________________
४१० म्यायविनिश्चयविवरणे
[१२१०६ ण्वारब्धं विपर्ययात् , ततो न युक्तं तत्र ग्रहणमिति चेत् ; न; महतोऽषि परमाण्वारब्धड्यणुकादिक्रमेण प्रादुर्भावात् पारम्पर्येण परमाणुनिष्ठत्वेन तत्र ग्रहणोपपत्तेः । तच्च तेषु अन्यदध्यक्षम् अपरे योगा विदुःजानन्ति । कीदृशेब्वित्याह- 'तुल्य' इत्यादि । समवायो वृत्तिः कार्यस्य स येषामस्तीति समवायिनः कार्योपादानहेतवः संयोगेन सहिताः समवायिनः संयोगसमवायिनः 'शाकपार्थिवादिवदुत्तरपदलोपी समासः । संयोगग्रहणमुपलक्षणम्-निमित्तान्तरस्यापि । साहित्यन्त संयोगस्य तेषु समवायात , कालदेशादेश्च संयोगादिति प्रतिपत्तव्यम् । तुल्यजातीयाश्च ते संयोगसमवायिनश्च तुल्यजातीयसंयोगसमवायिनः तुल्यजातीयत्वं कार्यद्रव्यापेक्षम्। कार्यस्य द्रव्यस्य हि पार्थिवस्य पार्थिवा एव, आप्यस्य चाप्या एव समवायिनो नान्य इति । एवमन्यत्रापि । तेषु तुल्यजातीयसंयोगसमवायिषु इति । अत्र प्रतिविधानमाह
कारणस्याक्षये तेषां कार्यस्योपरमः कथम् ॥१०६॥ इति ।
तेषां वैशेषिकादीनां कथा ? न कथञ्चित् । कार्यस्य अवयविनोऽन्यस्य उपरमः कादाचित्कत्वम् । कदा ? कारणस्य परमाणुलक्षणस्य अनये नित्यत्वेन स्वरूपावैकल्ये इति ।
तात्पर्यमत्र-कार्यस्य हि का त्वं सत्तासम्बन्धात् । न चासौ सतः, एतद् वैयर्थ्यात् । नाप्यसतः; खरशृङ्गादेरपि प्राप्तेः । अपि तु प्रागसतः कारणसामग्र्याः "प्रागसतः सत्ता१५ सम्बन्धः कार्यत्वम्' [ ] इति वचनात् । न च कारणस्याक्षये प्रागपि कार्यस्यासत्त्वं
सत्त्वस्यैवोपपत्तेः, तत्परतन्त्रस्य तस्य सति तस्मिन्नवश्यम्भावात् । असति तस्मिन्नभावादेव तस्य तत्परतन्त्रत्वं न तु सति भावनियमादिति चेत् ; सत्यप्यभावे किं निबन्धनम् ? स्वभावनिबन्धनत्वे भवनस्यापि तन्निबन्धनत्वापत्तेः, नित्यत्वप्रसङ्गस्य चोभयत्राप्यविशेषात् । शक्तिवैकल्यमिति
चेत् ; न; पश्चादप्यभवनप्रसङ्गात् । न हि नित्यस्य पश्चादपि तद्वैकल्यप्रच्युतिः, अनित्यत्वापत्तेः। २० एतदर्थमेव च 'अक्षये' इत्युक्तम् ।
कथं वा शक्तिविकलस्य वस्तुत्वं व्योमकुसुमवत् ? अर्थान्तरशक्तिसम्बन्धादिति चेत्; न; अनुपकारिणस्तत्सम्बन्धायोगात् अतिप्रसङ्गात् । न च शक्तिविकलस्योपकारित्वम् ; अवस्तु. त्वात् । पुनरप्यर्थान्तरशक्तिसम्बन्धाद्वस्तुत्वकल्पनायाम् अनवस्थापत्तेः । न च शक्तेः कुतश्चि.
दुपकाये नित्यत्वात् । नित्यत्वे कथं तत्कार्यस्य प्रागभाव इति चेत् ; न; एवमपि परस्यैव २५ पर्यनुयोगात् । अनित्यैव शक्तिः, प्रागभाविन्यास्तस्याः कारणादुत्पत्तेरिति चेत् ; न; सत्यविकले
कारणे तत्प्रागभावस्याप्यनुपपत्तेः। सतोऽपि कारणस्य स्वशक्तिवैकल्यात्तस्याः प्रागभवनमिति चेत् ; न; 'पश्चादप्यभवनप्रसङ्गात्' इत्यादेराम्नायात् अनवस्थोपनिपाताच्च ।
१ समवायवृ-आ०, ब., प० । २ सत एव वै-आ.,ब०, प०। ३ "स्वकारणसत्तासम्बन्धः कार्यत्वम्"-प्रश० व्यो. पृ० १२९। "प्रागसतः सत्तासमवायो वा कार्यत्वमित्येके"-प्रश० क. पृ० १८। ४ कारणाधीनस्य । ५ कार्यस्य । ६ शक्तिवैकल्यग्रच्युतिः। ७ परस्य पर्य -आ०, ब०, ५०। ८ शक्तः । । चेत् तन्न आ०, ब०, ५०