________________
४०४
न्यायविनिश्चयविवरणे
[ १।१०३
इति चेत्; कथं तर्हि नासां विच्छेदो विसदृशस्यादिच्छेदात् । तच्छक्तिप्रबोधस्य विच्छेदादिति चेत् ; न ; तस्यापि विसदृशकार्यत्वे तदयोगात् । तद्धेतुशक्तिप्रबोधविच्छेदात्तद्विच्छेदकल्पनायाम् अनवस्थादोपात् । तन्न 'तन्मात्रभावित्वे 'तासां देशादिनियमात्मा विच्छेदः । नाप्याकारनियमात्मा; व्याहारादिनेवाकारान्तरेणापि विसदृशादवश्यन्तया तदुत्पत्तेः । बाह्यापेक्षायां तूपपद्यते । ५ बाह्याद् व्याहारादेरेव देशादिनियतहेतुबलान्नियमोत्पत्तेः साक्षात् पारम्पर्येणापि तदाहितादेव संस्कारादन्तरङ्गनियमोपनीतप्रबोधात्तदुत्पत्तेः । ततो दुर्भाषितमेतत्
,
२५
“कस्यचित्किञ्चिदेवान्तर्वासनायाः प्रबोधकम् ।
ततो धियां विनियमो न बाह्यार्थव्यपेक्षया ॥ " [ प्र०वा० २।३३६ ] इति ।
यदि बाह्यान्नियमः कथं स्वप्ने स्वशिरोदारणादेर्ज्ञानम्, तस्य साक्षादभावात्, प्राग१० प्यदृष्टेरिति चेत्; न ततोऽपिं । जन्मान्तरदृष्ट्रादेव संस्कारवाहिनस्तज्ज्ञानात् कुतो न सर्वदा ? कुतो वा रागादीनां नियम: ? न हि तत्रालम्बनमुपयोगि, "ततो रागहेतोरेव विरागस्यापि दर्शनादिति चेत्; न; अन्तरङ्ग सहायस्यैव तस्यै तन्नियामकत्वात् । ततो यँदा अन्तरङ्गं यन्निमित्तं च तदैव तदेव नान्यदा नान्यच्च ज्ञानरागादिकार्यमुपजायते । वासनैवान्तरङ्गं तस्या एव तंद्वता स्वतः सकलप्रतिभासनियामकत्वेन संवेदनादिति चेत्; कुतो विप्रतिपत्तिर्यतस्तं त्रानुमानम् ? अनिश्चया१५ दिति चेत्; निश्चयादयनिश्चितात्कुतस्तदभावः " ? न हि स्वतस्तस्यै निश्चयो वासनावत् । नाप्यन्यतः ; अनवस्थादोपात् । अनिश्चितादपि स्ववेदनात्तत्र " तन्निवृत्तौ वासनायामपि स्यादिति व्यर्थमेव तत्रानुमानम् । तस्मादचेतनमेवान्तरङ्गं तस्यैव दृष्टकारणव्यभिचारवतः कार्यात्प्रतिपत्तेः । तदेव च क्षयोपशमविशेषवशाद्वाह्यतत्संस्कार साहाय्येन कचिद्यथार्थमयथार्थ प्रत्ययमुपजनयतीति सूक्तमेतत् - 'परापेक्षा व्याहार। दिधियो विच्छिन्नप्रतिभासिन्यो २० यतः' इति ।
'यथा' इति सादृश्ये यथैताः परापेक्षास्तथाऽन्येऽपि दृष्टान्ता इत्येवं साध्यवैकल्यं दृष्टान्तस्य प्रतिपाद्येदानीं तत्र सत्यपि तन्मात्राभावे साध्यासिद्धिमावेदयन्नाह
SE
सन्निवेशादिभिर्हष्टैर्गापुराहालकादिषु । बुद्धिपूर्वैर्यथातत्त्वं नेष्यते भूधरादिषु ॥ १०२ ॥
तथा गोचरनिर्भासैर्दृष्टैरेव भयादिषु । अबाह्यभावनाजन्यैरन्यत्रेत्यवगम्यताम् ॥ १०३ ॥ इति । सन्निवेशः संस्थानविशेष आदिर्येषामचेतनोपादानत्वादीनां तैः दृष्टैरुपलब्धैः ।
१ वासनामात्रभावित्वे । २ धियाम् । ३ आकारनियमात्मा विच्छेदः । ४ ज्ञानादपि । ५ बाह्यालम्बनात् । ६ ज्ञानस्य । ७ यथा आ०, ब०, प० । तथैव आ०, ब०, प० । ९ वासनावता पुरुषेण । १० वासनायाम् । ११ विप्रतिपत्त्यभावः । १२ निश्रयस्य । १३ निश्चय संवेदनात् । १४ निश्चये । १५ विप्रतिपत्तिनिवृत्तौ । १६ प्रतिपद्ये-आ०, ब०, प० । १७ वासनामात्रजन्यत्वे ।