________________
३९०
न्यायविनिश्चयविवरणे
[ ११९६
सत्यपि तस्मिन् तत्स्वरूपस्याप्रतिवेदनात् । प्रतिवेदने तु सिद्धं तद्वतोऽपि सर्वदर्शित्वं सकलार्थाकारप्रतिबद्धस्य बुद्धस्वरूपस्य तेन प्रत्यवलोकनात् । तदुक्तम्
५
"समारोपच्यवच्छेदात्तत्त्व सिद्धिमनिच्छताम् । अनुमानमनर्थं स्यादन्यथा सकलग्रहः ॥ " [
] इति । ततश्च तदवस्थं पूर्ववद्बुद्धवैयर्थ्यम्, ततो न कुतश्चिदपि तस्य परिज्ञानमित्युपपन्नमिदं 'बुद्धो न ज्ञायते' इति ।
तदनेन सुगतसन्निधानात्तत्त्वज्ञानमिति प्रत्युक्तम् ; सुगतस्यापरिज्ञाने तत्सन्निधानस्यापि दुष्परिज्ञानत्वात् । अपरिज्ञातमेव तत् तत्परिज्ञानस्य निबन्धनम् चक्षुरादिवद्रूपादिपरिज्ञानस्येति चेत्; भवेदेवं यदि रूपादिज्ञानवत् निरंशवेदनविषयं किञ्चिद्विज्ञानं विप्रतिपत्तिमलोपले१० पविकलेन प्रज्ञाप्रकाशेनोपदर्शितं भवेत् । न चैवम्, सर्वदा ग्राह्यादिभेदमलाधिष्ठानस्यैव तस्य परिज्ञानावलोकनात् । प्रतिपादितं चैतत् "प्राक्- 'प्रतिसंहारवेलायां न संवेदन मन्यथा' इति । तदनेन तत्त्वज्ञानात्तत्सन्निधानपरिज्ञानं प्रत्युक्तम् ; उक्तनीत्या तत्त्वज्ञानस्यैवाप्रतिपत्तेः । तन्न तत्सन्निधानात्तदवगतिः ।
तद्वचनाद् "अद्वयं यानमुत्तमम्” [
] इत्यादेस्तदवगतिरित्यप्ययुक्तम् ; १५ तदपरिज्ञाने तद्वचनस्याप्यशक्यपरिज्ञानत्वात् । कथं वा तस्यैव वचनं प्रमाणं न रथ्यापुरुषादेरपि ? तस्यैव परिशुद्धज्ञानत्वादिति चेत्; न; स्वरूपापेक्षया रथ्या पुरुषादेरपि तत्त्वात् । न सकलविषयापेक्षयेति चेत्; न; बुद्धेऽपि तदभावात् । न हि तस्यापि सर्वत्र परिशुद्धज्ञानं समकालभाविन्यभावात् तस्याकारणत्वेन तदविषयत्वात् । तदपि कार मेव अविनाभावादिति चेत्; न; तस्यापि विषयत्वे "नातोऽर्थः स्वधिया सह " २० [प्र०वा०२।२४६] इत्यस्य विरोधात् । भवदपि तस्य सर्वार्थज्ञानं निराकारं चेत्; न 'तस्यैकस्वभावस्य देशकालस्वभावभिन्नानेक वस्तुविषयत्वम् एकस्वभावज्ञानविषयत्वेन सर्वस्याप्येकत्वापत्तेः, अन्यथैकस्वभावहेतुकत्वेऽपि कार्याभेदप्रसङ्गाभावात् न नित्ये नानाकार्यविरोधः स्यात् । अनेकस्वभावमेव भवतु तदिति चेत्; कथं तदेकम् प्रतिस्वभावं विरुद्धधर्माध्यासेन भेदोपनिपातात् ? अन्यथा क्रमेणापि तदेकमेवानेकस्वभावं प्राप्नुयात् । शक्यविवेचनत्वान्नेति चेत् ; २५ किमिदं विवेचनं यच्छक्यमुच्यते ? कालकृतस्तत्स्वभावानां क्रम इति चेत् ; न ; 'युगपदपि देशकृतस्य " तस्य भावात् । ततो " नात्यन्ताय भेदः, तेषामभेदस्यापि प्रतिभासनादिति चेत् ; न; कालभिन्नानामप्यभेदानुगमस्यावलोकनात् । मिथ्यैव तेषां 'तदनुगमो विकल्पोपनीतत्वादित्यपि नोत्तरम् ; देशभिन्नानां 'तदनुगमस्यापि [ विकल्पोपनीतत्वात्, स्पष्टप्रत्ययविषयत्वान्नेति
"
"
१ - ज्ञातत्वा-आ०, ब० । २ सुगतसन्निधानम् । ३ - ज्ञाननिब-आ०, ब०, प० । ४ किञ्चिज्ज्ञानं आ०, ब०, प०। ५ पृ०३१७ पं०२२ । ६ सुगता परिज्ञाने । ७ समकालभाविनोऽर्थस्य । ८ सुगतज्ञानस्य । ९ क्रमयुगपआ०, ब०, प० । १० क्रमस्य । ११ देशकृतक्रमात् । १२ अभेदानुगमः । १३ अभेदानुगमस्यापि ।