________________
न्यायविनिश्चयविवरणे
अनित्यत्वं नरस्यापि दुर्वारं चिश्त्ववद्भवेत् ॥४९२॥ निरन्वयस्यानित्यस्य न चात्मत्वं सयुक्तिकम् । स्मृतिप्रत्यवमर्शादिकार्ये तस्याक्षमत्वतः ॥ ४९३ ॥ नित्यानित्यस्वभावत्वं यदि तस्योपवर्ण्यते । स्याद्वादानुप्रवेशोऽयं महान् दोषस्तवापतेत् ॥४९४ ॥ तन्नपुंसश्चिदात्मत्वं कथश्चिदपि युज्यते ।
विचारोलेंखभागानां समुच्चेता यतो भवेत् ॥ ४९५ ॥
तन्न विचारोल्लेखानां कुतश्चिदपि सम्भवति समुच्चयो यतः सर्वेषां विचारत्वमुपपद्यते । तन्न प्रथमो विकल्प उपपत्तिमान् ।
१०
भवतु तर्हि द्वितीय एव विकल्पः अन्वितज्ञानाधिष्ठानानामुल्लेखानां विचारत्वो पगनादिति चेत्; सिद्धं तर्हि विचारस्य क्रमानेकान्तरूपत्वमिति निरवद्यं तस्य निदर्शनम् । नत् संशयादिदोषादनेकान्तः कथं तदात्मनि परमार्थ इति चेत् ? कथं विचारे ? तत्रापि मा भूदिति चेत् ; नास्त्येव तर्हि विचारः । तथा चेत्; न संशयाद्युद्भावनं तस्य विचारनित्वान् । अथ तत्र संशयादिरेव नास्ति निरवद्यप्रतीतिविषयत्वादिति समानमेतत् तदात्यन्यरि,
1
कान्तस्यापि स्वतोऽनन्तरानुमानाच्च निरवद्यादेव प्रतीतेः । ततो विचारवदक्षज्ञानात्मनि उपपन्नमनेकान्तात्मकत्वम् । एतदेवाह अनेकरूपेण । अनेकश्चासौ क्रमभाविनानोले खत्वानाम निरूपणत्वात् इत्यनेकरूपः, तेन दृष्टान्तेन यः सिद्धः क्रमानेकरूपञ्चक्षुरादिज्ञानात्माते । नन्वेक एव 'अनेकरूपेण' इति शब्दः, तेन यदि साध्यमभिधीयते वि तदभिधाने साध्यमवचनमेवापन्नम्, एकेन युगपदनेकार्थनिवेदन योग
१५
[ १८
१५४
प्राप्तम्, २० आवृत्त्या साध्यवचनादेव निदर्शनस्यापि प्रतिपत्तेः । भवत्वेवम् अर्थज्ञानस्य अक्रमवत क्रमेणाप्यनेकरूपत्वं न्यायोपपन्नत्वात्, न पुनर्बहिरर्थस्य तस्य निरंशत्वात् क्षणक्षीणत्वाच्चेति चेत्; अत्राह - तादृशः । यादृग् अक्षज्ञानात्मा सम्भवक्रमाभ्यामनेकरूपः तादृशः तत्सदृशस्य बहिरर्थस्य ग्रहणं तस्यापि सम्भवक्रमाभ्यामनेकरूपत्वे न्यायसद्भावात् युगपन्नानाशक्त्यात्मविज्ञानवत् नानानीलाद्याकारस्य बहिर्भावस्य प्रत्यक्षेणैव वेदनात् । प्रत्यक्षस्य च क्रमानेकरूपत्वे"वस्थिते अवस्थितमेव बहिरर्थस्यापि ताद्रूप्यम्, तस्यैव तद्ब्रहणोपायत्वात । न हि निरवद्ये तणोपायेतदनवस्थानमुपपन्नम् ।
२५
यत्पुनरेतत्-अर्थज्ञानस्योपपन्नमेव विचित्रैकरूपत्वम् अशक्यविवेचनत्वात् न बहिरर्थस्य तदभावादिति; तदास्ताम्, उत्तरत्र विचारात् । तस्मादवस्थितम् - अन्तर्बहिश्च तद्भवसामान्यविषयत्वमक्षज्ञानस्य । विशेषव्यतिरिक्तस्य तु सामान्यस्य निराकरणमभिप्रेतमेवेति न प्रत्यवस्थीयते ।
१ - खनात्कुत-आ०, ब०, प०, स० । २ भाविनोल्ले - आ०, ब०, प०, स० । ३ - नमभिधा - आ०, ब०, प०, स० । ४ संभवत्क्रमा - आ०, ब०, प०, स० । क्रमयागपद्याभ्याम् । ५ - वस्थापितेऽव-आ०, ब०, प०, स० । ६ “चित्राभासापि बुद्धिरेकैव बाह्यचित्रविलक्षणत्वात् । शक्यविवेचनं चित्रमनेकम् अशक्यविवेचनाच बुद्धेर्नीलादयः । - प्र० वार्तिकाल० २।२२० ।