________________
४०८
न्यायविनिश्चयविवरणे
[१।१०५ व्यूहादुत्पत्तितस्तत्र व्यूहज्ञानं मतं यदि । तन्न व्यूहानवस्थाने तदुत्पत्तेरसम्भवात् ॥१००६॥ ततस्तु तव्यवस्थायामन्योन्याश्रयदूषणात् ।
तन्न संसर्गवैधुर्ये व्यूहो नामोपपद्यते ॥१००७॥
भवतु संसर्गादेव 'तेषां दर्शन मिति चेत् ;न; सर्वदा स्थूलस्य दर्शनात् । दर्शनजन्मा विकल्प एव स्थूलज्ञानं न दर्शनम् । न हि दर्शनमसद्विषयं युक्तम् । असंश्च स्थूलाकारो बहिरवयवभेदेनौदर्शनादिति चेत् ; भवतु कथञ्चित्तदभेदेनैव दर्शनम् । कथं भिन्नानामभिन्नं रूपं विरोधादिति चेत् ? "नेदानी विकल्पविषयत्वमपि स्थूलस्य, अनेकान्तविद्वेषे विकल्पस्याप्य
भिलाप्यानभिलाप्यभेदाधिष्ठानस्यासम्भवादिति सर्व निर्विकल्पमेव जगत्प्राप्तम् । ततः कुतो १० नीलादेरपि प्रतिपत्तिः निर्विकल्पस्य क्षणभङ्गादिवत् तत्रापि असत्कल्पत्वात् । विकल्पमेकानेकात्मकमनभिद्रुह्यतो बाह्येन किमपराद्धं यतस्तमेव तादृशमभिद्रुह्येत । कुतस्तस्य वादृशत्वमिति चेत् ? विकल्पस्यैव पूर्वपूर्वस्मात्तादृशादेवोपादानाद् अवयवसंसर्गाद्वा । संसृज्यमानाः खल्ववयवा एव कथञ्चित्स्थूलीभवन्ति । कात्स्न्यैकदेशाभ्यां पर्यनुयुज्यमानो न सम्भवत्येव संसर्गः तत्कथं
तद्वशात् “तेषां स्थूलीभाव इति चेत् ? कथं दर्शनमपि 'तत एव "तस्याप्युपपत्तेः । कुतो वा १५ ताभ्यां तत्पर्यनुयोगो "व्याप्त्यभावे येन केनचित्तत्प्रसङ्गात् । सत्यपि ताभ्यां तस्य तद्भावे"
नैकदेशेन संसर्गेऽनवस्थानम् , नापि सर्वात्मना तस्मिन्प्रचयहानिः, परस्परानुप्रवेशस्य संसर्गस्यानभ्युपगमात् । वियोगपर्युदास एव हि संसृज्यमानपदार्थात्मा संसर्गः प्रतीयते नापरः। स च तन्तोः तदन्तरेण पार्श्वदेशात्मा परमाणोस्तदन्तरेण "सर्वात्मेति न किञ्चिदसमञ्जसमुत्पश्यामः "यतो न तद्वशादणव एव स्थूलीभवेयुः । तद्वशात्तेभ्य एव स्थूलकार्यस्य तत्प्रत्यया२० देर्भावात् कि स्थूलेन ? पारम्पर्यपरिश्रमो ह्येवं स्यात्-तेभ्यः स्थूलस्ततश्च तत्कार्यमिति चेत् ;
न तर्हि नीलादिनापि किञ्चित् , तत्कार्यस्यापि तत्प्रत्ययादेस्तेभ्यः एव सम्भवात् ।
तदुक्तम्
"स्वीकुर्वन्ति गुणानां यया शक्त्याऽगुणा न किम् ।। तया तत्संविदं कुयुर्भिन्नाचेदेकसंविदम् ॥' [सिद्धिवि० परि• ] इति ।
नीलादिव्यतिरेकेण नापरस्तत्स्वभावो यतस्तत्कार्य स्यादिति चेत् ; न ; निराकारा. वस्थस्य प्रधानस्यैव तत्स्वभावत्वात् । न तथा कदाचिदपि तेषां प्रतिपत्तिरिति चेत् ; न ;
१ परमाणूनाम् । २ सर्वथा आ०, ब०, प० । ३ असंश्चेत्स्थू-आ.,ब०,०। ४ -भेदे वा दर्श-आ०, ब०,५०।५ न तदानी आ०,१०,५०।६ नीलादावपि । ७ अनिश्चायकत्वेन अविद्यमानवद्भावात् । ८ कुतस्तत्र ता. भा०,०प० । ९ एकानेकात्मकत्वम् । १० परमाणूनाम् । संसर्गवशादेव । १२ दर्शनस्यापि । १३ कात्स्न्य कदेशाभ्याम् संसर्गपर्यनुयोगः । १४ व्याप्यभावात् ये-आ०, ब.,प० । १५ पर्यनुयोगप्रसङ्गात् । १६ संसर्गस्य । 1. व्याप्तिसद्भावे । १८ तन्वन्तरेण । १९ परमाण्वन्तरेण । २० सर्वात्मनेति आ०,०, प० । २१ यं सन्तानतदूशादण-मा०, २०, ५०। २२ परमाणुभ्य एव । २३ निराकारावस्थानस्य मा०,०,५०,।