________________
१३९४]
प्रथमः प्रत्यक्षप्रस्तावः
कार्यत्वमिति चेत् ; न ; असति तस्मिन् तदारोपणे तस्य निर्विषयत्वप्रसङ्गात् । सत्येवेति चेत् ; तदापि किं तस्य प्रयोजनम् ? 'तदभावप्रतिपत्तिरिति चेत् ; न; तस्यास्तत्सत्तामात्रेणैव भावात् तदभेदात् । तत्रै नित्यत्वस्य निषेधः, तस्य निर्हेतुकत्वे अवश्यं तत्प्रसङ्गादिति चेत् ; न सम्यगेतदपि, यस्मात्
नित्यत्वं तत्स्वभावश्चेन्न कुतश्चिन्निषिध्यने । तदेव तनिषेधे हि निपिर्द्ध स्यादभेदतः ॥९५४॥ तदयं लाभमन्विच्छोर्मूलच्छेदस्तवागतः । नित्यत्वहानिकामस्य ज्ञाने तद्धान्युपस्थितेः ॥९५५।। तद्रूपं चेदनित्यत्वं नित्यत्वं दैवतो गतम् । तन्निपेधाय तद्व्यर्थं तत्कार्यत्वाधिरोपणम् ॥९५६॥ आरोपितश्च नित्यत्वं तत्र नास्त्येव निश्चयात् । निश्चयात्मानुमानश्च प्रसिद्ध बौद्धशासने ॥९५७॥ स्वरूपे निश्चयस्तस्य नास्तीत्यपि न युक्तिमत् । विना तेनार्थनिर्णीतिर्नेति पूर्व निरूपणात् ॥९५८॥ तदयुक्तस्तदारोपो वैफल्यात्संवृतेरयम् । दोषो न सौगतस्यास्ति तद्वृत्तान्तानुवादिनः ॥९५९॥ न चासौ संवृतिः शक्या निषेद्ध हेतुसम्भवात् । तत्सम्भवोऽपि तद्धेतोस्तदनादिक्रमागतात् ॥९६०॥ इति चेद्युक्तमेवेदं कार्यकारणतास्थितौ । सा तु नास्ति तवाशक्तं सर्वमित्यभिधायिनः" ॥९६१॥ संवृतीनां प्रवाहेऽपि संवृत्या" यदि तस्थितिः । कथमेवमवस्थानं यतस्तन्निर्णयो भवेत् ॥९६२॥ तस्मादयुक्तमेवेदं कीर्तितं धर्मकीर्तिना। "निष्पत्तेरपराधीनमपि कार्य स्वहेतुना ॥६६३॥ सम्बध्यते कल्पनया किमकार्य कथञ्चन ॥ [प्र० वा० २।२६] २५
इति कल्पनया तत्सम्बन्धस्यैवमसम्भवात् ॥९६४॥ भवतु स्वरूपमेव तस्य तयाऽऽरोप्यमिति चेत् ;न; अनुपलम्भस्य वैफल्यापत्तेः । संवृतित एव तत्स्वरूपस्य भावात् । भवत्विति चेत् ; न; अनुपलम्भवादिनोऽसाधनाङ्गवादित्वेन निग्रहोपनिपा
सन्तानान्तराभावे । २ सन्तानान्तराभावप्रतिपत्तिः। ३ सन्तानान्तराभावसत्तामात्रेणेव । तदभाव. ज्ञाने । ५:तदभावज्ञानस्य । ६ तदभावज्ञानमेव । ७ गतेः भा०, १०, ५०। ८ अनुपलम्भकार्यत्वाधिरोपणम् । ९ स्वरूपनिश्चयेन । १.प्र. वा. २.४ । ११ संवृत्यादि ततः स्थितेः भा०,०,१०।१२ संवृत्या ।।३-स्याभावा-मा०, ब.,प०।