________________
४००
म्यायविनिश्चयविवरणे
[१९९ यदि स्याद् अपरा अर्थकल्पना यदि न स्यात् , 'स्यात्' इत्युपस्कारस्य यदि शब्दस्य चोभयत्र सम्बन्धात् । तत्र दूषणम्-गरीयसी गुर्वी नितरां ज्ञानकल्पना । तत्र निमित्तमाहप्रतीतिप्रतिपक्षण प्रतीतिर्ज्ञानस्य प्रतिपत्तिः तस्याः प्रतिपक्षः तदभावस्तेन । तथा हि-ज्ञानं नाम विषयग्रहणस्वभावमेव, प्रतीतेः “विषयग्रहणधर्मो विज्ञानस्य" [ ] इति ५ वार्तिकाच्च । विषयभावे च तादूप्याभावास्किं तस्यावशिष्येत ? यस्य 'प्रतीतिः स्वरूपमेव
तस्य विषयो न बाह्यमिति चेत् ; किं पुनस्तस्य विषयत्वम् ? ग्राह्यत्वमिति चेत् । कथं प्रह. णत्वम् ? ग्राह्यस्यैव तदनुपपत्तेः । स्वभावभेदादेकस्यैव तदुभयधर्मकल्पनायामपि अनेकान्तदोषात् । संवृत्या 'निर्दोषत्वमनेकान्तस्येति चेत् ; न ; बाह्यवज्ज्ञानस्याप्यपरमार्थत्वापत्तः,
निरंशस्यापि तस्य विषयविषयिभावायोगेनासम्प्रतिपत्तेः । तत इदमप्रातीतिकमेव "स्वरूपस्य १० स्वतो गतिः" [प्र०वा० १।६] इति ।।
___ इयमेव तस्य स्वतो गतिः यन्निरपेक्षं प्रकाशनम् , भेदव्यवहारस्तु तत्र काल्पनिक इति चेत् ; किमिदं प्रकाशनं नाम ? जडप्रतिद्वन्द्वी धर्म इति चेत् ; न ; अपरिज्ञाने जडस्य क्वचि. तत्प्रतिद्वन्द्वित्वस्यापरिज्ञानात् । परिज्ञाने तु नार्थनिषेधो जडस्यैवार्थत्वात् । कल्पितमेव तन्न
तात्त्विमिति चेत् ; ननु कल्पितत्वं कल्पनाबुद्धिविषयत्वमेव । तच्च नान्तर्गमेण ; तद्बुद्धे ड. १५ त्वापत्त्या स्वप्रकाशप्रच्युतः। बुद्ध्यन्तरेण प्रकाशे चानवस्थानप्रसङ्गात् । अनन्तर्गमेण चेत् ; कथं स्वसंवेदनमेव बुद्धिफलम् ? बाह्यसंवेदनस्यापि भावात् । तस्मादिदमप्यनुभवप्रत्यनीकमेव
"तस्मात्प्रमेये बाह्येऽपि युक्तं स्वानुभवः फलम् ॥” [प्र०वा० २।३४६] इति
“यतः स्वभावोऽस्य यथा तथैवार्थविनिश्चयः॥” [प्र०वा० २।३४६] इति च । अजडस्वभावयाऽपि बुद्ध्या जडस्य निर्णयात् । तन्न जडप्रत्यनीकत्वेन प्रकाशनम् ।
चिद्रूपत्वेनेति चेत् ; न ; चितेरपि प्रकाशपर्यायत्वात् । अपि च, अस्यां यदि न काचिदपि शक्तिः कथं "स्वयं सैव प्रकाशते” [प्र०वा० २।३२७] सत्यामेव कर्तृशक्ती 'प्रकाशते' इत्युपपत्तेः । अध्यारोपितया "तया प्रकाशत इति चेत् ; न ; तयैव तदनुपपत्तेः । न हि तच्छक्तिविकलतयैव संविदाना तामात्मन्यारोपयितुमर्हति । तद्विकलतया न संवित्त
सदादिनैव संवेदनादिति चेत् ; कथमुभयात्मा सती केनचित्संवित्ते केनचिन्नेति ? कुतश्चिद. २५ टष्टात्कारणादिति चेत् ; न ; बहिर्भावस्यापि इष्टानिष्टस्वरूपस्यैव केनचिदिष्टात्मना परेणा
निष्टात्मना च प्रतिपत्तिप्रसङ्गात् । एकरूपवेदिनां रूपान्तरस्याप्रतिपत्तौ कुतस्तस्योभयात्मकत्व. प्रतिपत्तिरिति ? अनेकात्मकं चार्थमेकरूपतया दर्शयतश्चादृष्टात्कथमर्थवेदनम् ? 'ततस्तिमिय. देरिवानर्थवेदनस्यैवोपपत्तेः' इति च न पर्यनुयोगः; परत्रापि तुल्यत्वात् । तथा च यथेदमुच्यते
-ति स्वरू-आ०, ब०, ५० । २ निर्दोषत्वेऽने-आ०, ब०, प० । ३ जलस्यै-आर, ब०, ५० । ४-कमेवेति मा०, ब०, प० । ५ -शप्रतीतेः आ०, ब., प० । ६ चितौ । ७ -तथा प्र-आ०, ब०, प० ।