________________
न्यायविनिश्चयविवरणे
[१९८ प्रयोजनवशादर्थः कल्पितो यदि कथ्यते । युज्येत तत्प्रतिक्षेपस्तदर्थस्यान्यतो' भवात् ।।९८२॥ न चैवं मानसामर्थ्यात् ज्ञानवत्तस्य वर्णनात् । निषेधे मानसिद्धस्य ज्ञानं जीवति तत्कथम् ? ॥९८३॥
किं पुनस्तत्प्रमाणं यतोऽतिरूढत्वमर्थस्येति चेत् ? तावत् 'प्रत्यक्षम्' इति त्रूमः । "तंत्रापि प्रतिभासान्तगर्तमेव नीलमवभासते नापरम् , ततः प्रतिभासव्यतिरेके न प्रमाण ततो नाभ्युपगमः। अथ प्रतिभासान्तर्गतं तन्न प्रतिभासते प्रतिभासस्यान्तरत्वात् , नीलादेश्च बहिरवभासनात् । न व्यतिरिक्तस्य सद्भावे तस्य प्रतिभासनं स्वरूपेणापरोक्षण तस्य प्रतिभासनात् । यथा हि- .
"व्यतिरिक्तस्य सद्भावे न नीलस्यापरोक्षता । स्वरूपेणापरोक्षत्वान्न तस्यान्यापरोक्षता ॥"
[प्र० वार्तिकाल० ३।३३३ ] इति प्रज्ञाकरः । तत्र किं तत्प्रत्यक्षम् , यत्र प्रतिभासान्तगर्तमेव नीलमवभासेत ? नीलादन्यदेवेति चेत् ; न; 'न व्यतिरिक्तस्य' इत्यादेविरोधात् । स एव प्रतिभासो यत्रान्तर्गमो नीलस्येति १५ चेत् ; तेन तर्हि पूर्वापरीभूतेन भवितव्यम् , अन्यथा पूर्व विशेषणतया आत्मनः, पश्चात्तद्वि
शिष्टतया नीलस्य ततः परिज्ञानायोगात्। सत्येव हि प्रागुपाधिपरिज्ञाने भवत्युपाधिमत्प्रति. पत्तिः, "विशेषणं विशेष्यं च" [प्र० वा० २।१४५] इत्यादि वचनात् । प्रागधिगम्यं च तद्रूपं येद्यन्तर्गतनीलं तन्नीलस्यापि तदन्तर्गमस्तत्रैवावभासत इति तेनापि पूर्वापरीभूतेन भवितव्यम्
अन्यथा तत्रापि 'अन्यथा' इत्यादिदोषात् । तद्रूपस्यापि प्रागधिगम्यस्यान्तर्गतनीलत्वे पुनरयमेव २० प्रसङ्ग इति अधस्ताद्विस्तारवतो नीलज्ञानस्य कथं क्षणभङ्गित्वम् ? कथं वा निर्विकल्पत्वं' प्रतिभासोपाधिकतया नीलं परिच्छिन्दतो विकल्पकत्वस्यैवोपपत्तेः ।
एतेन 'अन्तर्गतपीतं तत्' इति प्रत्युक्तम् ; तुल्यदोषत्वात् । कथं वा तत् पश्चान्नीलस्य विशेषणम् ; विरोधात् । पीतस्य परित्यागादिति चेत् ; न तर्हि पीतमेव तत् , तत्परित्यागेन
नीले तत्यागेनापि पुना रूपान्तरे प्रवृत्तः, व्यावृत्तादनुवृत्तस्य विरुद्धधर्माध्यासेन भेदस्यैवोपपत्तेः। २५ यदि पुनस्तत्र न किञ्चिदप्यन्तर्गतम् ; कथं तज्ज्ञानम् ? अनाकारस्यानभ्युपगमात् । अन्यथा
पश्चादप्यतदाकारमेव तत् नीलविषयं भवेत् । कथं तस्य तद्विषयत्वम् ? कथं तदाकारस्य ? स्वहेतुबलात्तथैवोत्पत्तेः ; समानमन्यत्र । ततो न युक्तम्-'प्रतिभासव्यतिरेके न प्रमाणम्' इति ; नीलस्य तज्ज्ञानाव्यतिरेके तस्यैव प्रामाण्यात् ।
१ज्ञानात् । २ उत्पत्तेः । ३ प्रत्यक्षेऽपि । ४"..सम्बन्धं लौकिकी स्थितिम् । गृहीत्वा सङ्कलव्यैतत्तथा प्रत्येति नान्यथा ।." इति शेषांशः । ५ यद्यनन्तर्गतं नो-आ०, ब०, प० । ६ - अन्नद्रूप-आ०, ब०, ५०। .-ल्पकत्वं आ०,०। ८ कथं वा तदा-आ०, ब०, प० ।