________________
.१०१] प्रथमः प्रत्यक्षप्रस्तावः
४०३ इति वचनादिति चेत् ; कुतः स्वप्नदर्शनस्य तद्बलभावः ? कुतश्चिन्निश्चयादिति चेत् ; न; 'तस्य वासनाबलभावित्वे ततोऽर्थस्येव तस्याप्यसिद्धेः। वस्तुतथाभावभावित्वे तु हेतो. य॑भिचारः, तस्य कार्यत्वेऽपि तद्वलभावित्वाभावात् । लोकाभिप्रायादेव तस्य तद्बलभावित्वं न स्वतः मया कुतश्चिन्निश्चीयत इति चेत् ; न ; लोकस्यापि तत्र तन्मात्रभावाभिप्रायाभावात् । तदाह
न सिद्ध्यति । तन्मात्रभावो दृष्टान्ते सर्वत्रार्थोपकारतः ॥१०॥
पारम्पर्येण साक्षाद्वा [परापेक्षाः सहेतवः] । इति । न सिद्ध्यति । स एवं वासनाभेद एव तन्मात्रं तस्मात् भावो जन्म । क्व? दृष्टान्ते निदर्शने । कियति ? सर्वत्र सर्वस्मिन् स्वप्नविप्लवभाविनि विप्लवान्तरभाविनि च । कस्मात् ? १० अर्थस्य नीलादेर्जनकत्वेन व्यापार उपकारो न विषयत्वेन , असत एव तदा तस्य प्रतिभासनात् , तस्मात् । कथम् ? पारम्पर्येण अविप्लवे दर्शनमर्थात् ततः संस्कारस्ततश्च 'विप्लवे नारीचौरादिदर्शन मिति परिपाटिः पारम्पयं तेन । दृष्टान्तमाह-'साक्षाद्वा' इति । 'वा' इति इवार्थः, साक्षाद् अव्यवधानेन वा[अ] विप्लवे यथा तदुपकारस्तथा पारम्पर्येणान्यदेति । सौत्रान्तिकाद्यनुगमेन चेदमुक्तम् , "स्वतः साक्षादपि तत्र तदुपकाराभावात् । की शास्ते दृष्टान्ता यत्र साक्षादिव पारम्पर्येण तदुपकार इति प्रश्नयन्तं प्रत्याह
परापेक्षाः सहेतवः। विच्छिन्नप्रतिभासिन्यो व्याहाराविधियो यथा ॥ १०१॥ इति ।
व्याहारो वचनमादिर्यस्य व्यापारस्य तस्य धियों बुद्धयः । कथम्भूताः ? परं बायं “व्याहारादिकम् उपकारकमविप्लवे साक्षादिवान्यदा पारम्पर्येणापेक्षन्त इति परापेक्षाः, २० तत्र हेतुः सहेतवः सकारणिका यत इति । न हि परानपेक्षत्वे सहेतुत्वं परस्यैव हेतुत्वात् ।
_____एवमपि वासनैव परमस्तु किं व्याहारादिनेति चेत् ; आह-विच्छिन्नप्रतिभासिन्यः' इति । विच्छिन्नं विच्छेदः देशादिनियमस्तेन प्रतिभासन्ते इति शीलास्तथोक्ताः । न हि व्याहारादिधियां वासनामात्रकारणत्वे देशादिनियमः सम्भवति । तथा हि-पूर्व ज्ञानं वासना, तच्च न सदृशमेव, विसदृशादपि तद्धियां भावात् । सा(ता)दृशादेव व्यवहितात्तद्भावः, २५ तस्यापि तादृशायवहितादेव भाव इति चेत् ; कथं तेषां विसदृशैरनुपादानोपादेयैरेकसन्तानत्वं यत इदं सङ्कलनम्-"नीलमवलोक्य चोरव्यापारं पश्यामि' इति । भवतु विस शादपि तद्भाव
निश्चयस्य । २ स्वप्नदर्शनस्य वासनावलभावित्वस्य । ३ वासनावल । ४ स्वप्नदर्शने । ५-व साध. नाभे-मा०,०, ५०। ६ विद्धवेनारि चौरा-आ०, ब०,५०। ७ संवेदनाद्वैतवादिमतेन । ८ व्यवहारा-आ., ब०, प०।९-न्यथा पा-मा०, ब०, ५०।१० नीरमव-आ०, ब०, प.।