________________
१।१०६ ]
प्रथमः प्रत्यक्ष प्रस्तावः
४१३
एकशयावस्तुत्वेन परमाण्वादेर्नित्यत्वम्, अकारणवत्त्वेऽपि सत्राभावात् । न ह्यवस्तुनः स्वतः सत्तासम्बन्धाद्वा तत्त्वं व्योमकुसुमादावपि प्रसङ्गात् । सतचाकारणवतो नित्यत्वम् "सदकारणवन्नित्यम् ।" [वै०सू० ४|१|१] इति वचनात् । एकशा कारणत्वेन वस्तुत्वे सामय्याः प्रागपि ततः कार्यस्यावश्यम्भावात् कथन्न मुख्यः कारणभावो यत इदं विश्वरूपस्य सूक्तम् - " तथा च मुख्यः कारकव्यपदेशो यदा सहकारिसहितं स्वरूपं कार्यं जनयति अन्यदा ५ गौणः" [ ] इति । तन्न " द्रव्याणि द्रव्यान्तरमारम्भन्ते" [वै०सू० १|१|१०] इत्युपपन्नम् ; आरम्भकाणामिवारभ्यस्यापि प्रागसत्त्वाभावेनारभ्यत्वानुपपत्तेः ।
अथ वा, कारणस्याक्षये तेषां कार्यस्य परापरतया तस्यैवानुत्पत्तिः उपरमः कथम् ? न कथञ्चित् । तत एव कारणादेकस्य परस्य पुनरप्यपरस्योत्पत्तेः । सहकारिवैकल्यादनुत्पत्तिरित्यव्ययुक्तम् ; सहकारिप्रतीक्षणस्य प्रतिक्षिप्तत्वात् । न च तद्वैकल्यम् ; प्रागिव १० पश्चादप्यवयवसंयोगस्य भावात् तस्य च द्रव्यारम्भे निरपेक्षत्वात् । "संयोगस्य द्रव्यारम्भे निरपेक्ष कारणत्वात्" [ ] इत्यात्रेयवचनात् । तदवैकल्येऽपि कारणप्रतिबन्धादनुत्पत्तिरिति चेत् ; न ; सति शक्ते हेतौ तद्योगात् ।
,
कार्यमपि प्रतिबन्धे शक्तमेवेति चेत्; न; काचपच्योपनिपातात् हेतोरुत्पत्तिस्तत्प्रबन्धश्च कार्यादिति । हेतोः हेतुत्वमेव तेन प्रतिबध्यत इति चेत्; किं तस्य हेतुत्वम् ? १५ स्वरूपमेवेति चेत्; न; तस्योत्पन्नेऽपि कार्ये भावात् । शक्तिरिति चेत् न ; तस्या अर्थान्तरस्यानभ्युपगमात् । “तत्साहित्यमेव तेन तत्प्रतिबन्धः सति 'तस्मिन कार्योपजननस्याप्रतिपत्तेरिति चेत्; न; तदनुत्पत्तेस्तन्मात्राधीनत्वप्रसङ्गात् । न चैतत्पथ्यं भवताम्, तदुत्पत्तेरपि " तदभावमात्राधीनत्वेन हेतोरकिञ्चित्करत्वापत्तेः । तदभावसहिताद्धेतुभावादेव तदुत्पत्तिरिति चेत्; न; तदनुत्पत्तेरपि "तद्भावसहिताद्धेत्वभावादेव प्राप्तेः । "तद्भावे हेतुभावोऽपि प्रतीयत २० इति चेत्; न; "तस्य शक्तिरूपस्य कार्यानुमेयतया कार्यानुत्पत्तावप्रतिपत्तेः । स्वरूपमेव तस्य शक्तिः, नैतस्याप्रतिपत्तिरिति चेत्; न तर्हि तस्य प्रतिबन्ध इति " कथमनुत्पत्तिः अपरापरस्य कार्यस्य अक्षीणशक्तिके हेतौ " तदयोगात् इत्युपपन्नमेतत्- 'कारणस्य' इत्यादि ।
न चार्य पक्षान्तरे दोपः ; प्रारब्धैकस्थूलपरिणामानां तत्परिणामापरिक्षये तदपरपरिणामारम्भे शक्तिपरिक्षयात् । शक्तेश्च कथञ्चिच्छक्तिमदर्थान्तरत्वेन व्यवस्थापनात् ।
अपि च, कुत इदं परमाणनामाधारत्वं यतः कार्य तेषु व्यपदिश्येत ? उत्पादनादिति चेत ; न ; सहकारिणामपि तत्प्रसङ्गात् । स्थापनादिति चेत्; न; स्वयमस्थास्नुतयोत्प
१ अन्यथा आ०, ब०, प० । २ -स्य पुन -आ०, ब०, प० । ३ संयोगस्य । ४ " स च द्रव्यगुणकर्महेतुः द्रव्यारम्भे निरपेक्षः । " - प्रश० भा० पृ० ६१ । ५ कार्येण । ६ तस्योत्पत्तेर्नापि कार्ये आ०, ब०, प० । स्वरूपस्य । ७ कारणसाहित्य । ८ कारण प्राहित्यप्रतिबन्धे । ९ कारण साहित्य प्रतिबन्धमात्र । १० कारणसाहित्यप्रतिबन्धाभाव । ११ कारण साहित्यप्रतिबन्धसद्भाव । तदभावावसिताद्धे - आ०, ब०, प० । १२ कारण साहित्य प्रतिबन्धसद्भावे । १३ हेतुभावस्य । १४ कथमुत्प - आ०, ब०, प०। १५ अनुत्पत्ययोगात । १६ आधारत्वप्रसङ्गात् ।
२५