________________
१९९] प्रथमः प्रत्यक्षप्रस्तावः
३९९ तस्यास्त्येवेति न तव्यवच्छेदात्तस्य' प्रामाण्यम्, अपि तु पावकविषयत्वादेव । तदप्यपरोक्ष. ताव्यतिरेकेणैव, अन्यथा तत्परोक्षविषयत्वप्रतिज्ञाव्याघातात् । ततो यदुक्तम्-"अनुमानमपि नापरोक्षताव्यतिरेकं साधयति” [प्र० वार्तिकाल० ३।३३३] इति; तत्प्रतिव्यूढम् ; तेन तव्यतिरिक्तस्यैव पावकस्य व्यवस्थापनात् ।।
यच्चापरमुक्तम्-"यदि च दृश्यमानताव्यतिरेकेण 'विकल्पे तदर्शनार्थं न प्रवर्तेत ५ दर्शनार्थिनो वा नोपदिशेत् , न हि दृश्यमानतामप्रतियन् दर्शनार्थी भवति" [प्र० वार्तिकाल० ३।३३३] इति ; तत्र किमियं दृश्यमानता पावकस्य यदप्रतिपत्तौ तदर्शनार्थी न भवेत् १ स्वयं दर्शनात्मकत्वमिति चेत् ; सत्यम् ; न तस्य प्रतिपत्तिः, नापि तेनार्थित्वं लोकस्य, अर्थान्तरेणैव दर्शनेन तस्य तद्भावात् । दर्शनसम्बन्ध इति चेत् ; न; सति दर्शनेऽनुमानवैफल्याद् अर्थित्वायोगाश्च । न ह्युपनतेनैव कस्यचिदर्थित्वम् अनुपनत एव तद्दर्शनात् । दर्शनयोग्यत्व- १० मिति चेत् ; अस्त्येव तस्य प्रतिपत्तिः, परोक्षस्यापि पावकस्य तद्योग्यस्यैवानुमितेः, व्याप्तेस्तथैव निश्चयात् । योग्यताप्रतिपत्तौ दर्शनेन कथमर्थित्वमिति चेत् ? न; अन्यत्रापि शक्तिपरिज्ञानादेव फलार्थित्वोपलम्भात् । तन्न स्वयं दर्शनार्थनात् , दर्शनार्थिनः कथनाद्वा पावकानुमानस्यापरोक्षविषयत्वं शक्योपपादनं परोक्षविषयत्वेऽपि तद्योग्यतापरिज्ञानात्तदुपपत्तेः । स्वरूपप्रतिपत्तौ पावकस्य कथं परोक्षत्वमिति चेत् ? तत्प्रतिपत्तेरस्पष्टत्वादेव । तदपि तस्याँ कथमिति चेत् ? न; कारणबला- १५ दिति निवेदितत्वात्। ततो युक्तम् अनुमानादप्यतिरूढत्वमर्थस्य । तत इदमकीर्तिकरमेव धर्मकीर्तेः
"दर्शनोपाधिरहितस्याग्रहात्तगृहे ग्रहात् ।। दर्शनं नीलनि सो नार्थो बाह्योऽस्ति केवलः ॥” [प्र०वा० २।३३५] इति ।
प्रत्यक्षानुमानाभ्यां दर्शनोपाधिरहितस्यैव पावकादेः प्रतिपत्तेः तत्र बाह्यतयार्थत्वस्योपपत्तेः । ततः प्रतीतिबलाद्विज्ञानस्य यदस्तित्वं तदर्थस्यापि, यच्च अर्थस्यापरमार्थत्वम् २० अविशददर्शनपथप्रस्थायित्वात् तैमिरिककेश्मदिवत् , तत् विज्ञानस्यापि स्यादविशेषात् । तदाह
कल्पना सदसत्त्वेन समा । इति । ज्ञानस्य सत्त्वेनार्थस्यासत्त्वेन कल्पना अर्थे ज्ञाने च सदृशीति यावत् ।
ननु एवमपि ज्ञानकल्पनैवास्तु, तत्र सकलसमीहितसिद्धः, अन्यकल्पना तु सिद्धोपपस्थायिनी कुतः पोष्यत इति ? तत्राह
.. किन्तु गरीयसी ॥९८ ॥ प्रतीतिप्रतिपक्षण तत्रैका यदि नापरा । इति । किन्तु इति अवितर्कपदं तत्र तस्मिन् कल्पनासाम्ये सति एका ज्ञानकल्पना
१ अनुमानस्य । २ विकल्प्येत प०। विकल्पैतद्दर्शनार्थे आ०,०।३ लोकस्य । ४ दर्शनार्थित्वात् । ५ स्वरूपप्रतिपत्तौ । ६ चेत् कार-मा०, ब०, प० । ७ -ति वि-मा०, ब०, प० ।