________________
३८९
१२९६]
प्रथमः प्रत्यक्षप्रस्ताव न चैकमेकरागादावित्यादिरपि' बोधवत् । एकानेकस्वभावेऽर्थे विप्लवाय न कल्पते ॥९६६।। कल्पते यत्र यौगोक्ते सोऽस्माभिरपि नेष्यते । तं दूषयन्नतोऽस्माकं प्रतिहस्तायते भवान् ॥९६७॥ चित्रैकज्ञानवत्तत्र संशयाद्यपि दूषणम् । प्रवर्तते न निर्वाधनिर्णयाश्लेपभूषिते ॥९६८॥ अद्वैतवेदनं तस्मादेकानेकात्मकं ब्रुवन् ।
न प्रभुर्वहिरर्थस्य तादृशः प्रतिपीडने ॥९६९।। भवतु तर्हि तदेकमेव न चित्रम् ;
किं स्यात्सा चित्रतैकस्यां न स्यात्तस्यां मतावपि ।
यदीदं स्वयमर्थेभ्यो रोचते तत्र के वयम् ॥" [प्र.वा०२।२१०] इति वचनादिति चेत् ; न ; ताशस्य कदाचिदपि तस्याननुभवात् । अननुभाव्यमपि लिङ्गादवगम्यत इति चेत् ; न ; तदप्रतिवेदने तत्कार्यस्वभावतया कस्यचिदपि परिज्ञानायोगात् , अतत्कार्यस्वभावस्य लिङ्गत्वानभ्युपगमात् । सुगतसन्निधानात्तदवगम्यत इति चेत् ; न ; अद्वैतवादे सुगतस्यैवाभावात् । भावेऽप्युत्तरमाह
न ज्ञायते न जानाति न च किञ्चन भाषते ॥१५॥
बुद्धः शुद्धः प्रवक्तेति तत्किलैषां सुभाषितम् । इति ।
वुद्धः सुगतो न ज्ञायते न विनेयैः प्रतीयते तस्य बुद्धिरूपतयाऽनन्यवेद्यत्वात् "तस्या नानुभवोऽपरः" [प्र० वा० २।३२७] इति वचनात् । अपरानुभवभावे वा तद्वतोऽपि सर्वदर्शित्वं सकलविषयाकारगर्भस्य तेन परिज्ञानात् । तस्याप्यपरानुभवभावे तद्वतोऽपि २० सर्वदर्शित्वम् । तत्राप्येवमिति सर्वस्यापि बुद्धमनुभवतो विनेयवर्गस्य तदनुभवाधिष्ठानस्यापि सर्वदर्शित्वान्न किश्चिद् बुद्धेन ? बुद्धवदेव तस्यापि स्वत एव तत्त्वपरिज्ञानात् । तन्न तस्यापरस्मादनुभवात्परिज्ञानम् । अनुमानादिति चेत् ; न ; ततोऽपि तस्य स्वरूपप्रतिवेदने पूर्ववद्दोषात् , अन्यथा तद्वैयर्थ्यात् । समारोपव्यवच्छेदान्न तद्वैयर्थ्यमिति चेत् ; किं तद्व्यवच्छेदेन ?
न्यायवि० श्लो. ९।२-याशेषदूषणे आ०, २०, ५०। ३ "ननु यदि सा चित्रता वुद्धावे. कस्यां स्यात् तया च चित्रमेकं द्रव्यं व्यवस्थाप्येत तदा किं दूषणं स्यात् ? आह-न स्यात्तस्यां मतावपि । न केवलं द्रव्ये तस्यां मतावप्येकस्यां न स्याचित्रता। आकारनानात्वलक्षणत्वानंदस्य । नानात्वेऽपि चित्रता कथम् ? अनेकपुरुषप्रतीतिवत् । कथं तर्हि प्रतीतिरित्याह-यदीदं स्वयमर्थानां रोचते तत्र के वयम् । यदीदमताद्रूप्येऽपि तादूप्यप्रथनमर्थानां भासमानानां नीलादीनां स्वयमपरप्रेरणया रोचते तत्र तथाप्रतिभासे के वयमसहमाना अपि निषेद्धम् ? अवस्तु च प्रतिभासते चेति व्यक्तमालीक्यम् ।"-प्र. वा. म. वृत्ति० २।२१० । . तत्परि-आ., ब०, ५०।५ अनुमानवैयर्थ्यात् ।