________________
११०६ ]
प्रथमः प्रत्यक्ष प्रस्तावः
४११
किं वा शक्तिकरणे कारणस्य प्रयोजनम् ? कार्यकरणमिति चेत्; न ; शक्तिकरणेऽपि तदन्तरकरणापेक्षायाम् अनवस्थादोषेण कार्यानिष्पत्तेः । स्वतस्तत्करणे तु कार्यकरणमेवास्तु विशेषाभावात् ।
भवतु स्वतस्तत्करणम्, तथापि न कार्यस्यानुपरमः संयोगस्यापेक्षणीयस्याभावे तदुपरमात् । संयोगापेक्षा एव हि परमाणवः कार्यारम्भण इति चेत्; स एव तेषां कथं ५ संयोगः ? तदुत्पत्तेरिति चेत्; अनिवृत्तः पर्यनुयोगः 'तेषामक्षये कथं तदुपरमः' इति । संयोगोऽपि तेषां कर्मणः, तदपि संस्कारातू, सोऽपि कर्मणः पूर्वस्मात् तदपि पूर्वस्मादेव संस्कारात्, तावदेवं यावदाद्यं कर्म, तत्तु तेषामात्मसंयोगात्, 'तदनित्यत्वेन कर्माद्यनित्यत्वादुपपन्नः संयोगस्योपरमइति चेत्; न; आत्मनः परमाणूनाञ्च नित्यत्वें तत्संयोगस्याप्यनित्यत्वानुपपत्तेः । अपेक्ष्यस्याप्यदृष्टस्यात्मकार्यत्वेन सर्वदा सन्निधानात् । अपेक्ष्यासन्निधानात्तदसन्निधानं १० मिति चेत्; ननु तत्रापेक्ष्यं द्रव्यादिकमेव " द्रव्यगुणकर्माणि धर्मसाधनम् " [ इति भावत्कसूत्रात् । "तदपि न तदेव यंस्यादृष्टापेक्षादात्मपरमाणु संयोगादिक्रमादुत्पत्तिः ; परस्पराश्रयात्-सत्यदृष्टे तदपेक्षा तत्क्रमात्तदुत्पत्तिः", उत्पन्नश्च तदपेक्ष्य अदृष्टस्योत्पत्तिरिति । भवतु " अन्यदेवेति चेत्; न; तस्यापि परमाणुनामक्षये तत्कार्यत्वेनोपरमायोगात् तन्निबन्धनस्यादृष्टस्यासन्निधानानुपपत्तेः । अक्षयेऽपि तेषाम् आत्मसंयोगादिक्रमस्य तद्धेतोरदृष्टानित्यत्वेना- १५ नित्यत्वादुपपन्नैवोपरतिः । अदृष्टानित्यत्वं चापेक्ष्यस्य द्रव्यादेरनित्यत्वादिति चेत्; न; तत्रापि 'तदपि न तदेव' इत्यादेरनुगमात् आवृत्तिदोषादनवस्थानुपङ्गाच्च । तन्न तत्संयोग कादाचित्कत्वेन कार्योपरमः ।
]
,
कुतो वा तेषां संयोगादिसहकारि ? प्रतिक्षणं तत्कृतादुपकारादिति चेत्; न ; 'तस्य तेभ्यो भेदे तेषामिति व्यपदेशानुपपत्तेः । ततोऽपि भिन्नस्योपकारस्य भावात्तदुपपत्तौ २० अनवस्थानदौःस्थ्योपनिपातात् । " अभेदे तेषामनित्यत्वापत्तेः " । एककार्यकरणमेवोपकार इति चेत्; कुतस्तेन तत्करणम् ? शक्तत्वात् ; तदपि कुत: ? सति तस्मिन्नवश्यम्भावात् कार्यस्येति चेत्; न तर्हि परमाणूनां शक्तत्वं सत्स्वपि तेषु कार्यानुत्पत्तेः । सहकारिसन्निधावेव तेषां शक्तत्वमिति चेत्; न; अनित्यदोषस्योक्तत्वात् । तत्सन्निधिरेव तेषां शक्तिरिति चेत्; कथमन्यः अन्यस्य शक्तिः ? तेन तत्कार्यस्य करणादिति चेत्; तदपि कथम् ? कथं राज- २५
४ आत्मसंयो
१ कार्यकार - आ०, ब०, प० । २ तदनन्तरेणापे-आ०, ब०, प० । ३ क्रियायाः । स्यानित्यत्वेन । ५ अदृष्टासन्निधानम् । ६ - साधनानीति भावः सूत्रात् आ०, ब०, प० । ७ " तस्य तु साधनानि श्रुतिस्मृतिविहितानि वर्णाश्रमिणां सामान्यविशेषभावेनावस्थितानि द्रव्यगुणकर्माणि " - प्रश० भा० पृ० १३८ । ८ द्रव्यादिकमपि । ९ द्रव्यादेः । १० आत्मानुसंयोगात् परमाणुषु क्रिया, क्रियातो विभागः, विभागात्, पूर्वदेश संयोगनाशः ततः परमाणुद्वयसंयोगः तेन च व्यणुकोत्पत्तिः, त्रिभिः णुकैः त्र्यणुकमित्यादिक्रमात् । ११ द्रव्याद्युत्पत्तिः । १२ द्रव्यादिकम् । १३ उपकारस्य । १४ उपकारात्संयोगादेरभेदे । १५ - त्वोपपत्तेः आ०, ब०, प० । १६ “संयोगादिसहकारिणा " - ता०, टि० । १७ कथं राज-आ०, ब०, प० ।