________________
४१४
भ्यायविनिश्चयविवरण
। १।१०६ नस्य तदयोगात् । न हि तस्य तेभ्यः स्थितिव्यतिरेकेण विरोधात , स्वयमस्थास्नु च स्थितिश्च तस्येति । व्यतिरेकेऽपि कथं तया तैत्तिष्ठेन्नाम ? सम्बन्धादिति चेत् ; न; अनुपकारे तदयोगादतिप्रसङ्गात् । स्थित्यापि तदन्तरस्योपकार इति चेत् ; न; तस्यापि व्यतिरेके पूर्ववत्प्रसङ्गात् ।
तेनापि तदन्तरकल्पनायाम् अनवस्थापत्तः। स्थितिरेव कार्येणोपकार इति चेत् ; न ; ५ तत्स्वरूपस्य परमाणुभ्य एव भावात् । अस्वरूपमुपकार इति चेत् ; तेनाप्यनुपकारे सम्बन्धायोगात् । ततोऽप्यस्वरूपोपकारान्तरपरिकल्पनायाम् अनवस्थोपनिपातात् । तन्नास्थास्नुतयोत्पन्नस्य कुतश्चिदवस्थापनम् । नापि विपरीतस्य वैयर्थ्यात् । सत्यपि स्थापकत्वे परमाणूनां कथं स्थाप्यस्य कुतश्चिदुपरमः ? स्थापकेष्वक्षीणेषु तदयोगात् । उपरमहेतुसन्निधानात्प्रागेव तेषां स्थापकत्वं न पश्चादिति चेत् ; न; अनित्यत्वापत्त सवेदनात् । कार्यस्थैवायं धर्मो यत्स्था. पकेषु सत्स्वपि उपरमहेतुसन्निधानादुपरमतीति चेत् ; तदुपरमे कथं स्थापकत्वं तस्य स्थाप्यापेक्षत्वात् ? चित्रोपरमे कथं कुड्यस्य स्थापकत्वमिति चेत् ? न; असिद्धत्वात् । न हि सत्येव स्थाप. कत्वे कुड्यस्य चित्रोपरमः, तदस्थापकत्वपरिणामभाव एव तेंदुपपत्तः। किमिदानी वृष्ट्यादिना तदुपरमहेतुनेति चेत् ? न ; तत्सन्निधान एव तस्य स्वहेतुतस्तत्परिणामात् । उक्तश्चैतत्
"स्वतोऽन्यतो विवर्तेत क्रमाद्धे तुफलात्मना'[ सिद्धिवि. परि० ३] इति ।
तन्न कुड्यमत्र दृष्टान्तो वैषम्यात् । तस्मादनुपरतिरेव सत्सु स्थापकेषु कार्यस्येति व्यर्था एवोपरतिहेतवो नित्यकारणवादिनाम् । तदाह-कारणस्य इत्यादि । कारणस्य परमाणुरूपस्य जातावेकवचनम् । अक्षये स्थापकस्वभावापरिश्रये कार्यस्य स्थाप्यस्योपरमः प्रध्वंसः । कथम् ? न कथञ्चित् ।
किञ्च तस्य तैः स्थाप्यत्वम् ? सम्बन्ध इति चेत् ? सोऽपि यदि सर्वात्मना २० तदनुप्रवेशः ; तदा परमाणव एव नापरं द्रव्यमिति कथन्न "सर्वाग्रहणम् अवयव्य
सिद्धः" [ न्यायसू० २।१।३४ ] इति भवतोऽपि दोषः । एकदेशेनेति चेत् ; न ; कारणव्यतिरेकेण तदभावात् । भावे तत्रापि सर्वात्मना तदनुप्रवेशे स एव अवयव्यभावान्न तस्य नापि परमाणूनामतीन्द्रियत्वाद्हणमिति सर्वाग्रहणदोषः । तत्राप्येकदेशेन
तदनुप्रवेशकल्पनायाम् अनवस्थानम् । न सर्वात्मनैकदेशेन वा सम्बन्धः; "तस्य भेदाभावात् , २५ सत्येव च भेदे तन्निःशेषतायां सर्वात्मनेति, तत्सशेषतायामेकदेशेनेति चोपपत्तेः, अपि
तु स्वरूपेणैव ; इत्यपि न युक्तम् ; तेनापि तदनुप्रवेशे तन्मात्रावशेषात् "पूर्वदोषानतिवृत्तेः । न तदनुप्रवेशः सम्बन्धः, अपि तु अजहद्रूपतया "प्राप्तिरेवेति चेत् ; तत्रापि न क्रमेण प्रत्यवयवं तस्य सम्बन्धः ; एकद्रव्यस्य प्रसङ्गात् , तस्य चानभ्युपगमात् , अवय
१ कार्यस्य । २ कार्यस्य । ३ कार्यम् । ४ चित्रोपरमोपपत्तेः । ५ चित्रोपरम । ६ कुज्यस्य । ७ कार्यस्य । ८ योगस्यापि । “अवयविद्रव्यमनभ्युपगच्छन्तं सौगतं प्रति भवता आपाद्यमानो दोषो भवतोऽपि योगस्यापि स्यादित्यर्थः ।"-ता. टि. । ९ एकदेशाभावात् । १० अवयविनः। ११ सर्वाग्रहणप्रसङ्ग । १२ प्राप्ते. रेवे-आ., ब०,०।