________________
प्रथमः प्रत्यक्षप्रस्ताव:
१।१०६
४०९ निरंशतयापि तदभावात् । यद्यामलकं वस्तुवृत्तेनैव स्थूलं किमिति बदरापेक्षयेव कपित्थापेक्षयापि न 'तथेति चेत् ? स्वहेतोस्तथैवोत्पन्नत्वात् । न हि भावः स्वहेतुप्रकृतस्तथाऽन्यथा वा भवन्तः पर्यनुयोगमर्हन्ति, अन्यथा पावकोऽपि धूमस्यैव (स्येव)किन्न सर्वस्य जनकः ? धूमोऽपि पावकस्यैव(स्येव)किन्न सर्वस्य गमक इति पर्यनुयोगात् न कश्चिदित्थम्भावे नावतिष्ठेत | आपेक्षिकत्वाच्च स्थूलस्यावस्तुरूपत्वे कारकज्ञापकयोरपि तत्त्वापत्तेः। ततो निरवद्यप्रतिपत्तिविषयत्वात् ५ स्थूल एव च बहिर्भावो न परमाणवो विपर्ययादित्युपपन्नमुक्तम्-'इत्यनवस्थितिः' इति ।
तदेवं परमाणूनां प्रत्यक्षत्वं प्रत्याख्याय अवयविनस्तत्प्रत्याख्यानाय यौगमतमुपक्षिपतितत्रापि तुल्यजातीयसंयोगसमवायिषु ॥१०५॥
अत्यक्षेषु ध्रुवेष्वन्यदध्यक्षमपरे विदुः । इति ।
तत्र तेषु अनन्तरोक्तेष्वणुपु अन्यद् अर्थान्तरमवयविद्रव्यम्-अध्यक्षम् । अपि- १० शब्देनाबावज्ञा द्योतयति-परमाणव एव तावन्न सम्भाव्याः कथं तत्रान्यदध्यक्षमिति । दृश्यते च अपिशब्दादवज्ञाद्योतनं यथा-"ब्रह्माण्डं यदेवैतत् तत्रापि क्षितिमण्डलम्' [ ] इति ।
कि पुनरवयविना परिकल्पितेन, तत्प्रयोजनस्य परमाणुष्वेव परिसमाप्तेरिति चेत् ? न; तेषामदर्शनात् । न चादृष्टेषु तत्समाप्तिकल्पनम् , अव्यवस्थापत्तेः । तदाह-'अत्यक्षेषु' इति अक्षज्ञानमतिक्रान्तेष्विति । प्रत्येकदशायामत्यक्षत्वेऽपि सङ्घातावस्थायां कुतो न तेषां १५ प्रत्यक्षत्वमिति चेत् ? न; तदापि नित्यत्वेन प्राच्यस्वभावापरित्यागात् । तदाह-'ध्रवेषु' इति । अपरित्यक्ततत्स्वभावानामेव यथा द्रव्यारम्भकत्वमेवमध्यक्षत्वमपि तदा किन्न भवेदिति चेत् ? भवेदेवम् , यदि तदापि तत्प्रतिभासनम्। न चेदमस्ति, स्थूलस्यैव प्रतिभासनात् । तदपि परमाणुष्वेव नावयविनीति चेत् ; कथमस्थूलेषु स्थूलदर्शनम् ? कुतश्चिद्विभ्रमनिमित्तात् दूरविरलकेशवदिति चेत् ; किंरूपास्ते केशा यत्र 'तदर्शनं निदर्शनमुच्येत ? परमाणुरूपा इति २० चेत् ; न ; तत्र दर्शनस्य विवादाधिष्ठितत्वेन दृष्टान्तत्वानुपपत्तेः । स्थूलरूपा एव "या च यावती च मात्रा"[प्र०वार्तिकाल द्वि०प० पृ०३१०] इति न्यायादिति चेत् ; न; अवयविनमनभ्युपगच्छतस्तद्रूपास्ते इत्यनुपपत्तेः । परबुद्ध्या ते तद्रूपा न स्वबुद्ध्येति चेत् ; स्वबुद्ध्या तर्हि किं निदर्शनं यतस्तदर्शनस्याणुविषयतामाचक्षीत इति न किञ्चिदेतत् । ततः स्वबुद्ध्या अपि तद्रूपा एव ते वक्तव्या इति "सिद्धं तेषु प्रत्येकं तदर्शनस्यावयविविषयत्वं तद्वद् घटादावपि । न २५ च दूरविरलकेशेषु तद्दर्शनस्य विभ्रमाद्धटादावपि विभ्रमः ; नीलादावपि कचित्तदर्शनस्य विभ्रमात् सत्यनीलादावपि तत्प्राप्तेः । ततो युक्तम् 'अन्यदध्यक्षम्' इति ।
भवत्वन्यदध्यक्षम् , तत्तु स्थूलावयवारब्धमेव, तस्यैव महत्त्वेनाध्यक्षत्वोपपत्तेर्न परमा.
। स्थूलम् । २ एवं च आ०, ब०, ५०। ३ -ज्ञानं द्यो-भा०, ब०, ५०। ४ -ब्दादेवाव-आ०, ब०,०। ५-माप्तिरि-आ०, ब., प०। ६ परमाणूनाम् । ७ स्थूलप्रतिभासनम् । ८ स्थूलदर्शनम् । तत्र स्वबु-आ०,०,५०० स्थूलरूपाः। ११ सिद्धान्तेषु आ., ब०, प० ।
५२