________________
२४९९
४०१
प्रथमःप्रत्यक्षप्रस्तावः "तमनेकात्मकं भावमकात्मत्वेन दर्शयत् ।
तददृष्टं कथनाम भवेदर्थस्य वेदनम् ॥” [प्र०वा० २।३४४] इति ; तथेदमपि वक्तव्यम्
तामनेकात्मिकां बुद्धिमेकात्मत्वेन दर्शयत् ।
तददृष्टं कथन्नाम भवेद्बुद्धेः प्रवेदनम् ॥९८४॥ इति । ततः सर्वात्मनैव सा 'संवित्ते इति न तयैव तदारोपः । नापि बुद्धयन्तरेण ; तत्रापि तच्छक्ति. विकलतया संविदाने तत्प्रतिभासायोगात् । तत्रापि बुद्धयन्तरेण तदारोपकल्पनायाम् अनवस्थादोषोत् । तच्छक्तिमत्त्वे तु बुद्धेः कथं तदपेक्षं तत्प्रकाशनं निरपेक्षं नाम शक्तेस्तव्यतिरेकादिति चेत् ? किं पुनस्तयां न व्यतिरिक्तप्रकाशनम् ? तथा चेत् ; कथं तया परबुद्धिपरिज्ञानम् ? यत इदं सूक्तं स्यात्-"स्वरूपेण हि संवित्तीनां भिन्नत्वात्प्रतिपुरुषं नानाकारवेदनं १० युक्तम्" [प्र. वार्तिकाल० ३।३३९ ] इति । तासामपि कुतश्चिदाकारमुखेणैव वेदनं नान्यथेति चेत् ; न ; सुप्त-प्रबुद्ध जीवन-मृतेष्टानिष्टादिरूपाणां तदाकाराणां युगपदेकर समर्पणस्याप्रतिपत्तेः।
न ह्येकदैकं विज्ञानं साकारं परबुद्धिभिः । सुप्तं बुद्धं मृतं जीवदिष्टमन्यच्च दृश्यते ॥९८५॥ ततः शक्तिवशात्तासां वित्तिर्नाकारकल्पिता । तथार्थस्यापि तेनेदमयुक्तं कीर्तिवार्तिकम् ॥९८६॥ "तदर्थाभासतैवास्य प्रमाणं न तु सन्नपि ।
ग्राहकारमा परार्थत्वात् बाह्येष्वर्थेष्वपेक्ष्यते ॥" [प्र० वा० २।३४७] इति । प्राहकात्मन एव शक्तिरूपस्य परबुद्धिप्रतिपत्तिवदर्थप्रतिपत्तावप्यपेक्षणात् ।
संविभेदानभीष्टौ च नापरं तत्त्वमस्ति वः ।
संविदद्वयवादस्य प्रतिक्षेपात्सविस्तरम् ॥९८७॥ तस्मादर्थोऽव्यङ्गीकर्तव्य एव, अन्यथा ज्ञानभेदस्यानिर्वाहत्वापत्तेः ।
भवतु बाह्यस्यापि ज्ञानम् , तस्य तु कुतः सत्यत्वम् ? कुतस्तद्विषयः कश्चिदेव सत्यो न सर्वः १ प्राप्त्यादिविशेषादिति चेत् ; न; तत्रानवस्थादिदोषात् । तदुक्तम् -
"यथैव प्रथमं ज्ञानं तस्य प्राप्तिमपेक्षते । तत्प्राप्त्यापि पुनः प्राप्तेरपेक्षेत्यनवस्थितिः ॥
संविरिति भा०, २०, ५० जानातीत्यर्थः । २-दोषः त-भा०, ब०, ५०।३ -या तय-आ०, १०,०। -कत्वा-आ०, ब०, प० ।