________________
४०७
१।१०५]
प्रथमः प्रत्यक्षप्रस्ताव सदृशं दूषणमिति शेषः। किं तत् ? इत्यनवस्थितिः इति । इति अतः प्रत्यक्षप्रतीतेः अणुविषयत्वेनानवस्थानम् ।
भवतु पूर्व प्रत्यासत्तेरभावात्तदनवस्थानं न पश्चाद्विपर्ययादिति चेत् ; न ; पश्चादप्य. संसर्गात् । असंसर्गेऽप्येकदेशतया 'तदुपपत्तिरिति चेत् ; कः पुनरेकदेशः ?
अणुश्चेत्तन्निलीनानां स्वरूपामिश्रणं कथम् ? तस्य प्रत्यणु भेदाच्चेदेको देशः कथं मतः ? ॥ ९४॥ एकदेशतया तस्याप्येकत्वमिति चेदसत् । तत्राप्येवं प्रचिन्तायामनवस्थानुषञ्जनात् ॥९९५॥ स्थूलश्चेत्कल्पितस्तेन प्रत्यासत्तिर्न तात्त्विकी । इन्द्रियज्ञानवेद्यत्वं तेषां तद्बलतः कथम् ? ॥९९६।। अकल्पितश्चेन्निर्बाधो भवेदवयवी ततः दृश्यन्तेऽणय एवेति न भवद्वचनस्थितिः ॥९९७॥ शक्तिसादृश्यतस्तेषां प्रत्यासत्तेदृशिर्यदि । संसर्गेण विना तेषु व्यूहबुद्धिः कुतो भवेत् ? ॥९९८॥ घटोऽयमिति तत्साम्यादेव चेयूहभित्कथम् ? । सर्वत्र शक्तिसादृश्याजगदेकघटं भवेत् ॥९९९॥ कार्यभेदेन भेदश्चेव्यूहस्य परिकल्प्यते । स एव शक्तिसादृश्ये कार्यभेदः कथं मत ? ॥१०००॥ अन्यथेष्टेऽपि चैकस्मिन् तद्भेदाद् व्यूहभेदतः । न घटो नाम कश्चित्स्याच्चेटी केनोदकं हरेत् १ ॥१००१॥ एककार्यतया तेषु व्यूहधीर्यदि तच्च नो । निरंशवेदनं तस्य स्वपराभ्यामवेदनात् ॥१००२।। अनेकनीलाद्याकारमेकं चेत्किन्न तादृशः । बहिरर्थो यतस्तस्मिन् अणुव्यूहप्रकल्पनम् ॥१००३।। वेदनं व्यूहरूपं घेत्कार्य तत्कल्पनं कुतः ? तत्कार्यादन्यतस्तस्मादिति चेन्नानवस्थितेः ॥१००४॥ जलाधाहरणं तच्चेन्न जलादेरवेदनात् । अणुस्तोमो जलादिश्चेन्न तस्याद्याप्यसिद्धितः ॥१००५।।
१ तदुपपत्तेरि-मा०, ब०, प० । २ अणूनाम् । ३ भवेद्व-आ०, ब०, ५०। ४ च्चेटिका नो-आ०, ब०,०।५ तादृशम् आ०, ब०, ५०, ६ -वस्थितिः आ०, ब०, प.।