________________
१।१०४]
प्रथमः प्रत्यक्षप्रस्तावः क्व ? गोपुराहालकादिषु । कीदृशैः ? बुद्धिपूर्वैः, बुद्धं बुद्धिर्विद्यते अस्येति' बुद्धी, बुद्धिमान् पूर्वो हेतुर्येषां तैः । यथा येनासिद्धादिप्रकारेण तत्त्वं बुद्धिपूर्वत्वं नेष्यते। क्व ? भूधराविषु बौद्धैः तथा तेन प्रकारेण गोचरनिर्भासैः विषयप्रतिभासैः दृष्ट. रेव भयादिषु, आदिशब्दादुन्मादादिषु । कीदृशैः ? अबाह्यभावनाजन्यैः, अविद्यमानबाह्यया वासनयैव जन्यैः, अन्यत्र जाग्रद्विषये तत्त्वम् अबाह्यभावनाजन्यत्वं 'नेष्यते' इति ५ गतेन सम्बन्धः इत्यवगम्यताम् । तथा हि-युक्तं तादृशादेव विषयप्रतिभासित्वप्रत्ययत्वादेः अन्यत्रापि भावनाजन्यत्वसाधनं यादृशस्य भयादौ तद्व्याप्तिपरिज्ञानं नान्यादृशात् । अन्यादशश्च तत् जाग्रत्प्रत्ययेषु पर्वतादिषु सन्निवेशादिवत् । कुत एतत् ? अन्यत्र कुतः ? स्वयं तत्र लोकस्य बुद्धिपूर्वत्वबुद्धेरभावात् ; प्रकृतेऽपि भावनाजन्यत्वबुद्धेरभावात् । अपरामृष्टविशेष सामान्यमेवात्र हेतुरिति चेत् ; न ; बुद्धिपूर्वत्वेऽपि तस्यैव तत्त्वापत्तः । कथं पुनः सन्नि- १० वेशादिवस्तुविशेषे सति दृष्टस्य तन्मात्रादनुमानम् , पाण्डुद्रव्यविशेष एव धूमे दृष्टस्यानलस्य पाण्डुद्रव्यमात्रादपि तत्प्रसङ्गात् । तदुक्तम्
"वस्तुभेदे प्रसिद्धस्य शब्दसाम्यादभेदिनः।
न युक्तानुमितिः पाण्डुद्रव्यादिव हुताशने ॥" [प्र०वा० १।१४] इत्यपि न समाधानम् ; भावनाजन्यत्वस्यापि तन्मात्रात्तदभावापत्तेः । ततो विषयनिर्भासादि- १५ विशेषस्यैव साध्यव्याप्तिः, तस्य च सन्निवेशादिवत्प्रकृते धर्मिण्यभावात् न ततः साध्यसिद्धिः।
____नन्वेवं कृतकत्वादनित्यमपि न सिद्धयेत् तस्यापि घटादौ साध्यव्याप्ततया प्रतिपन्नस्य शब्दे धर्मिण्यभावादिति चेत् ; अत्राह
अत्र मिथ्याविकल्पौधैरप्रतिष्ठानकैरलम् । इति ।
अत्रास्मिन् न्याये सति मिथ्याविकल्पौषैः असत्यविकल्पप्रबन्धैः अलं पर्याप्तम् । २० कीदृशैः ? अप्रतिष्ठानकैः न विद्यते परपक्ष एव दोषतया प्रतिष्ठानं प्रतिष्ठा येषां तैरिति । सनिवेशाद्यसिद्धतोद्भावनपक्षेऽपि तेषां भावादिति भावः ।
____ यदि वा, भवतु सन्निवेशादेर्बुद्धिमतोऽपि सिद्धिः, स तु चिद्रूप एव अन्यस्य बुद्धिमत्त्वासम्भवात् , अनित्यश्च "अन्यत्रार्थक्रियाविरहात् , अविभुश्च निरंशस्य व्यापित्वायोगात् । तादृशश्च वासनारूप एव । ततो न तत्सिद्धौ काचिदस्माकं परिपीडा, परितोषस्यैव भावात् । २५ अत एवोक्तम्
"प्रधानानां प्रधानं तदीश्वराणां तथेश्वरः । सर्वस्य जगतः की वासना देवता परा ।।" [प्र०वार्तिकाल० ३।३५१]इति ।
1-ति बुद्धिमान् आ०,ब०, प० । “ब्रीह्याद्यतोऽनेकाचः (शाकटा०३१३११५३) इति सूत्रेण बुद्धशब्दामत्स्वर्थ इन"-साटि।२विषयप्रतिभासित्वादि। ३ विषयप्रतिभासित्वसामान्यम् । ४ सामान्यमात्रस्य हेतुत्वापत्तः। ५ बुद्धिपूर्वत्वस्य । ६ सन्निवेशमात्रात् । ७ अनुमानप्रसङ्गात् । ८ विषयप्रतिभासमात्रात् । ९ जाग्रत्प्रत्यये । १.नित्ये।