________________
५
१५
न्यायविनिश्वयविवरणे
[ १।१०५
तन्न सन्निवेशादेरगमकत्वं यतस्तद्विषयनिर्भासादेरपि तत्त्वमापद्यत इति । अत्रेदमाह'अ' इत्यादि । अत्र सन्निवेशादिसाध्ये बुद्धिमति हेतौ ये विकल्पौघाः चेतनत्वं न विभुत्वं नार्थक्रियेति परामर्शलवास्ते मिथ्यैव अवस्तुविषयत्वात् । अत एव न तेभ्यः कस्यचित्प्रतिष्ठानमित्यलं कल्पितैरिति ।
४०६
न हि मिध्याविकरूपेभ्यो हेतौ बुद्धिमति स्वयम् । चेतनत्वादिभावस्य प्रतिष्ठानं समञ्जसम् ॥ ९८८ ॥ वासनारूपता तस्य यतस्तै रुपकल्प्यताम् । अन्यथा वासनाधर्मसर्वस्वप्रतिषेधनात् ॥ ९८९ ॥ तैरेवेशादिरूपत्वं तस्याः' किन्न प्रकल्प्यते । न हि तादृग्विकल्पौघैर्दारिद्र्यं कस्यचित्क्वचित् ॥ ९९० ॥ तथा च वासनाहेतुवादिना यद्वदुच्यते । "प्रधानमीश्वरः कर्म यदन्यदपि कल्प्यते ॥ ९९९॥ वासनासङ्गसम्मूढचेतःप्रेस्पन्द एव सः ।" इति तद्वत्परेणापि वाच्यमीशादिवादिना ॥ ९९२॥ वासनैव जगद्धेतुर्नान्य इत्यपि कल्पनम् । प्रधानेशादिसम्बन्ध मूढप्रस्पन्द एव सः ॥ ९९३ ॥
तत इदमनिच्छता सन्निवेशादेरगमक [त्व] मेव वक्तव्यम् । तद्वदुविषयप्रतिभासत्वा"देरपीति न वासनाभेदात्प्रत्ययनियमः, अपि तु बाह्यभेदादेव तथैव प्रमाणतः प्रसिद्धेरिति स्थितम् । भवतु बहिरर्थः, स तु परमाणुरूप एव तस्यैव प्रत्यक्षत्वान्नापैरो विपर्ययादित्युपक्षिप्य २० प्रत्याचक्षाण आह
अत्यासन्नानसंसृष्टानाणूनेवाक्षगोचरान् ॥ १०४॥
अपरः प्राह तत्रापि तुल्यमित्यनवस्थितिः । इति ।
अत्यासन्नान् अतिशयेन निकटवर्त्तिनः इत्यनेनाणूनां प्रत्यक्षत्वे निमित्तमुक्तम् । यद्येवं रूपस्य रूपनैकट्याद् यथैकप्रत्यक्षविषयत्वमेवं रसादेरपि स्यादिति चेत्; न; तस्य २५ देशतस्तन्नैकट्येऽपि एक प्रत्यक्ष कार्यशक्तितस्तदभावात् रूपस्यैव हि रूपान्तरेण तत् न रसादेः । कार्यान्तरापेक्षायां तु तस्यापि " तदस्त्येव, रूपादिसाधारणस्यैवोदकाहरणादेर्दशनात् । असंसृष्टान् संसर्गरहितान् अणनेव नावयविनम् अक्षगोचरान् इन्द्रियज्ञानविषयान् अपरो योगाचारात् अन्यः सौत्रान्तिकः प्राह तत्रोत्तरम् । तत्रापि प्रत्यासत्तावपि न पूर्वमेव तुल्यं
"
१ वासनायाः । २ हेतुवासना यद्व -आ०, ब०, प० । प्रज्ञाकरेण । प्र०वार्तिहाल० ३।३५१ । ३ प्रस्पष्ट एव आ०, ब०, प० । ४- भासनादे-आ०, ब०, प० । ५ न परो आ०, ब०, प० । ६ रसादेः । ७ नैकव्याभावात् ८ एक प्रत्यक्ष कार्यशक्तयपेक्षया नैकव्यम् । ९ रसादेरपि । १० नैकट्यम् ।