________________
प्रथमः प्रत्यक्षप्रस्ताव
१२९८ )
एतेनैतदपि प्रत्युक्तम्- “यथैव ग्राहकाकारः स्वरूपेणापरोक्षो न ग्राहकान्तरभावात् , तथा तेन समानकालोऽपि नीलादिः" [प्र. वार्तिकाल. ३।३३०] इति ; कथम् ? प्राहके स्वत एव ग्राह्ये च परत एवापरोक्षत्वस्य दर्शनात् । दर्शनानुसारित्वाच्चाभ्युपगमस्य । अन्यथा “यदेव दृश्यते तदेवाभ्युपगम्यते" [प्र. वार्तिकाल, ३।३३० ] इत्यसङ्गतं स्यात् । ग्राहकसमकालतया च ग्राह्यस्य स्वयं प्रकाशत्वेऽपि इदमपि नीलं तत्समकालत्वाद्भवेत् । प्रत्यक्ष. ५ बाधनस्य इतरत्रापि तुल्यत्वात् । न 'तत्समसमयत्वमात्रेण तस्य तत्त्वम् ; अपि तु तद्वत्तद्रूपतया चक्षुरादेवोत्पत्तेरिति चेत् ; न ; तद्व्यापारात्पूर्व पश्चादपि तद्भावात् । पौर्वापर्ये तस्य प्रमाणं नास्तीति चेत् ; चक्षुरादिकार्यत्वमपि कथम् ? पौर्वापर्यप्रमाणबलादेव तस्यापि परिज्ञानोपपत्तेः । तथा च दुर्भाषितमेतत्-"यथा चक्षुरादिकाद्राहकाकारस्तथा तत्समानकालो ग्राह्याकारोऽपि" [प्र. वार्तिकाल० ३।३३०] इति ; कल्पिते तु तस्य तत्कार्यत्वे तन्निबन्धनं स्वयं प्रकाशत्व- १० मपि कल्पितमेव न तात्त्विकम् । तत्र च न विप्रतिपत्तिः । 'तन्न नीलादेस्तत्प्रतिभासादेव
तदन्तर्गतत्वपरिज्ञा
भवत्वन्यत एवेति चेत् ; न ; तत्रापि विषयान्तर्गमस्यान्येन परिज्ञाने अनवस्था. दोषात् । अनन्तर्गामिन एव विषयस्य तेन प्रतिपत्तौ प्राच्येनापि स्यादित्ययुक्तमुक्तम्'प्रतिभासान्तर्गतमेव नीलमवभासते नापरम्' इति । अनन्तर्गतप्रतिभासे कथम् 'नीलं १५ प्रतिभासते' इत्यभेदावगम इति चेत् ? न ; एवमपि भेदस्यैवावगमात् । अभेदे हि 'नीलम्' इत्येव 'प्रतिभासते' इत्येव वा स्यात् न चोभयम् ? अभेदेऽप्यपोद्धारंपरिकल्पनया द्वैरूप्यादेवमवगम इति चेत् ; स्यादेतदेवं यद्यभेदस्य कुतश्चिदवगमः, स तु ततोऽन्यतश्च न प्रत्यक्षात् , उक्तनीत्या ततो भेदस्यैवावगमात् । तद्वैलभाविनो "विकल्पादित्यप्ययुक्तम् ; ततोऽपि यथानुभव प्रवृत्ताद्भेदावगमस्यैवोपपत्तेः । अनुभवातिक्रमप्रवृत्तात्तु न "ततः कस्यचिदपि प्रधानादि- २० विकल्पादिवावगमः सम्भवति । विकल्पाच्चाभेदावगमे कथं ततो द्वैरूप्यम् ? कथं वा काल्पनिकस्यानुभवविषयत्वमुच्यते ? यत इदं सूक्तम्
"तस्माद्विरूपमस्त्येकं यदेवमनुभूयते ।
स्मर्यते च" [प्र. वा० २।३३७ ] इति । अत्रापि 'एकम्' इत्यत्र 'अनुभूयते' इति 'न द्विरूपम्' इत्यत्र 'स्मयते' इत्यस्यैव सम्बन्धाद. २५ दोष इति चेत् ; न; अनुभवाभावे स्मरणानुपपत्तेः । उपपत्तावपि कुतो द्विरूपस्यैकस्य वेदनम् ? यत इदं शोभेत
"उभयाकारस्यास्य संवेदनं फलम् ।” [प्र. वा० २।३३७ ] इति ।
१ ग्राहकसमकालत्वमात्रेण । तत्समयमात्रे-आ०, ब०, प० । २ ग्राह्यस्य । ३ स्वरूपेणापरोक्षत्वम् । ४ ग्राहकवत्प्रकाशरूपतया । ५ग्राह्यस्य भावात् । तन्नीला-भा०.ब०,०। ७-गतस्यान्येन भा..., प०।८ भेदकल्पनया। ९ प्रत्यक्षबलभाविनः । १.-ल्ययु-आ०, ब०, प. विकल्पात् । १२ इत्यनु-आ०, ब०, प.।