SearchBrowseAboutContactDonate
Page Preview
Page 458
Loading...
Download File
Download File
Page Text
________________ ३८८ न्यायविनिश्चयविवरणे [१२९५ तात् । कथं वा ततस्तत्त्वतः सन्तानान्तराभावस्य परिज्ञानम् ? आरोपितस्वरूपस्य तात्त्विकप्रयोजननिबन्धनत्वानुपपत्तेः तोयादिवत् । तदप्यतात्त्विकमेवेति चेत् ; न तर्हि तत्त्वतस्तदभाव इति कथन्न 'तैरभिन्नयोगक्षेमत्वस्य व्यभिचारः ? नायं दोषः; तेषामप्येकत्वेन पक्षीकरणादिति चेत् ; न; व्यभिचारविषयस्य तदयोगात् , अन्यथा न किञ्चित्तत्पुत्रत्वादिकमपि व्यभिचारि ५ भवेत् , तत्रापि व्यभिचारविषयस्य पक्षीकरणात् । को वा विरोधो यन्नानात्व एव तेषामभिन्न योगक्षेमत्वं न भवेत् , अदृश्यात्मना तेन साक्षाद्विरोधद्वयस्यापि सर्वज्ञत्वेन वचनादेरिवासिद्धेः ? नानात्वविरुद्धेनैकत्वेन तस्य व्याप्तत्वात् पारम्पर्येण तेनापि विरोध इति चेत् ; क्व पुनरेक. त्वेन तद्व्याप्तिः प्रतिपन्ना ? प्रकृत एब चित्रज्ञान इति चेत् ; तत्र यद्येकत्वप्रतिपत्तिरन्यतः, व्यर्थमभिन्नयोगक्षेमत्वम् , तस्यापि तदर्थत्वात् तस्याश्चान्यत एव भावात् । अत एव तत्प्रति१० पत्तौ परस्पराश्रयः -निश्चिते नानात्वविरोधे ततस्तत्प्रतिपत्तौ तेन तद्व्याप्तिनिश्चयः, ततश्च तद्वि रोधनिश्चय इति । तन्नाभिन्नयोगक्षेमत्वं हेतुः, संशयितविपक्षव्यतिरेकत्वात् , तदपि नानात्वेन साक्षात्परम्परया च "विरोधासिद्धेः व्यभिचारनिश्चयाद्वा, निश्चितो ह्यत्र व्यभिचारः सन्तानान्तरज्ञानेषु व्याहारादिभेदाद् भिन्नतयैव प्रतिपन्नेषु हेतुभावात् । ___यत्पुनरत्रोक्तम्-'तद्भेदस्य साकल्येन व्याप्तिपरिज्ञाने तत्परिज्ञानवतः सर्वज्ञत्वम् , १५ देशतस्तत्परिज्ञाने न गमकत्वं व्यभिचारसम्भवात्' इति ; तदपि न युक्तम् ; अभिन्नयोगक्षेम त्वेऽपि तथा प्रसङ्गात् । नायं दोषः, तत्र पक्ष एव व्याप्तिग्रहणादिति चेत् ; न ; व्याहा. रादिभेदस्यापि "तत्रैव तद्ब्रहणात् गमकत्वोपपत्तेः व्यभिचारदोषस्य परिहरणात् । तन्नाभिन्नयोगक्षेमत्वादेकत्वं संवेदनाकाराणाम् । यत्पुन:-अभेदप्रतिभासादेव निर्बाधात् तथा चेत् ; अर्थावयवानामप्येकत्वंतदविशेषात् । २० प्रतिपादितञ्चैतत्-'एतत्समानमन्यत्र' इति । तदेव विस्मरणशीलानामनुग्रहार्थमावेदयन्नाह __ अतश्चार्थयलायातमनेकात्मप्रशंसनम् । इति । अत्र च शब्दो भावनायाम् । अतः अस्मात् एकान्तविभ्रमादेर्यदन्यत् 'अन्यत्र' इत्यनुवर्तमानस्य विभक्तिपरिणामेन सम्बन्धात् । किं तद् १ अनेकात्मप्रशंसनम् , अने कात्मनः अनेकस्वभावस्य ज्ञानस्यैव नार्थस्यानभ्युपगमात् , प्रशंसनं प्रतीतिंबलेन स्तवनम् । २५ तत्किम् ? अर्थस्य बाह्यस्य घटादेर्बलं स्वरूपादप्रच्यवनं तस्मै तदर्थम् आयातम् आगतम् अर्थवलायातम् । तथा हि चित्रमेकं यथा ज्ञानं प्रतीतिबलतो मतम् । मन्यतां तद्वदर्थोऽपि तत एवानुपप्लवात् ॥९६५॥ सन्तानान्तरज्ञानैः । २ सन्तानाज्ञानानामपि । ३ सन्तानान्तरज्ञानानाम् । ४ सहानवस्थापरस्परपरिहारस्थितिलक्षणविरोधद्वयस्यापि। ५ अभिजयोगक्षेमत्वस्य। ६ नानात्वेनापि । ७ एकत्वप्रतिपत्त्यर्थत्वात्। ८ एकत्व. प्रतिपत्तौ। ९ एकत्वव्याप्तत्वात् । १०विरोधसिद्धेः मा०, ब.,५०० पक्ष एव पाप्तिग्रहणात् । १२ एकत्वं संवेदनाकाराणाम्।
SR No.007279
Book TitleNyayvinischay Vivaran Part 01
Original Sutra AuthorVadirajsuri
AuthorMahendrakumar Jain
PublisherBharatiya Gyanpith
Publication Year2000
Total Pages618
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy