल्पना" [प्र० वार्तिकाल० २।१४६] इति ; तत्प्रतिविहितम् ।
अपि च, किंविषयं तद्योजनं यदात्मिका कल्पनोत्पद्यते ? न तावदहिर्विषयम् ; कल्पनाया निर्विषयत्वात् । अन्तर्विषयमिति चेत् ; न; तत्रापि भेदप्रतिभासाभावे तदसम्भवात् “अभिनप्रतिभासस्य" इत्यादि वचनात् । तत्प्रतिभासेऽपि नितरां तदनुपपत्तेः “विभिन्न प्रतिभासस्य" १५ इत्यायभिधानात् । न चानुपदर्शितविषयं योजनं नाम ; अयोजनमेव तत्स्यात् । सत्यमयोजनमेव तत् , संवृत्या तु तस्य योजनत्वमिष्यते इति चेत् ; न ; 'संवृत्यर्थापरिज्ञानात्' इत्यादिकस्य 'अयोजनमेव तत्स्यादिति' पर्यन्तस्यावर्तनात्, पुनरपि 'सत्यम्' इत्यादिवचने तस्यैवावर्त्तनात् चक्रकस्यानवस्थावाहिनः प्रसङ्गात् । तन्न परमार्थत इव संवृत्यापि परस्य योजनमिति न कल्पना नाम । मा भूदिति चेत् ; कुतस्तदभावे योजनामावस्यावगतिः १ 'अभिन्नप्रतिभा- २० सस्य' इत्यादिकाद्वचनादिति चेत् ; न ; शब्दगडुमात्रात् , कस्यचिदवगमविरोधात् , ज्ञानकल्पनापरिश्रमवैफल्यापत्तेः । तदुपजनितज्ञानादेवेति चेत् ; न ततोऽपि तुच्छाभावस्यावगतिः असम्बन्धात् । नापि भावान्तरस्वभावस्य ; विशेषात्मनः शाब्दज्ञानाविषयत्वात् । सामान्यात्मनोऽपि कचिदयोजितस्याप्रतिभासनात् । योजितप्रतिभासने तु कथं सर्वात्मना कल्पनाभावः ? तत्प्रतिभासस्यैव कल्पनात्वात् । “संयोज्य" इत्यादिवचनात्पारमार्थिकी चेयम् , संवृतिवादे २५ अनवस्थादोषस्योक्तत्वात् । ततो दुरुक्तमेतत् “न पारमार्थिकी योजना" [प्र. वार्तिकाल. २।१४६ ] इति ।
किञ्च, मा भूदभेदैकान्ते योजनं तस्योभयापेक्षत्वात् , तत्र चोभयरूपाभावात् , भेदैकान्ते तु कथन्न योजनं तत्र तद्भावात् ? अमिश्रत्वेन प्रतिभासनादिति चेत् ; किं पुनर्मिश्रणमेव
संवृत्यार्थापरि-आ०, ब०, १०, स० । २ संवृत्यर्थः । ३ योजनात्मिकैव कल्पना। ५ योजनापूर्व प्रभा०.ब०प०, स.। "योजनापूर्व प्रत्येक."-प्र. वार्तिककाल०। ५ कल्पनानां मा भा०.ब०.१०.स.। ६ शब्दागममात्रात् आ०, ब०,०, स०। ७ उभयरूपसद्भावात् ।