________________
५०२
न्यायविनिश्चयविवरणे
[१।१००
कस्यचित्तु यदीष्येत स्वत एवाप्तिरूपता । प्रथमस्यापि तद्भाव इति सर्वसमानता ।। प्राप्तेरथापि पूर्वेण प्राप्तिरूपेण सत्यता। अन्योन्याश्रय इत्येकासत्यत्वेनोभयस्य तत् ॥ अथ कारणशुद्धत्वात्तज्ज्ञानस्यास्ति सत्यता। तज्ज्ञानस्यापि सत्यत्वं तत्कारणविशुद्धितः॥
एवं परापरापेक्षादनवस्था प्रसज्यते ।" [प्र० वार्तिकाल० ३।३५१] इति चेत् ; न; अभ्यासे स्वतः अन्यदा परतस्तत्सत्यत्वस्य निश्चयात्। न चानवस्थानम् ; पर्यन्ते
कस्यचिभ्यासवतो भावात् । अवश्यं चेदमङ्गीकर्त्तव्यम् , अन्यथा अर्थज्ञानवत् सन्तान१० भेदज्ञानस्यापि सत्यत्वानिश्चयात् , तद्विषयस्याप्यसिद्धिप्रसङ्गात् । न चैवं केशादेरपि तज्ज्ञानासिद्धिः ; तत्र स्वतः परतश्चासत्यत्वस्यैव निश्चयात् । तदाह
न हि केशादिनिर्भासो व्यवहारप्रसाधकः ॥९९॥ इति ।
केश आदिर्यस्य मशकादेस्तस्य निर्भासः प्रत्ययो न हि स्फुटं व्यवहारप्रसाधको व्यवहारः स्वतोऽन्यतो वा सत्योऽयमिति निश्चयः, प्रसाधकः सद्विषयत्वेन १५ अलङ्कारको यस्य स तथोक्तः तस्माद् असन्नेव तद्विषय इति भावः । कथमसतः प्रतिभासनम् ? आस्तामेतदनन्तरं निरूपणात् । पर आह
वासनाभेदानेदोऽयम् [ सिद्धस्तत्र न सिद्ध्यति ] । इति ।
पूर्वपूर्वविकल्पोपनीतः संस्कारो वासना, तद्भेदो दाळशैथिल्यलक्षणस्तस्मात् तमाश्रित्य अयं प्रतीयमानो घटादिज्ञानं तथ्यं मिथ्या च केशादिज्ञानमिति भेदो निर्णय: २० 'भिद्यते भिन्नतया व्यवस्थाप्येते परस्परतः तथ्यमिथ्याज्ञाने येन स भेदः' इति व्युत्पत्तेः ।
संस्कारदाळशैथिल्याभ्यामेव हि क्वचिज्ज्ञाने तथ्यमिथ्यात्वविभागविनिश्चयो न विषयभावाभावाभ्यामिति कथं तन्निश्चयात्तत्सिद्धिरिति मन्यते ?
तत्रोत्तरम्-'सिद्धस्तत्र' इति । अपिशब्दः द्रष्टव्यः । तत्रापि सन्तानभेदज्ञानेऽपि सिद्धो निश्चितो वासनाभेदाद भेदोऽयम् । तथा च ततोऽपि कथं तद्भेदसिद्धिः १ मा २५ भूत् , तद्भेदस्य तज्ज्ञानसत्यत्वनिश्चयस्य च वासनाभेदादेव भावात् ।
"कार्यवात्सकलं कार्य वासनाभेदसम्भवम् । कुम्भकारादिकार्य वा स्वमदर्शनकार्यवत् ॥" [प्र०वार्तिकाल० ३।३५१]
१ अन्यथा आ०, ब०, प० । अनभ्यासदशायाम् । २-या तज्ज्ञा-आ०,०प० । ३-नीतसं-भा०, घ०, ५०। ४ "वासना पूर्वविज्ञानकृतिका शक्तिरूच्यते।"-प्र०वार्तिकाल. पृ. १८। ५-भेदादशा-मा०, १०,५०।६ तथा च कथं ततोऽपि भा०, ब०, प.।