________________
प्रथमः प्रत्यक्षप्रस्तावः
३९३
१०
१२९६ बुद्धिविकलस्यापि व्यापारादेः प्रतिपत्तेः । ततश्विरापक्रान्ताद्विज्ञानाव्यापारादिवत्' न विकल्पादपि वचनमिति न कुतश्चिदपि बुद्धस्य वचनम् । तदाह-न च नैव किञ्चन किमपि उपायोपेयतत्त्वं भाषते कथयति बुद्ध इति । यद्यपि नाम स्वमुखेन न च किञ्चन भापते बुद्धस्तथापि प्रवक्तव 'कुड्यादिभ्योऽपि तत्प्रभावोपजनितस्य तत्त्वोपदेशस्य तद्वचनत्वादिति चेत् ; कथं तेषामप्यविकल्पत्वे ववनम् ? विकल्पयोनित्वनियमव्याघातात् । अस्मदादिवचनस्यैव ५ तन्नियमो न बुद्धवचनस्येति चेत् ; किमिदानी कुड्यादिभ्यम्तत्कल्पनया बुद्धादेव तदुपपत्त: ? तथा च दुर्व्याहृतमेतत् - __ "ये कल्पयन्ति कवयः सुगतस्य वाच
___ स्ते कल्पनामपि मुनेः परिकल्पयन्ति ।" [ ] इति ; बाचां कल्पनाव्याप्तिवैकल्यात् ।
___ भवतु विकल्पत्वमेव कुड्यादीनामिति चेत् ; किमिदानी 'तत्र बुद्धप्रभावेन ? स्वयं "विकल्पत्वादेव तेषां वचनोपपत्तेः । तद्विकल्पत्वं तत्प्रभावादिति चेत् ; न; तस्य तदुपादा. नत्वे 'तेषां बुद्धकसन्तानत्वेन बुद्धस्यैव विकल्पकत्वप्रसङ्गात् । तत्सहकारित्वे तु तत्र किमुपादानम् ? कुड्यादिकमेवेति चेत् ; न ; तस्याचेतनत्वे तत्त्वायोगात् शरीरवत् प्रागपि विकल्पत्वेन चेतनमेव "तदिति चेत् ; न ; तथाप्रतीत्यभावात् । विकल्पाञ्च विकल्पे किं १५ वा तत्सहकारित्वेनास्मदादिविकल्पवत्। "तत्त्वविषयत्वं तस्य तत” इति चेत् ; न तर्हि तदप्रमाणम् । प्रमाणञ्च न प्रत्यक्षम् ; विकल्पत्वात् । नानुमानम् ; अलिङ्गज. त्वादित्यन्यदेव प्रमाणमनिष्टं भवेत् । कथं वा कुड्यादिविकल्पवद्विनेयविकल्पस्यैव "ततस्तत्वविषयत्वं न भवेत् ? एवं हि पारम्पर्य परिहृतं भवति-'कुड्यादिविकल्पस्य ततस्तत्त्वविषयत्वम् , ततो वचनम् , ततश्च विनेयानां तत्त्वज्ञानम्' इति । एवम्भूतस्तस्य प्रभाव एव २० नास्तीति चेत् ; कथं चिन्तामणिकल्पत्वम् ? यत इदं सुभाषितम्
"चिन्तारत्नोपमानो जगति विजयते विश्वरूपोऽप्यरूपः॥"[ ]इति;
चिन्तितप्रकारप्रदानसमर्थप्रभावे सत्येव चिन्तारत्नोपमत्वोपपत्तेः । ततो न कुड्यादिभ्योऽपि तत्प्रभावात्तत्त्ववचनमिति न ततोऽपि तस्य वक्तृत्वम् । ततस्तद्भाषणं परस्य दुर्भाषणमेव । तदाह 'प्रवक्ता' इत्यादि । व्याख्यातमेतत् ।
-वनिर्विक-आ०, ब०, ५०। "सम्भारावेधतस्तस्य पुंसश्चिन्तामणैरिव । निस्सरन्ति यथाकामं कुड्यादिभ्योऽपि देशनाः ।।"-तत्वसं० श्लो. ३६०८। ३ कुड्यादीनां विकल्परहितत्वे । ४ कुख्यादौ । ५ विकल्पादेव आ०, ब०, ५०। ६ कुञ्यादीनां विकल्पत्वम् । ७ बुद्धस्य कुत्र्यादिविकल्पोगदानवे । । कुज्यादीनाम् । ९ विकल्पोपादानत्वायोगात् । १० कुज्यादि। ११ तत्सत्ववि-आ०, ब०, ५०।१२ विकल्पस्य । १३ बुद्धसहकारित्वेन । १४ वुद्धसहकारतः । १५ बुद्धस्य ।