________________
१९६]
प्रथमः प्रत्यक्षप्रस्ताव:
३९१
चेत् ; अस्ति कालभिन्नानामपि] स्पष्टप्रत्ययविषयत्वम् । निरूपयिष्यते च तत् । अनेन एकान्तभेदप्रतिवेदनं विवेचनमिति प्रत्युक्तम् ; प्रत्यक्षतस्तदभावात् । अनुमानस्य च तत्पूर्वकतया तत्राप्रवृत्तेः । नापि सन्तानान्तरं प्रति नयनं विवेचनम् ; तस्याप्रतीतेः अनभ्युपगमाञ्च । नाप्यन्यवेद्यत्वम् ; युगपद्भाविनामिव क्रमभुवामपि तेषां परेण प्रत्यक्षेणाग्रहणात् । अनुमानेन ग्रहणस्य चोभयत्राविशेषात् । ततो भवत्येव क्रमवतामपि तेषामभेदः ; तद्भेदस्याभेदप्रत्यनीकत्वाभाव. ५ त्वात् । तदुक्तम्
"अन्तर्बहिर्मुखाभादि संविदं न भिनत्ति चेत् । 'अक्रमं न क्रमाधीनं भिन्द्यादेव सुखादिकम् ॥” [सिद्धिवि०प्र०परि०] इति ।
न चेदमुचितं भवताम् ; बुद्धस्यैकान्ततः प्रतिसमयभङ्गुरत्वेन तदात्मत्वानुपपत्तेः। तन्न तज्ज्ञानस्य क्रमवदक्रमेणाप्यनेकस्वभावत्वमिति न तेन तस्याशेषवेदित्वं निराकारेण । १०
नापि साकारेण ; तस्याप्याकारार्पकमात्रविषयत्वेनान्यत्राप्रवृत्तेः । सर्वमपि तत्राकारापकमेवेति चेत् ; उच्यते-पूर्वापरसमयभाविनो भावा नीलादिरूपमिव कालक्रममप्यात्म नो यदि न तत्र समर्पयन्ति कथं तस्यं तद्विषयत्वं यतस्तेनाशेषज्ञत्वं बुद्धस्य ? कथं वा क्वचिदुपायोपेयभावस्य परिज्ञानम् ? तस्य कालक्रमालिङ्गि तत्वेन तदनवबोधे दुरवबोधत्वात् । योगपद्यालिङ्गितत्वे तु तद्भाव एव न भवेत् कस्यचिदनिष्पन्नस्यानुपायत्वात् , निष्पन्नस्यापि पुनरनुपयोगात् , स्वनिष्पत्तिसमय एंवोपेयस्यापि निष्पत्तेः। अव्यभिचारादुपायत्वं न निष्पादकत्वादिति चेत् ; कुतस्तर्हि तन्निष्पत्तिः ? न कुतश्चिदिति चेत् ; न ; नित्यसत्त्वादिप्रसङ्गात् । अन्यत इति चेत् ; न; तस्यैवोपायत्वापत्तेः , न प्रकृतस्य । भवत्विति चेत् ; न; तस्याप्युपेयसमसमयत्वे पूर्ववदोषात्. । पुनरन्यतस्तन्निष्पत्तिकल्पनायाम् अनवस्थानात् । तद्भिनसमयत्वे तु सिद्धः कालक्रमालिङ्गितस्तद्भावः । स च न बुद्धज्ञानस्य विषयः, अनर्पिताकारत्वादिति कथं तस्य .. प्रामाण्यम् ? यत इदं सूक्तं भवेत्
"हेयोपादेयतत्त्वस्य साभ्युपायस्य वेदकः ।
यः प्रमाणमसाविष्टो न तु सर्वस्य वेदकः ॥" [प्र० वा० १।३४] इति ।
"तमपि ते तत्र समर्पयन्ति पूर्वापरभावेनैव तदर्पिताकाराणां बुद्ध वेदने "व्यवस्थानादिति चेत् ; उच्यते
प्रत्याकारं यदि ज्ञानं तत्रैकान्तेन भिद्यते । प्रत्यर्थनियतत्वेन कथं सर्वार्थविद्भवेत् ॥९७०॥
२५
१ प्रत्यक्षपूर्वकतया । २ क्रमभावेऽपि प० । क्रममाव्यपि आ०, ब० । ३ अक्रमं ते क्रमादीनां आ०,०, प०। ४ बुद्धज्ञाने । ५ भावान्नीलादि-आ०, ब०, प०। ६ कालक्रमस्य आ०, ब०, प० । ७ उपायोपेयभाव ।। ८ एवोपाय-आ०,व०,५०। ९ नित्यं सत्वा-मा०,व०प० । "नित्यं सत्त्वमसत्त्वं वा हेतोरन्यानपेक्षणात् ।"-प्र. वा० ३।३।१०-स्थानं तद्भि-भा०,०प० । कालक्रममपि भावाः । १२ व्यवस्थापना-मा०,०,०।