________________
३९८ म्यायविनिश्चयविवरण
[११९९ अनुभवादेव स्मरणैकत्वेनाध्यवसितादिति चेत् ; न; ततोऽपि द्विरूपस्यैवावगमोपपत्तेनैकस्य । तद्विषयत्वमपरित्यजत एव तस्य तदेकत्वाध्यवसाय इति चेत् ; 'अपरित्यजतः' इति कुतः ? तथा निश्चयात् ; न तर्हि तद्विषये द्विरूपकल्पनं निश्चयेन तद्विरोधात् । ततो न तदेकत्वाध्यत्रसायादनुभवस्य द्विरूपविषयत्वमपि तु तत्त्वत एवेति वार्तिकतात्पर्यम् । अतस्तदपरिज्ञानादेवं इदं निबन्धनकारस्य वचनम्-"अपोद्धारपरिकल्पनया द्विरूपम्" [प्र. वार्तिकाल०]इति ।
___ भवतु द्विरूपमनुभवात् , तथापि न नीलं बहिरर्थः, प्रतिभासैकत्वस्यापि तत्रानुभवादिति चेत् ; न ; तदभावस्य निवेदितत्वात् । भेदमात्रे नीलतत्प्रतिभासयोरसङ्गतिरिति चेत् ; न ; विषयविषयिभावस्यैव तत्र सङ्ग तित्वात् । 'नीलं प्रतिभासते' इत्यत्र 'नीलं प्रति.
भासस्य विषयो भवति' इत्यवगमात् । कः पुनर्विषयार्थ इति चेत् ? नीलार्थोऽपि कः ? स्वरूप. १० मेवेति चेत् ; अपरोऽपि तदेव सर्वस्य विषयत्वमविशेषात् । स्वरूपस्येति चेत् ; नीलत्वमपि स्यात् ।
तत्त्वे यस्यैव कारणं तदेव नीलमिति चेत् ; विषयोऽपि यस्यैव ज्ञानं स एव स्यात् । किं तस्य ज्ञानेन ? कारणेनापि किम् ? कारणमेव इतरेणापि ग्रहणमेव । ततो युक्तं प्रत्यक्षाद् अतिरूढत्वमर्थस्य ।
तथाऽनुमानादपि । ततः पर्वतशिरसि पावकस्य परोक्षस्यैव प्रतिपत्तेः। परोक्षश्वार्थ एव अपरोक्षस्यैव ज्ञानस्याभ्युपगमात् । सोऽप्यपरोक्ष एव महानसपावकस्यैव ततः १५ प्रतिपत्तेः, महानसपावकश्च अपरोक्ष एव प्रतिपन्न इति चेत् ; न ; तथा सति सन्निहितिवदनु
मानवैफल्यप्रसङ्गात् । अध्यारोपादेव तस्यापरोक्षत्वं अध्यारोपश्चानुमानादेवेति चेत् ; अध्यारोपितं तर्हि 'तस्य ज्ञानत्वमर्थत्वं तु प्राकृतमिति प्राप्तम् । अध्यारोपितमेव तत्र रूपं नापरं यस्य परोक्षत्वेनार्थत्वमिति चेत् ; कुतस्तदध्यारोपणम् ? अनुमानाद्भूमादिति चेत् ; न; 'तेदभावे
"तस्यैवाभावात् । तद्भावे भाव इति चेत् ; न; परस्पराश्रयात्-तेंदध्यारोपणात धूमः, धूमाञ्च २० तदध्यारोपणमिति । अन्यतस्तदध्यारोपणं चेत् ; न; तस्यापि लिङ्गत्वे पूर्ववदोषात् । तत्रापि
लिङ्गान्तरात्तदध्यारोपेण अनवस्थादोषात् । अनुभवात्तध्यारोपणं तु न पर्वते स्यात् तत्र पावकानुभवस्य प्रागप्रवृत्तेरिति न तत्र पावकार्थिनः प्रवर्तेरन् । अपरोक्षत्वे च तत्पावकस्य कथं तदनुमानस्य परोक्षविषयत्वम् ? अतीतस्यैव तत्र 'तस्याध्यारोपादिति चेत् ; भवत्वेवम् , 'तथापि तत्र तत्य प्रतिभासे न परोक्षत्वम् । न हि प्रतिभासवत्त्वे च परोक्षत्वमुपपन्नम् ; , अतिप्रसङ्गात् । अप्रतिभासे तु नाध्यारोपः, प्रतिभासव्यतिरेकेण तदप्रतिपत्तः। प्रति.
भासोऽपि-तस्यान्यत्रैव नानुमान इति चेत्, न; तस्य निषिद्धत्वात् । कथश्चैवं प्रमाणमनुमानम् ? अदर्शनसमारोपव्यवच्छेदादिति चेत्, न; 'तस्य तुच्छस्याप्रतिपत्त : अनभ्युपगमाञ्च । दर्शनोपनयनमेव पावके 'तव्यवच्छेद इति चेत् ; ननु दर्शनमपरोक्षत्वमेव, तश्च विनाप्यनुमानेन
१-देव तन्नि-आ०, ब०, ५०। २ प्रज्ञाकरस्य । ३ असम्बन्धः। ४ नीलत्वे । ५ विषयस्य । ६ कृतमिति शेषः । . ज्ञानेनापि। ८ अनुमानात् । ९ पर्वतीयपावकः । १. पर्वतपावकस्य । धूमामावे । १२ अध्यारोपस्यैवाभावात् । १३ तदध्यारोपेण धू-आ०, ब०,०। १४ पावकस्य । १५ तथा हि तत्र प्रतिभा०,०,०।१६ व्यवच्छेदस्य । १७ अदर्शनसमारोपव्यवच्छेदः ।