________________
३९५
११९८)
प्रथमः प्रत्यक्षप्रस्ताव अद्रये नास्ति युद्धोऽपि यत्र शृङ्गस्य कल्पनम । इति चेत्कल्पना तस्य किन सत्त्वाय कल्पते ॥९७९॥ तद्वयच बुद्धश्च तच्छृङ्गं चेति तत्त्वतः । त्रितयस्याप्यवस्थाने न भेदस्तात्त्विकः कथम् ।।९८०॥ तस्मात्कल्पितमद्वैतमवस्त्वेव यथोदितम् ।
तदवष्टम्भतस्तन्न बहिरर्थनिषेधनम् ॥९८१॥ इति ।
तस्मादेकव्यक्तिकमनेकव्यक्तिकं वा चित्रमेव संवेदनमनुमन्तव्यम् । तञ्च बहिरर्थमपि तादृशं प्रत्यवस्थापपति एकरागादौ सर्वरागादेः सांशत्वादेश्च दोषस्य तद्वत्तदाकारवञ्च बहिरर्थे तदवयवेषु चाप्रवृत्तेः। यत्र तु प्रवृत्तियॊगकल्पिते अवयविनि तदवयवेषु च तत्रास्माकमभिरतिरेव, ततोऽत्र तत्प्रवृत्त्या[न] काचिदप्यस्माकं परिग्लानिः । यद्येवं कुतस्तत्र तदोषस्य 'एतत्समान-१० मन्यत्र' इत्यादिना समाधानम् ? आहितविषयस्याभ्युपगमनीयत्वादिति चेत् ; न हीदृशम् अकलङ्कदेवस्य चेष्टितं यदयमन्यायेनापि दोषेण परपक्षं प्रतिक्षिपतीति । ततो युक्तं विज्ञानवदर्थस्यापि प्रतीतिवलादवस्थापनम् ।
इदानीं वक्तव्यशेपं दर्शयित्वा परिहत्तुमाह
एकेन चरितार्थत्वात्तत्राऽविप्रतिपत्तितः ॥ ९७ ॥ अलमर्थेन चेन्नैवमतिरूढानुवादतः । इति ।
अलं पर्याप्तम् अर्थेन घटादिना प्रयोजनाभावात् । उदकाहरणादिकमस्ति तस्य प्रयोजनमिति चेत् ; कुतस्तदस्तित्वम् ? प्रतिभासाच्चेत् ; प्रतिभासरूपमेव तर्हि तत् तव्यतिरिक्तस्य तदयोगात् । तच्च तंदूपादेव घटादेरिति किं तत्रार्थस्य कारणत्वेन ? तदाह-एकेन नानाकारसाधारणेन ज्ञानेन नार्थेन तस्य 'अलम्' इति पर्युदासात्। चरितो निष्पादितोऽर्थः प्रयोजनं यस्य २० तस्य भावात् चरितार्थत्वात् अर्थस्य । 'एकेन' इत्यपेक्षायामपि चरितशब्दस्य वृत्तिर्गमकत्वात्। तर्हि ज्ञानेनाप्यलम् अन्येन चरितार्थत्वादिति चेत् ; किं तदन्यत् ? अर्थश्चेत् ; न; "ततो जडत्वेन "ज्ञानार्थस्याधिगमस्यासम्भवात् । ज्ञानमेवेति चेत् ; न तर्हि तेनालमिति शक्यम् , अभ्यपगमात् । तदाह-तत्र ज्ञाने अविप्रतिपत्तितो बौद्धवदर्थवादिनोऽपि विप्रतिपत्तेरभावात् , अन्यथा नार्थसिद्धिः स्वतस्तदयोगादिति मन्यते । 'चेत्' इति परमतं द्योतयन्नुत्तरमाह-नैवम् । एवम् २५ 'अलमर्थेन' इति प्रकारेण । कुत एतत् ? अतिरूढस्य प्रमाणबलतोऽतिप्रसिद्धस्य अनुवावतोऽनुकथनात् 'अर्थस्येति' । तात्पर्यमत्र
१चित्रज्ञानवत् । २ -कमनभिर-ता० । ३ तत्प्रवृत्ती आ०, ब०,०। ४ यदन्यायेन मा०, २०, प०।५ उदकाहरणादि । ६ प्रतिभासरूपादेव । ७ अर्थस्य । ८ अलंशब्देन । ९ समासः। १० अर्थात् । " ज्ञानस्यार्थस्य आ०, ब०, प० । ज्ञानरूपप्रयोजनप्राप्तेः । १२-नार्थस्येति मा०, ब०, ५०।