________________
१८]
प्रथमः प्रत्यक्षप्रस्तावः दर्शनस्यार्थसारूप्यं यदि तत्कल्पितं भवेत् । कल्पनाविरहाभावात् प्रत्यक्षं तत्कथं भवेत् ? ॥५०१॥ सविकल्पकमेवेदं प्रत्यक्षं यदि कल्प्यते । प्रत्यक्षं कल्पनापोढं भवेदव्यापि लक्षणम् ॥५०२।। परमार्थेन सारूप्यस्याभावादर्थवेदने । कल्पनाविरहस्तस्मिन्नस्त्येवेति यदोच्यते ॥५०३॥ अतद्रूपस्य तस्यार्थविषयत्वं तदा कथम् । सर्वसाधारणस्यास्य नियमोऽपि क्वचित्कुतः ? ॥५०४।। स्वहेतुबलतस्तच्चेदर्थविनियतार्थकम् । तत्काल्पनिकमप्येवं सारूप्यं तर्हि निष्फलम् ॥५०५।। न चार्थदर्शनं नास्ति तस्य पूर्व समर्थनात् । अर्थदर्शनमध्यक्षं तब्रुवाणैः परिस्फुटम् ॥५०६।। अकल्पनाकृतं वाच्यं सारूप्यमपि तद्गतम् । सोरूप्यदर्शनं तच्चेद्धान्तिरेवार्थबोधयोः ॥५०७।।
अन्यथादर्शनाभावान्नाभ्रान्तपदमर्थवत् ।
तस्माद्वस्तुसदेव द्रव्यपर्यायात्मकत्ववत् सामान्यविशेषात्मकत्वमपि भावस्य, तद्विषयत्वच प्रत्यक्षस्येति सूक्तम्-'आत्मनाऽनेकरूपेण बहिरर्थस्य तादृशः । व्यक्तं ग्रहणम्' इति ।
तद्विशिनष्टि विचित्रं शबलं सामान्यस्य विशेषात्मकं विशेषस्य सामान्यात्मकमिति । तत्र यदि विशेषात्मकमित्यत्रावधारणम् ; शबलमिति व्याख्यानमनुपपन्नम्, विशेषैकात्मनः शबल- २० त्वायोगात्। एतेन सामान्यात्मकमित्यपि विचारितम् । नोभयत्राप्यवधारणम् , विशेषात्मनि सामान्यात्मनः, तदात्मनि च विशेषात्मनो विद्यमानत्वादिति चेत्, उपपन्नमेवं शबलमिति व्याख्यानम् विचित्रपदं तु पुनरुक्तं भवेत् ग्रहणशाबल्यस्य 'अनेकरूपेण' इत्यनेन गतत्वात् । प्रत्यक्षशाबल्यमेव तेनं गतं नार्थग्रहणशाबल्यमिति चेत् ; न; प्रत्यक्षात्तदर्थग्रहणस्याव्यतिरेकात् । तन्नेदं व्याख्यानमित्यन्यथा व्याख्यायते
विचित्रं स्पष्ट-स्पष्टतरादिप्रतिभासभेदेन नानाप्रकारमिति । नन्विदमपि वैचित्र्यम् । अनेकेत्यादिनैव गतं तत्कथं पौनरुक्त्यपरिहार इति चेत् ; न ; एकपुरुषप्रत्यक्षस्यैव 'तेन तदभिधानम् , अनेन तु- नानासन्तानग्रहणगतस्य प्रतिभासभेदस्याभिधानमिति पौनरुक्त्यमवतारात् । कस्यचिद्धि प्रत्यासन्नस्य स्पष्टमर्थग्रहणम् अन्यस्य प्रत्यासन्नतरस्य
दर्शनस्य । २ विषयप्रतिनियमः । ३ -कमित्येवं प० । ४ प्रत्यक्षगतम् । ५ तत् सारूप्यदर्शनं भ्रान्तिरेव चेत् । अर्थबोधयोः अन्यथादर्शनाभावात् इत्याद्यन्वयः। ६ अनेकरूपेणेति पदेन । ७-क्त्यपहार भा०, ब०, 1., स०। ८ अनेकरूपेणेति पदेन । ९ विचित्रपदेन ।