________________
१०
न्यायविनिश्चयविवरणे
[१८
स्पष्टतरम् अपरस्य प्रत्यासन्नतमस्य स्पष्टतममिति 'दृष्ट एवायं विभागः । तथा च " यद्यस्मा - नितिभासं न तत्तेनैकविषयं यथा रसज्ञानं रूपज्ञानेन, प्रत्यक्षाद् भिन्नप्रतिभासं चानुमानम्" [ ] इत्यत्र भिन्नप्रतिभासत्वं व्यभिचारीति निवेदितं भवति, स्पष्टज्ञानात् स्पष्टतरादिज्ञानस्य भिन्नप्रतिभासत्वेऽप्येकविषयत्वोपलम्भात् । करिष्यते चात्र द्वितीये विस्तर इति नेहातीव निर्बध्यते ।
२५
१५८
स्यान्मतम्-विशेषणं विशेष्यमिति च सत्येव योजने भवति तदभावे तदप्रतीतेः । "योजन सत्येव भेदे । न च जात्यादि तद्वतामस्ति परस्परतो भेदः, तदनवभासनात् । संसनवभासनमिति चेत्; सति भेदे संसर्ग एव कस्मात् ? समानदेश कालत्वादिति चेत् ; न; समानदेश कालानामपि स्वरूपस्य भेदात् । भिन्नदेशकालानामपि स्वरूपभेदादेव तथाप्रतिभासो न देशकालभेदात् । यदि हि तत्र न स्वरूपभेदो देशादिभेदेऽपि न भेदप्रतिभासनम् । देशाद्य१५ भेदेऽपि परेषां वर्णसंस्थानयोरवभासत एव भेदो वातातपयोश्व इति न देशाद्यभेदादवभासभेदो हीयते । अथ समवायसम्बन्धबलादेकलोलीभावेन प्रतिभासनम् ; तथा सति सर्वत्र तथात्वकल्पनाप्रसङ्गतः सर्व एवाभेदप्रतिभासो नाभेदसाधनं भवेत् । ततोऽनवभासनान्नास्त्येव जात्यादि तद्वतां भेद् इति न तदायत्तं तत्र योजनम्, अयोजने च न विशेषणादिकमिति कथं तद्भाक्त्वं प्रत्यक्षस्य यतो विकल्पकत्वं तस्येति ? तदपि न साधु मतम् ; ऐकान्तिकस्य भेद२० प्रतिभासस्याभावेऽपि जात्यादि तद्वतां कथचित्तत्प्रतिभासस्य प्रागेव प्रतिपादितत्वात् । सति च तस्मिन् कथञ्चिदभेदात्मनो योजनस्यापि भावात् । अवश्यं चैतदेवमङ्गीकर्त्तव्यम् ऐकान्तिके भेदप्रतिभासे तदभेदप्रतिभासवद् योजनस्यैवाभावापत्तेः ।
नन्वयमिष्टे स्थाने वृष्टिलाभस्तथागतानां योजनाभावस्य तैरभ्युपगमात् । तथा च वचनं
पुनरपि ग्रहणविशेषणं 'विशेषण' इत्यादि । विशेषणं च जात्यादि व्यवच्छेदकत्वात्, विशेष्यश्च तद्वत् व्यवच्छेद्यत्वात्, विशेषणविशेष्ये विषयत्वेन भजतीति 'विशेषणविशेष्यभाकू' इति । अनेनार्थग्रहणस्य विकल्पकत्वमुक्तम् । तथा हि-यत् संविशेषणग्रहणं तत् सवि - कल्पकं यथा दण्डीति ग्रहणम् । सविशेषणग्रहणञ्च जात्यादिमदर्थग्रहणमिति ।
प्रज्ञाकरस्य
"अभिन्नप्रतिभासस्य योजनं कस्य केन वा ?
विभिन्नप्रतिभासस्य योर्जंनं न प्रतिभाति ( प्रतीतिभाक् ) |
इत्यभिन्नप्रतिभासं हि तत् एकमेव कस्तत्र योजनार्थः उभयापेक्षत्वाद्योजनायाः । अथ भिन्न प्रतिभासद्वयं तदा परस्परविवेकेन प्रतिभासनान्नितराम् अयोजनेत्यसम्भव एव
१ स्पष्ट आ०, ब०, प०, स० । २ - प्रत्यवभासनं न आ०, ब०, प०, स० । ३ तद्यव-आ०, ब०, प०, स० । ४ योजनं स-आ०, ब०, प०, स० । ५ भिन्नप्रतिभासः । ६ तथाकल्पना-आ०, ब०, प०, स० । ७ कथंभेदभेदात्मनो स० । कथंभेदाभेदात्मनो प० । ८ -नं न प्रतिभासति स० । “योजनं न प्रतीतिभाक् " - प्र० वार्तिककाल० ।