SearchBrowseAboutContactDonate
Page Preview
Page 464
Loading...
Download File
Download File
Page Text
________________ ३९४ न्यायविनिश्चयविवरणे [ ११९७ तन्न बुद्धवचनादपि निरंशस्य संविदद्वयस्य प्रतिपत्तिर्यतः सत्त्वम् । सतोऽपि भूतभवद्भव्यानां यद्यन्यतमेन कालेनावच्छेदः; कालान्तरं तत्त्वशून्यं भवेत् । तथा कार्यस्यापि कस्यचिदभावे व्योमकुसुमादिवदवस्तुत्वम् । 'भावे त्वद्वैतव्यापत्तिः ।। नैष दोषः ; कालस्यैवापरस्याभावात् , असता च तस्यावच्छेदानुपपत्तेः । न च ५ कार्याभावादसत्त्वम् ; कार्येण सत्त्वव्याप्तेरभावात् । भावे कार्यसमसमयमेव कारणं स्यान्न पूर्व कार्यस्याभावात् । तादृशस्य च नं तत्कारणत्वम् अपि तु तदेककारणप्रभवत्वमेव । तत्कारणस्यापि कार्यव्याप्तसत्ताकत्वे कार्यसमसमयत्वेन तदेककारणप्रभवत्वम् , तत्कारणेऽपि तथा चिन्तायामसम्भाव्येव तत्क्रमो भवेत्। तथा कार्यक्रमोऽपि, कार्यस्यापि कार्यान्तरेण सत्त्व. व्याप्तौ तत्समसमयत्वस्यावश्यम्भावात् । तत्सम्भवमिच्छता च न कार्यव्याप्तं कस्यचित्सत्त्वम१० भ्युपगन्तव्यमिति न कार्याभावात्तद्वयस्याभावः । एतदेवाह न जातं न भवत्येव न च किश्चित्करोति सत् ॥ ९६ ॥ इति । अत्रैवकारो भिन्नक्रमो नकाराभ्यां परो द्रष्टव्यः । नैव जातं नैव भवति इति 'चित्रं तदेकम्' इति 'ततः' 'तदेकम्' इति च अनुवर्तयितव्यम् । तदयमर्थः-तत् संवेदनम् एकम् अयं नैव जातं नैवोत्पन्नम् , अनेन तस्यातीतत्वं प्रतिक्षिप्तम् । नैव १५ भवति नैव निष्पद्यते अनेनापि वर्तमानत्वम् । 'नैव भविष्यति' इत्यपि भावित्व प्रतिक्षेपाय द्रष्टव्यम्-उक्तस्योपलक्षणत्वात् । उपपद्यत च तत्रातीतत्वादिप्रतिक्षेपः कालस्यैव निबन्धनस्याभावात् । न च नैव किश्चित्सजातीयमन्यद्वा कार्यं करोति जनयति तथापि सत् कार्येण सत्त्वव्याप्तेरभावात् । हेतुद्वयं चैतत् परस्याभिप्रायगतम् । अत्र पूर्वपक्ष. द्योतनं 'चेतू' इति द्रष्टव्यम् । उत्तरमाह२० तीक्ष्णं शौद्धोदनेः शृङ्गमिति किन्न प्रकल्प्यते ? इति । सुबोधमेव । तात्पर्यमत्र निरंशं चेत्तद्वैत मुक्तोपाधि कुतश्चन । प्रमाणादुपलभ्येत शोभेतैवं भवद्वचः ॥९७६॥ प्रमाणं तुं न तत्रास्ति प्रत्यक्षादीति भाषितम् । केवलं कल्पनैव स्यात्तदस्तित्वे निबन्धनम् ॥९७७॥ न च तद्वास्तवं युक्तमन्यथा तन्निबन्धनम् । विषाणमपि किन्न स्याग्निशितं बुद्धमस्तके ॥९७८॥ १ भवत्वद्वै-मा०, ब०, प० । २ कार्यसमकालवर्तिनः । ३ कारणक्रमः। ४ -तद्वय-आ०, ब०, ५०। ५ श्लोकात् । । तस्यापि तत्त्वं आ०, ब०, प० । . "श्लोके अविद्यमानं हेतुद्वयं कथमुच्यत इत्याश. शायामाह"-ता. टि०। ८ "सौगतस्य"-ता. टि०।९ -तमुक्तो-भा०,व०प० । १० तन्न आ०,ब०, प० । ११ "कल्पनानिबन्धनं निरंशमद्वैतम्"-ता. टि.।
SR No.007279
Book TitleNyayvinischay Vivaran Part 01
Original Sutra AuthorVadirajsuri
AuthorMahendrakumar Jain
PublisherBharatiya Gyanpith
Publication Year2000
Total Pages618
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy