________________
प्रथमः प्रत्यक्षप्रस्ताव:
१८]
१५५ तदेतेन सादृश्यसामान्यविषयत्वमप्यक्षज्ञानत्य निवेदितमवगन्तव्यम् , अन्वितव्यावृत्त. रूपवत् समानासमानरूपयोरपि भावेषु भावत एव भावात् । तदाह-आत्मनाऽनेकरूपेण समानासमानरूपेण तादृशः समानासमानरूपतया तत्सदृशस्य बहिरर्थस्य ग्रहणमिति ।
यदि पुनरयं निर्बन्धो वस्तुषु वस्तुभूतं सादृश्यं नास्तीति ; तदा कथन्नाम भावक्षणेप्वेकत्वाध्यवसायी विकल्पो यळ्यवच्छेदाद् अनुमानप्रामाण्यमवकल्प्येत ? विलक्षणस्वलक्षण. ५ दर्शनादेव तद्विकल्प इति चेत् ; न ; घटकपालक्षणदर्शनादपि तत्प्रसङ्गात् । तथा च "अन्ते क्षयदर्शनादादावपि क्षयः” [ ] इत्यनवसरं भवेत् , आदिवदन्तेऽपि समारोपतिरोहितस्य क्षयदर्शनस्य क्षयव्यवस्थापकत्वायोगात्, अन्यथा समारोपव्यवच्छित्तिकल्पनावैफल्यापतेः । तन्न विलक्षणस्वलक्षणदर्शनादेकत्वविकल्पः ।
भवतु सदृशाकारदर्शनादेवासौ,तत्तु सादृश्यं न वस्तुभूतम् , असदृशव्यावृत्त्या कल्पित- १० त्वादिति चेत् ; कथं तर्हि कथितम्-“साधर्म्यदर्शनाल्लोके भ्रान्ति मोपजायते ।" [प्र. वा० २।३६१ ] इति ? दर्शनस्य कल्पिताकारगोचरत्वे सविकल्पकत्वप्रसङ्गात् । दर्शनशब्देनापि विकल्पकमेव किश्चिद्विज्ञानमुच्यते न प्रत्यक्षमिति चेत् ; न ; पश्चादेकत्वविकल्पाभावप्रसङ्गात् । न हि सदृशविकल्पविषयें एवैकत्वविकल्पस्य सम्भवः ; क्षणक्षयविकल्पविषयेऽपि नित्यविकल्पप्रसङ्गात् कथं क्षणभङ्गानुमानस्य समारोपनिवारकत्वं यतः प्रामाण्यं स्यादिति सर्प १५ एव मण्डूकेन भक्षितः।
किश्च, तस्यापि सदृशविकल्पस्य कुत उत्पत्तिः ? सदृशापरापरदर्शनादिति चेत् ; न ; सादृश्यस्यावस्तुत्वेन दर्शनविषयत्वायोगात् । दर्शनशब्देन विकल्प एव कश्चिदुच्यत इति चेत् ; तस्यापि कुत उत्पत्तिः ? तद्विकल्पादेव पूर्वस्मात् , न चैवमनवस्थानम् अनादित्वात्तत्प्रवाहस्येति चेत् ; न ; अनादित्वासम्भवात् । न हि घटपर्यायविषया एव सर्वदा सदृशविकल्पाः, पटादि- २० पदार्थान्तरविषयाणामपि तेषां पूर्व भावात् । तथा चानुत्पत्तिरेवार्थस्य घटपर्यायसदृशविकल्पस्य प्राप्ता पूर्व तादृशंविकल्पाभावात् , अन्यादृशाच्च तादृशस्यानुत्पत्तेः । अथ पूर्वमपि घटपर्यायगोचरसदृशविकल्पवासना विद्यत एव तर्हि तदापि कस्मात्तद्विकल्पानुत्पत्तिः ? वासनाप्रबोधकस्याभावादिति चेत् ; पश्चात् कस्य तत्प्रबोधकत्वम् ? घटपर्यायगोचरस्य दर्शनस्यैवेति चेत् ; प्रागपि घटपर्यायगोचरस्य तस्य॑ तत्प्रबोधकत्वं कस्मान्न स्यात् ? तस्य घटपर्यायविलक्षणविषयत्वान्नेति २५ चेत् ; घटपर्यायदर्शनस्यापि तदविशेषात् , तत्पर्यायाणामपि मिथो विलक्षणत्वात्। विलक्षणत्वेऽपि तेषामस्ति काचित्प्रत्यासत्तिः, अतस्तद्दर्शनस्यैव तत्प्रबोधकारित्वमिति चेत् ; का परा तत्प्रत्यासत्तिरन्यत्र समानपरिणामात् । ...
-दृशवहि-मा०, ब०, ५०,। २ सयव्यवस्थापकत्वे एकत्वाध्यवसायात्मकः समारोप एव न स्यात् तथा च कस्य व्यवच्छेदः इति भावः। ३ -नादिवासौ आ०, ब०,५०,०। ४ -ये वैक-भा०, ब०, ५०, स०।५ पूर्वमभा-आ०, ब०,५०। ६-द्यघट-बा०, ब०, ५०, स... तथापि आ०, ब०, ५०, स०। ८ दर्शनस्य ।