________________
३९२
म्याग्रविनिश्चयविवरणे
[१२९६
तदाकारक्रमस्यापि परेण प्रतिवेदनम् । तदाकारेण तत्रापि तत्क्रमस्यान्यतो गतौ ॥९७१॥ अनवस्थानदोषः स्यात्तन्नैकान्तेन तद्भिदा । प्रत्याकारे कथञ्चिच्चेदनेकान्तः प्रशस्यताम् ॥९७२॥ आत्मानमेव जानानः क्रमाऽनेकान्तगोचरम् । - - बुद्धः कथं ततो ब्रूयादेकान्तक्षणिक जगत् ।।९७३॥ तदन्वयस्य मिथ्यात्वे मिथ्यैव स्यात्तथागतः । मिथ्या च सर्ववेदी च प्रमाणञ्चेति साहसम् ॥९७४॥ तन्न कालक्रनज्ञानं तस्य स्याद्वादविद्विषः ।
सोपायोपेयविज्ञानं नास्ति तस्य तदत्यये ॥९७५॥
तदाह-न जानाति न वेत्ति वुद्धः। किम् ? किश्चन उपेयादि इति तत्त्वम् । भवतु तस्याज्ञेयत्वं तत्त्वापरिज्ञानच तथापि शुद्ध इति चेत् ; आह-शुद्धः निर्मलः। कः ? वुद्धः । इति एवम् , तत् क्रमायातवचनम् , केषाम् ? एषां बौद्धानाम् । 'किल' इत्यरुचिद्योतने ।
सुभाषितम् अरुचिद्योतनाद्.दुर्भाषितमिति यावत् । तथा हि-अपरिज्ञाते तस्मिन् कथं १५ तच्छुद्धः परिज्ञानम् ? कथं वा तत्त्वापरिज्ञानमलशबलितस्य शुद्धः सम्भवोऽपि यतस्तद्वच मेतेषां
सुभाषितं भवेत् ? ___भवतु वा परिशुद्धो बुद्धस्तथापि कथं तस्य वचनम् ? कथञ्च न स्यात् ? कारणाभावात् । तस्य हि कारणं विकल्पः,"विकल्पयोनयः शब्दाः"[ ] इत्यभिधानात्। न चासौं'
बुर्द्धस्य; विधूतकल्पनाजालत्वात् । तदभावेऽपि तत्कृतात्संस्काराद्वचनमिति चेत्”; न; तस्यापि २० विकल्पत्वे तत्रासम्भवात् । अविकल्पत्वे तदुभयस्वभावविकलत्वे च "ततो वचनस्यानुत्पत्तेः,
अन्यथा विकल्पयोनित्वनियमव्याघातात् । विकल्पादेव चिरापक्रान्तात्तस्य' वचनमिति चेत्, न; तस्य” हेतुत्वे सन्तानान्तरासिद्धेः । "व्याहारादेस्तत्सिद्धिरिति चेत् ; न; तस्यापि चिरापक्रान्तबुद्धिप्रभवत्वशङ्कायां ततस्तत्परिज्ञानायोगात् । तथा च न चार्वाकस्येव बौद्धस्यापि "परार्थ शास्त्रप्रणयनम् । बुद्धिरनुसन्धानवत्येव व्याहारादिकं जनयति आत्मनि तथैव दर्शनान्न चिराप. क्रान्तेति चेत् ; विकल्पोऽपि तथाविध एव वचनमुत्पादयति, अस्मदादौ तथा दर्शनान चिरापक्रान्त इति किन्नेष्यते ? स्वापादौ विकल्पविकलस्यापि वचनस्योपलम्भादिति चेत् ; न; तदा
कमेनैका- आ.ब., प०। २ उपायादिकत्वं आ०, 40, प०।३ तच्छुद्धिप-मा०, २०, प.। ४-नमेषा-आ०, ब०, प०।५ पचनस्य । ६ "विकल्पाः शब्दयोनयः । तेषामन्योन्यसम्बन्धी नार्थान् शब्दाः स्पृशन्स्यमी ॥” इति शेषांशः। द्रष्टव्यम्-न्यायकुमु० पृ. ५३. टि. ७ । ७ विकल्पः । ८ शुद्धस्य-आ०, १०,०। ९ विकल्पाभावेऽपि। १. चेत् त-आ०, ब०, ५०।११ संस्कारात् । १२ वुद्धस्य । ३ चिरा. पक्रान्तस्य । १४ व्याहारादेस्तदिति आ०, ब, प० । १५ परार्थशा-आ०, ब०, प० । १६ स्वापादौ ।