________________
४१२
न्यायविनिश्चयविवरणे
[ १११०६
कार्यस्य प्रतिव्यूहेन करणमिति चेत्; न; तत्र वस्तुतस्तद्व्यूहस्यैव हेतुत्वात्, तत्पोषकत्वेन राशि 'भक्त्वा तद्धेतुत्वोप कल्पनात् । परमाणूनामपि भाक्तमेव हेतुत्वं सहकारिपोषणादिति चेत्; न; तत्पोषणेऽपि तदपरसहकारिपोषणेन हेतुत्वे अनवस्थापत्तेः । स्वतस्तत्पोपणे तु व्यर्थमेव तत् कार्यस्यैव स्वतस्तदुपपत्तेः । एवं हि तात्त्विकं तद्धेतुत्वं भवेत् । भवतु स्वत एव पोपणं ५ तत्तु सहकारिसन्निधिविशिष्टानामेव तेषां न केवलानामिति चेत्; न; तद्विशिष्टरूपस्य प्रागपि भावे ततोऽपि तत्पोषणप्रसङ्गात्, अभावे चानित्यत्वस्याभिधानात् । तदा तत्सन्निध्यभाव एव तेषां तेंद्रूपाभावो न स्वरूपाभावो यदयं प्रसङ्ग इति चेत्; न; पश्चादपि तत्सन्नि - धिभाव एव तद्रूपभावो न स्वरूपभाव इत्यपि प्रसङ्गात् । एवञ्च तद्रूपं कारणं ब्रुवता 'तत्सन्निधेरेव कारणत्वमभिहितं न तेषाम् । तेषामेव विशिष्टप्रत्ययवेद्यस्वभावो विशिष्टरूपं न सन्निधिरेव; १० तर्हि तद्भावोऽपि पूर्वं तद्वेद्यस्वभावाभाव एव न तत्सन्निधिमात्राभाव इति कथन्न अनित्यतादोपोपनिपातः ।
एतेन एतदपि प्रत्युक्तं यदुच्यते परैः- “न तेषामेव कारणत्वं नापि तत्सन्निधेरेव, अपि तु तदुभयसामग्र्याः ।" [ [] इति कथम् ? यथा सामग्रीभावे तदन्तर्गतसत्तात्मकत्वेन कार्योत्पत्तौ तेषामुपयोगः, तथा तद्भावेऽपि तदन्तर्गताभावत्वेनैव तदनुत्पत्तौ तेषामुपयोग इत्यनित्यतादोषस्याप्रतिक्षेपात् । सामग्रयभावस्य तदभावमन्तरेणापि तदनुत्पत्तिं प्रत्युपयोगे सामग्री - भावस्यापि तद्भावमन्तरेणैव किन्न तदुत्पत्तिं प्रत्युपयोगः स्यात् ? सामग्रीभावे तद्भावस्यावश्य भावादिति चेत्; भवत्ववश्यम्भावः, अन्यथा नित्यत्वहानेः, तस्य तु कुतस्तदङ्गत्वम् ? न ह्यवइयम्भावादेव तत्त्वम्, आकाशादिभावस्यापि तत्त्वप्रसङ्गान्न नियमवती सामग्री स्यात् । अननुकृतव्यतिरेकत्वान्न तस्य तदङ्गत्वमिति चेत्; तत एव परमाणुभावस्यापि न स्यादिति कथन्न तन्निर२० पेक्षस्यैव सामग्रीभावस्य तदुत्पत्तावुपयोगः ?
१५
सामग्री कारणत्वे च प्रत्येकं तत्कारणत्वाभावात् कथं परमाणवः समवायिकारणम् संयोगोऽसमवायिकारणं निमित्तकारणमन्यदिति व्यपदेश: ? सामग्रीकारणत्वस्य तत्रोपचारादिति चेत्; न; मुख्यकारणत्वाभावेनावस्तुत्वापत्तेः । कथं सामग्र्या अपि कारणत्वम् अवस्तूनां सामग्र्या अध्यवस्तुत्वात् ? सामग्र्यास्तदभेदान्मुख्यमेव प्रत्येकमपि कारणत्वमिति चेत्; न; प्रत्येकपरिस२५ मारल्या तस्यास्तदभेदे सामग्री बहुत्वेन कार्य बहुत्वापत्तेः, कार्यानुपरमदोषाश्च परमाणूनां समग्ररूपाणामक्षयात् । बहुपरिसमाप्तौ तु कथं प्रत्येकं कारणत्वं तत्परिसमाप्त्या बहुष्वेवं तत्त्वोपपत्तेः । तथा च नैकशो वस्तुत्वमकारणत्वात् । बहुशो वस्तुत्वमेव एकशोऽपि वस्तुत्वमिति चेत्; न; एकशस्तदभावस्यैव बहुशोऽपि तदभावत्वापत्तेः । बहुशस्तद्भाव एव दृश्यते कारणत्यादिति चेत्; न; एकशोऽपि विपर्ययात् तदभावस्यैव दर्शनात् ।
१ " उपचारेण " - ता० टि० । २ सहकारिपोषणम् । ३ सहकारिपोषणम् । ४ सहकारिसन्निध्यभाव । ५ परमाणूनाम् । ६ तत्पोषणाभावः । ७ परभाणुनिरपेक्षस्यैव । ८ कारणत्वोपपत्तेः ।