________________
न्यायविनिश्वयविवरणे
[ १२१८ दर्शनशब्दस्य विकल्पवाचित्वात्, यदि सदृशविकल्पादेव तद्विकल्पः । तर्हि सर्वस्यापि मनोविभ्रमस्यान्तरुपप्लवजत्वमेवापतितम्, तथा चेदमेव वक्तव्यम् -
"अस्तीयमपि या त्वन्तरुपप्लव समुद्भवा" [प्र० वा० २।३६२ ] 'भ्रान्तिः ' इति, न " साधर्म्यदर्शनाल्लोके भ्रान्तिः” इति, तस्यार्थान्तराभावात् । न चैकवचनप्रतिपन्नेऽर्थे ५ वचनान्तरमर्थवत् ; अतिप्रसङ्गात् । ततो न दर्शनशब्दस्य विकल्पार्थत्वम्, प्रत्यक्षार्थत्वस्यैवोपपत्तेः । प्रत्यक्षे च तद्दर्शने न सादृश्यस्यावस्तुत्वम्; दर्शन विषयस्य तदयोगात् । दर्शनस्यापि भ्रान्तत्वान्न तद्विषयत्वेन वस्तुत्वं सादृश्यस्येति चेत्; न; सर्वदा सँदृशस्यैव विषयस्य दर्शने प्रतिभासनात् । तथा हि
१०
१५६
अपि च,
धूमान्तर समस्यैव धूमस्येह प्रवेदनम् ।
निराकारेऽपि विज्ञाने नात्यन्ताय विधर्मणः ॥४९६॥
धूमश्चायमिति ह्येवं प्रत्यभिज्ञानमन्यथा । कथं येनास्य लिङ्गत्वं पर्वताग्निप्रसाधने ? || ४९७॥ पश्यतोऽप्यतिवैधर्म्य प्रत्यभिज्ञा यदीदृशी । पाषाणाद्युपलम्भेऽपि किमेवं नोपजायते ? ॥ ४९८ ॥ तथा च सति सर्वत्र सर्वस्मादविशेषतः ।
हुताशनानुमानं स्याद् वस्तुसादृश्यविद्विषाम् ॥४९९॥
धूमवासनाप्रबोधवत्येव धूमप्रत्यभिज्ञानम्, न च पाषाणादावस्ति तत्प्रबोधवत्त्वं तस्य धूमस्वलक्षणातिविलक्षणत्वेन तत्प्रबोधं प्रत्यनुपयोगात् तत्कथं तत्र तत्प्रत्यभिज्ञानं यतः पावकानुमाने लिङ्गमिति चेत् ? न; धूमान्तरस्यापि धूमस्वलक्षणादतिविलक्षणत्वात् । तँत्कार्यकारित्वान्नातिविलक्षण२० त्वमिति चेत् ; न; असिद्धत्वात्, एकधूमकार्य एव धूमान्तरव्यापारस्याप्रतीतेः, तत्सदृश एव तदन्तरस्य व्यापारोपलम्भात् । अस्तु सहाकार्यकारित्वादेवावैलक्षण्यमिति चेत्; कुतः कार्ययोरपि सादृश्यम् ? सादृशापरकार्यद्वयजननादिति चेत्; न; तद्द्वयस्यापि सादृश्यं तदपरसदृश" तद्वयजननादित्यनवस्थानापत्तेः । स्वत एव कार्यसादृश्ये धूमसादृश्यमपि स्वत एवास्तु किं " तत्र कार्यसादृश्यपरिकल्पनया ? कारणसादृश्यात् तत्सादृश्यमित्यप्येतेन प्रत्युक्तम्; न्यायस्य २५ समानत्वात् । ततो वस्तुत एव " सादृश्यस्य भावात् कथमन्तर्बहिश्च तद्विषयं तद्दर्शनं न भवेत् ? अन्योन्यस शोरेव वेदनं स्वार्थयोरिति । अनुक्तसिद्धमेवेदं साकारज्ञानवादिनः ॥ ५०० ॥
४ धूमस्य
१ -क्षार्थस्यैवो-आ०, ब०, प०, स० । २ सादृश्यदर्शने । ३ सादृशस्यैव ता०, ब० । प्रतिवे-आ०, ब०, प०, स० । ५ - वतैव धूम-आ०, ब०, प०, स० । ६ पाषाणस्य । ७ धूमकार्य । ८ एकरूपधूम - आ०, ब०, प०, स० । ९ -प्रतिपत्तेस्तत्स - भा०, ब०, प० । १० एव वात-आ, ब०, प०, स० । ११ - तद्द्द्वयदर्शनादि -आ०, ब०, प०, स० । १२ तत्कार्यसा-आ०, ब०, प०, स० । १३ सादृश्याभावात्तत्कथमन्तर्बहिश्च तद्विषयदर्शनम् आ०, ब०, प०, स० ।